Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay

View full book text
Previous | Next

Page 57
________________ अर्थप्रकाशसमेतामिति निश्चित्य यो द्रष्टा श्रोता मन्ता प्रज्ञानवानन्तराकाशस्थः स एवाऽऽत्मेति विदित्वा तद्देहनिष्ठं प्रज्ञानं ततः कोऽङ्गानीव समावर्त्य शरीरासङ्गत्वेन हृत्पुण्डरीकावकाशनिष्ठं विदधीत।तत्र स्थिरे मनसि सति स्थूलाभावः स्वभावात् । तथा जागृतेस्तज्जन्यमानस्यापि । तत्र यहहरं वियदन्तस्तदेवानन्तत्वेनाऽऽमाति तच्चिदाकाशाभिधं तत्र दृश्यदर्शनद्रष्टुत्वयोगाल्लिङ्गदेहे स्थितिः । तदपि विवेकतोऽनात्मा, विलक्षणतत्त्वभेदसाक्षित्वात् । एवं विलक्षणत्वेन यज्ज्ञेयं तदनात्मभूतं तदा यः प्रज्ञा- . नाश्रयभूतः स आत्मा । इति ज्ञात्वा दृश्यदर्शनद्रष्ट्टत्वपरित्यागेन वृत्ति. मात्रविलयेनाऽऽत्मन्यवस्थानं लयप्राधान्येन संभवति । तदात्मत्वेन प्रतीयमानस्य तस्याप्यमावः । स पञ्चविंशतितत्त्वरूपस्तल्लयोद्भवे वर्तमानस्याऽऽत्मनो मुख्यं स्वरूपं कथं स्यात् । एवं तन्निरासेनाऽऽत्मनस्तमःप्राधान्यात्कारण देहेऽवस्थानं जातम् । तत्रापि तत्प्रकाशकत्वेन ज्ञानं वर्तत एष विना तेन कुतः सोऽनुभवो नाहमात्मानं वेदेति । तस्मात्तदन्तर्वतिज्ञानावलम्बनेन तज्जडत्वनिरासः । तेन प्रज्ञानमयत्वमात्मनः । सेव कारणदेहनिरासेन प्रज्ञानमये महाकारणे निष्ठा तत्रापि ज्ञानमात्मा चित्तदाश्रयः । आत्मानात्मविवेकतो न ज्ञानस्य विनाऽऽश्रयेणावस्थानं तस्मात्स एव तत्प्रवर्तको निवर्तकः । अतो ज्ञानावलम्बपरित्यागेन ज्ञात. त्वमप्यनाश्रित्याज्ञानान्यथाज्ञानमुक्तत्वेन गुरुणा दत्तविज्ञानयुक्त्या निर्विकारत्वेनावस्थानमेव सच्चिदानन्दमयी स्वप्रकाशत्वेन निष्ठा संभवति । 'न तत्र सूर्यो भाति न चन्द्रतारके नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव मान्तमनु भाति सर्व यस्य भासा सर्वमिदं विभाति ' स एवा. ध्यात्माधियोगाधिगमो विज्ञेयः ॥१२॥ यथाऽऽत्मन्यध्यात्मयोग उपदिष्टस्तमेवान्वन्तर्विवकेनापरोक्षतया शुद्धास्मतत्त्वमनुभवितव्यमित्याह एतच्छ्रत्वा संपरिगृह्य मर्त्यः प्रवृह्य धर्मामणुमेतमाप्य । संमोदते मोदनीय हि लब्ध्वाऽ विवृत५ सद्म नचिकेतसं मन्ये ॥ १३ ॥ मयों मनुष्योऽधिकारी विवेकवानास्थापर एतन्मयोक्तमात्मविज्ञानसाधनं श्रुत्वा संपरिगृह्य तदनुमनननिदिध्यासायोगं गृहीत्वा विषयेषु संसक्तमात्मप्रज्ञानं तेभ्यः प्रवृह्योद्यम्य तदनुसंधानपरित्यागादन्तर्मुखः

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102