Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay

View full book text
Previous | Next

Page 60
________________ कठोपनिषत् । ६१ 1 स्वस्य कार्यमर्धमात्रया वाच्यम् । इति प्रणवेन देहादियुक्तः परमात्मा वाच्यः । यः परमात्मा तदेव परं ब्रह्म तस्मात्तेन परमात्मनः सगुणं निर्गुणं च रूपे वाच्ये तेन वाच्यवाचकयोरभेदात्प्रणवस्तद्रूप एवास्ति । परमात्मा स्वभक्तजनकृपापारावारस्तदुद्धारं चिकीर्षुः स्वयं चित्प्रकृतिमाश्रित्य तया प्रज्ञानवान्सन्संकल्परूपो भूत्वा नादरूपेण व्यक्तिमापद्य प्रणवरूपेण संबभूवातस्तत्पूर्वरूपं ध्वनिर्ध्वनेः संकल्पस्तस्य प्रज्ञानं तत्परं ब्रह्मेवास्त्युक्तं च ' प्रज्ञानं ब्रह्म' इति । तस्मादोमित्येतदक्षरं परं ब्रह्म | - सर्वेऽपि वर्णाः संकल्पप्रज्ञानमूला एव तेन तेऽपि किं न तथा । न । ते कार्यप्रपञ्चप्रकाशकत्वेन प्रपञ्चनिष्ठास्तामसाहंकारसंभूतवियदुणरूप - त्वात्तामसाः 1 प्रणवस्य तूत्पत्तिर्मायाविद्यातमो निरासायोक्तप्रकारेण स्वाविस्मरणात्प्रज्ञावावलम्वनेनैव जाताऽतस्तद्रूप एव सः । वाच्यवाचकाभेदेनापि तद्रूप एव । तस्मादेतदक्षरज्ञानं तत्परब्रह्मात्मविज्ञानं तस्य परब्रह्मरूपत्वात् । कथं तदक्षरयोगेण ब्रह्मात्मानुभवः । यथा कारणे देहादि सर्व सार्धमात्रात्रयेण वाच्यं तथाऽध्यात्ममपि विजानीयात्तदशत्वात् । तत्र स्थूलं शरीरमात्मनस्तत्रावस्था जागर उभयाभिमानी विश्व इत्येतदाविद्यकरजोगुणकार्य प्रणवपादाकारवाच्यं विजानीयात् । तथा लिङ्गं शरीरं पञ्चविंशतितत्त्वात्मकं तत्रावस्था स्वम् उभयाभिमानी तेजस इत्येतत्रयमविद्यातमःपूर्वक सत्त्व कार्यमुकार वाच्यम् । कारणं शरीरं सुषुप्तिरवस्था प्राज्ञोऽभिमानीति त्रयं मकारवाच्यम् । महाकारण देहस्तुरीयावस्था प्रत्यगात्माभिमानीत्येतच्छुद्धसवगुणस्य कार्यमर्धमात्रावाच्यम् । एवं सार्धमात्रात्रयप्रणवोच्चारकाले रहस्यवस्थाय विधिवदासनं प्रतिष्ठाप्य बाह्यविषयान्बहिस्त्यक्त्वा तन्नि ठमात्मप्रज्ञानं ततः प्रत्यावर्त्य तावद्देहनिष्ठं कुर्यात् । ततोऽकारोच्चारणे तद्वाच्यस्थूलशरीरमनुचिन्त्योकारोच्चारणेन तत्साक्षित्वमनुभूय तेनाऽऽत्मनोऽन्तनिष्ठत्वं विज्ञाय स्थूलानुसंधान परित्यागेनान्तर्मुखो भूत्वा तत्त्वात्मकलिङ्गदेहरूपमात्मानमनुचिन्तयेत् । ततो मकारोच्चारणेन विलक्षणधर्मसाक्षित्वेन तदतीतं विज्ञाय सर्ववृत्तिपरित्यागेन कारणदेहनिष्ठो भवेत् । अन्तेऽर्धमात्रोच्चारणेन जडत्वसाक्षित्वेनाऽऽत्मानं प्रज्ञानयोगेन सर्वसाक्षिस्वरूपमनुचिन्तयेत् । ततस्तद्न्तगतध्वनिविलयेन तत्साक्षित्ववृत्तिपरित्यागाज्ज्ञानाज्ञाननिरासेन निर्विकल्पत्वेन परे ब्रह्माणे तपखेनावतिष्ठेत । यद्वा पूर्वमेव देहावस्थात्रयसाक्षित्वेन निरवलम्बे निष्ठां

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102