Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay
View full book text
________________
५४
तरस्तवनायेदमुच्यते
अर्थप्रकाशसमेता
जानाम्यहं शेवधीरित्यनित्यं न ह्यधुवैः प्राप्यते हि ध्रुवं तत् । ततो मया नचिकेतश्चितोऽशिरनित्यैर्ब्रव्यैः प्राप्तवानस्मि नित्यम् ॥ १० ॥
शेवधी: शेवधिर्निधिरनित्यं वस्त्वित्यहं जानामि द्रव्यादिपदार्था अनित्य इति किं तत्कारणं निधिरनित्य एव सर्वस्यापि कालप्रवाहे पतितत्वात् । नहि नैवाभ्रुवैरनित्यैः संगृहीतैस्तद्ध्रुवं वस्तु परमार्थसंज्ञं प्राप्यते । ननु ध्रुवं तदेकमेव तद्परं सर्वमधुवमेवास्ति तदा तत्प्राप्तिः केन ध्रुवेणैव कथं च । ध्रुवं तदक्षरं ब्रह्म तदेव मायोपाधित्वादीश्वरस्वरूपं कर्मोपासनादिभिराराधितः स परमात्मा गुरुरूपेण शिष्यं प्रति प्रकटो भवति तत्प्रसादाद्ध्रुवसंप्राप्तिः । ननु यगुरुरूपं तन्मर्त्यमेव कथं तेनाधुवेण ध्रुवसंप्राप्तिः । गुरोर्मुख्यं रूपमुपदेशपरं तत्किं स्थूलं वा सूक्ष्मं जीवरूपं न स्थूलं जडत्वान्न च जीवरूपमपि विनाऽपरोक्षात्मतत्त्वविज्ञानं कुतस्तस्य गुरुत्वमतो योऽपरोक्षत्वेन परब्रह्मात्मविज्ञानेन नित्यं स्वरूपनिष्ठावान्स एव गुरुत्वाहः । स निजानन्दमयतां निर्विकल्पतां परित्यज्य शिष्यबोधाय चित्प्रकृतिमाश्रित्य स्वाविस्मरणेनैव तत्परं तत्त्वं शिष्यं बोधयते तत्प्रसादात्तदुपलब्धिश्चास्य भवति तदा यत्सच्चिदानन्दरूपं परं ब्रह्म ध्रुवं तदेव गुरुरूपं विजानीयात् । तेन स्वगतप्रज्ञापकाशेन तत्स्थूलमपि व्याप्तं दृश्यते परापरविद्याप्रकाशनेनातत्सङ्गेन तदपि चिन्मयमेवास्ति । तदा सर्वदा स्वानन्दसंतृप्तत्वात्तदानन्देन व्याप्तोऽयं तस्य देहः परब्रह्मानन्दमयः । तेन परब्रह्मरूपेणान्वितत्वात्तद्रूपदर्शनेन च ब्रह्मरूपोऽप्यतस्तेनाक्षरसंप्राप्तिर्भवति नान्येन । ननु कर्मोपासनादिनाऽऽराधितः स ज्ञानं ददाति तदा तदपि साधनरूपमेव ध्रुवोपलब्धये सत्यं, न साक्षाद्ध्रुवसंप्रापकं परम्परयाऽस्त्येव । यस्मादेवं ननित्येन नित्यसंप्राप्तिः । ततस्तस्मान्मया हे नचिकेतोऽनित्यैर्द्रव्यैरनित्यद्रव्यव्ययेनाग्निः सोपाधिकः परमात्मा चितः । आराधनेन चितः संगृहीतस्ततस्तत्प्रसादान्नित्यं वस्तु परमार्थसंज्ञं प्राप्तवानस्मि ॥ १० ॥
तथा त्वमपीत्याह
कामस्याऽऽप्तिं जगतः प्रतिष्ठां क्रतोरनन्त

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102