Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay

View full book text
Previous | Next

Page 51
________________ ५२ अर्थप्रकाशसमेतास्तेन सह स एव विकृतो दृश्यते श्रूयते च 'अयमात्मा ब्रह्म' इति तस्मात्कथं स निर्विकारः । एवं परिपूर्णत्वमपि श्रवणाय न लभ्यते । यत्पूर्णं तस्य न निराकारत्वं संभवति तदभावे सर्वगते तस्मिन्सर्वस्या. स्यावकाशः कुतः पूर्ण तद्विषयरूपं सलिलवत्तेन करणगोचरः स्यात् । तस्मादपूर्ण निराकारमेव चेत्तर्हि पूर्णत्वेनोच्यते 'पूर्णमदः पूर्णमिदम्' इत्यतो न तथा तद्विज्ञातुं शक्यम् । अथ चिदानन्दमयश्चेत्तदा ज्ञातृज्ञानज्ञेयभोक्तृभोगभोग्यप्रसङ्गो मवेत् । तदा कथमनन्तो निर्विकल्प: सः। तदभावे कथमानन्दानुभवः । कथं चाऽऽश्रयेण विना ज्ञानम् । तेन तस्य तदपि दुर्बोधमेव । एवमनुपमेयत्वेन वागगोचरत्वाच्छ्रवणायापि न लभ्यः । अत एव शृण्वन्तोऽपि बहवो यमात्मानं न विद्युन विजानीयुस्तच्छ्रवणस्य दुर्बोधत्वात्। तर्हि किं तदुपपादनश्रवणामाव एवेति चेत्। अस्याऽऽत्मनो वक्तोपपादक आश्चर्य आश्चर्यरूप एव। कथम्, अयं निरुपाधिको निर्गुणोऽसङ्गो निर्विकारः परिपूर्णश्चिदानन्दमयोऽपि सोपाधिक: सगुणो देहावस्थावान्सविकार एवं सर्वाकारोऽपि निराकारो निराकारसर्वाकारः परिपूर्णोऽपि गगनवदसङ्गो निराकारश्चिन्मयोऽपि ज्ञातृत्वादिमावशून्यो नित्यानन्दमयोऽपि मोक्तृत्वादिभावरहित इत्याश्चर्योपपादनयोगेन वक्ता चाश्चर्योऽप्याश्चर्यरूप एव । तथा योऽस्याऽऽत्मन उपपाद नस्य लब्धा स कुशलोऽतिचतुरः । यः प्रज्ञाधारणावान्स एवाधिकारी न मन्दप्रज्ञः। अस्याऽऽत्मनो ज्ञानात्मन्यात्मत्वेनापरोक्षतया विज्ञाताऽप्या. श्चर्यस्तथाऽन्तःक्रियायोगेण । किंविधः सः। कुशलेनापरविद्यापारावारे. णापि परविद्योपदेशेऽतिनिपुणेन सर्वज्ञेनाऽऽचार्येणानुशिष्टः कृतानु: शासनः ॥७॥ यस्मादेवं तस्मात् न नरेणावर प्रोक्त एष सुविज्ञेयो बहुधा चिन्त्यमानः । अनन्यप्रोक्ते गतिरत्र नास्त्यणीयान्ह्यतय॑मणुप्रमाणात् ॥८॥ एष प्रकृत आत्मा नरेण मनुष्येणावरावरेण निकृष्टेनानधिकारिणा सांसारिकेणानिवृत्ताविद्यावरणेन बहिर्मुखेण शास्त्रतः परोक्षेणैवाऽऽत्मनाऽऽत्मविचारपरिज्ञानिना प्रोक्तः प्रकर्षणातिशयेन नानायुक्तिविवादेन

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102