Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay
View full book text
________________
कठोपनिषत् । नाविधैस्तदुपपादकैर्वेदशास्त्रार्थरूपैस्तदुपपादकानेकाचार्योदितैर्वचनैः श्रवणायापि श्रोतुमपि न लभ्यो लब्धं शक्यः । यथा कस्यचन पदार्थस्य श्रवणेन परोक्षत्वेन ज्ञानं संभवत्युपपादनाय च न तथाऽनुपमेयस्यास्य साकल्येन परिज्ञानं संभवति । कथम्, अयमात्मा निरुपाधिर्निर्गुणः शुद्धोऽसङ्गा निर्विकारः परिपूर्णश्चिदानन्दमय इत्युफ्पाद्यते। तत्र यन्नि. रुपाधिरित्युक्तं तदुपाधेरत्यन्ताभावेन । चेत्तथा तदात्यन्ताभावरूपस्य न नामरूपगुणकर्मधर्मसंभवः स त्ववगम्यते तस्मान्न स तथा वक्तुमर्हः । तस्मिन्वर्तमानेऽपि स निरुपाधिरिति चेत्तदात्मनोऽनन्तत्वात्कुत्रावस्थानं तस्योच्येत । स तत्रैव वर्तमानोऽप्यनिर्वचनीयत्वेन विवर्तरूपो न विवतस्याधिष्ठानदृष्ट्या भानमतो निरुपाधिरिति चेन्न विवर्तस्यात्यन्ताभावो वक्तुं शक्यः स्वसिद्धान्तविरुद्धत्वात्तेन तदृष्ट्या मासमानोऽपि स तत्रैवास्ति तदधिष्ठानत्वात् । तस्य शुद्धं रूपं निर्विकल्पं प्रज्ञानं तत्स्वगतं तेन परं ब्रह्म नित्यं चिदानन्दमयम् । उत्पत्तिकाले तथा. विधस्य स्वगतस्य तस्यावलम्बोऽपि भवति । अत एवोच्यते 'तपसा चीयते ब्रह्म' इति । किं तत्तप इति चेत्तत्रैवाग्र उच्यते ' तस्य ज्ञानमयं तपः' इति । तस्मात्कथं तच्छास्त्रनिर्दिष्टनिरुपाधिकत्वं विज्ञेयम् । नास्तीति वक्तुमनुपपन्नं तथा निर्गुणत्वमपि दुर्बोधमेव । कथं यद्गुणानां लयोद्भवमूलं प्रज्ञानं तत्स्वगतं तेन परं ब्रह्म चिन्मयमतस्तदूपमेव तत् । अत एवोच्यते 'प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्म विज्ञानमानन्दं ब्रह्म, सत्यं ज्ञानमनन्तं ब्रह्म' इति । यथा प्रभा रत्नस्यैव तदपृथगूपाऽतस्तया तदेवास्ति तदा तस्यां वर्तमाना कथं न रत्नस्य तस्मात्तैस्तदेवाऽऽख्यायते न केवला प्रभा तथाऽत्रापि चित्संभवा गुणा ब्रह्मसंभवा एव तेन न स सगुण एवेति ज्ञायते तत्र कधं तस्य निगुणत्वं ज्ञेयम् । अथ स शुद्ध इत्युच्यते तत्र किं मलं तदभावेन शुद्धत्वमुपपादनीयं तस्य मायाऽवि. द्योपाधिस्तद्वणा एवेति चेत्तदा तस्य सर्वस्यापृथक्सिद्धत्वात्कथं तच्छुद्धत्वं विज्ञेयम् । तथाऽसङ्गत्वमपि नित्यं प्रकृतिगुणयुक्तस्य तत्कृतदेहावस्थायोगस्तेन प्रपञ्चस्याप्यत एव तन्निरासोऽपेक्ष्यते तदर्था च सद्गुरु. प्राप्तिस्तस्मात्कथं तत्तथा । एवं निर्विकारत्वमपि तस्यासुबोधम् । चेत्स तथैव तदा प्रज्ञानावलम्बनेन तच्छुद्धसत्त्वगुणप्रधानत्वेन शबलं किं जातं तथा गुणनिमित्तेनाव्यक्तादिसर्वसृध्याकारेण किं विकृतं ज्ञेयम् । उपाधिरेव न विकारस्य सदसद्रूपत्वान्न केवलः स एव विकृतो मन्तव्य.

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102