Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay
View full book text
________________
कठोपनिषत् |
म यस्य पारम् । स्तोमं महदुरुगायप्रतिष्ठां न त्वं धृत्या धीरो नचिकेतोऽत्यस्राक्षीः ॥ ११ ॥ कामस्याऽऽप्तिं काम्यते कामस्तस्याऽऽप्तिं काम आप्यते प्राप्यतेऽनmissप्तिस्तामाप्तिं कामातिरूपं यत्प्राप्त्या सर्वेऽपि कामा आप्यन्ते स्वभावात् । अत एवोच्यते ' सत्यं ज्ञानमनन्तं ब्रह्म यो वेद निहितं गुहायां परमे व्योमन् सोऽश्नुते सर्वान्कामान्सह ब्रह्मणा विपश्चिता' इति । कथं ब्रह्मणा सर्वकामाप्तिरिति चेत्तत्रोच्यते 'एतस्यैवाऽऽनन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति ' इति अंशिनः प्राप्त्यांऽशप्राप्तिः स्वभावाज्जातैव । तस्मादुक्तं सर्वकामाप्तिरूपमिति । जगतः स्थूलसूक्ष्मरूपस्य प्रतिष्ठामधिष्ठानभूतं स्थित्युद्भवलयकारणत्वात् । नोत्पत्तिकाले कारणात्कार्यं पृथगेवोत्पद्यते तस्य सहचरत्वाद्घटेषु मृदिव । अत उक्तं ' वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् । स्थितिकालेऽपि कार्यजातस्य सर्वस्य कारण एव स्थितिर्दृश्यते तन्तुविनाशे कुतः पटस्यावस्थानम् । लयोऽपि कारणानुक्रमेण सर्वसाम्यान्तर्गतं भूत्वा पर एवावतिष्ठते । तेन जगतः प्रतिष्ठाभूतम् । क्रतोस्तस्यापि प्रतिष्ठाभूतं तथा स्मर्यते च 'तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम्' । केन रूपेणेति चेत् 'ब्रह्मार्पणं ब्रह्म हवि. ब्रह्माग्नौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ' इति । अनन्तं सर्वगतम् ' तद्दूरे तद्वन्तिके तद्न्तरस्य सर्वस्य ' इत्युक्तत्वात् । अभयस्य पारं भयाभावोऽभयं तस्य पारमन्तः । अभयं तद्भयसापेक्षितं द्वितीयाद्वै भयं भवति । यत्र द्वैतमेव वस्तुतो नास्ति तत्र कुतो भयाभये । स्तोमं वेदादिभिः स्तूयते तत्स्तोमम् । एष भूतपतिरेष भूतपालः स सेतुविधरण एषां लोकानामसंभेदाय सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति ' भीषाऽस्माद्वातः पवते भीषोदेति सूर्य: । ' महन् महतोऽपि महीयांसम् ' अत आम्नातं ' यस्मिन्द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः । तस्मादेवोरुगायम् । उरुभिर्महद्भिर्गीयते तत् । 'अथात आदेशो नेति नेतीत्यात्माऽगृह्यो न हि गृह्यते, अस्थूलमनणु इत्यादिभिः । प्रतिष्ठां प्रतिष्ठाभूतं यत्सत्तया सर्वस्यापि निजनामरूपगुणधर्मकर्मयोगेणास्तित्वं सैव प्रतिष्ठा सर्वस्य । विना तत्सत्तयाऽकिंचनभूतमेव सर्वम् । यद्वा सर्वस्य प्रतिष्ठाभूतम् । कथं यद्विज्ञानमेव सर्वविप्रतिष्ठानत्वेन स्तूयते ' स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह इति । तथा तद्विद्यावानपि 'नैनं पाप्मा तरति सर्वं
4
"
"
५५
a

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102