Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay

View full book text
Previous | Next

Page 48
________________ कठोपनिषत् ।। स्तः कथं प्रियं तद्भोगावसरेऽनेकविधसुखजनकं तथाऽपि न तथा मन्तव्यं दुःखरूपमेव सर्वदुःखमूलक्लेशसाध्यत्वात् । तथा पालनेऽपि महदुःखमेवास्ति राजचोरभयशङ्कायोगेन । तद्विनश्वरं च विनष्टे मह दुःखं यावदायुः । तथा श्रेयोऽप्याचरणे महद्दुःखमेवास्ति । कामनायोगेन स्वर्गप्राप्तिकरं साऽनित्या । उक्तं च 'क्षीणे पुण्ये मृत्युलोकं विशन्ति' इति । तेन तद्वियोगे दुःखमेवातितराम् । संसारप्राप्त्या वर्तमानकालेऽपि तत्क्षयमीतिशङ्का । तस्मात्ते दुःखमूलत्वेन विपरीते एव । पुनः किंविधे दूरं विषूची विष्वश्चतो विषूची । नानेनैव देहनाऽत्मनोऽनयोःसङ्गो दूरं बहुकालमन्येष्वपि देहेषु बन्धनभूते एव स्तः। त्वं (?)। विद्यया विवेकेनाविद्याविद्यारूपे आत्मनो बन्धके इति ज्ञाताज्ञाते(?)। अतस्त्वां नचिकेतसमविद्यापरित्यागेन विद्यामीप्सिनं विद्यां परविद्यामभीप्सस्यभ्यासुमिच्छसि विद्याभीप्सिनं मन्ये । न त्वा त्वां बहवः कामा लोलुपन्तो लोलुपन्ति भृशं विमोहयन्ति । अतस्ताननपेक्ष्य विद्याममीप्ससि ॥४॥ त्वदन्ये तु अविद्यायामन्तरे वेष्टयमानाः स्वयमधीराः पण्डितंमन्यमानाः। दन्दद्यमानाः परियन्ति मूढा अन्धेनैव नीयमाना यथाऽन्धाः ॥ ५ ॥ अविद्यायां न विद्याऽविद्याऽज्ञानप्रधाना जीवप्रकृतिस्तस्यां वर्तमानाः किमाधेयाधिष्ठानभावेन । अन्तरे मध्ये तयाऽऽवृताः । न केवलं तदेवैकमावरणम् । वेष्टयमानास्तद्गुणैस्तत्कार्यैश्च देहैस्तत्समवेन च कर्मत्रयेण वेष्टिता आवृताः । नन्वविद्यावरणं कस्य पूर्णस्य वा चैतन्यस्य प्रतीचो वा वाच्यम् । न पूर्णस्यानन्तत्वात् ।न परिच्छिन्नतयाऽनन्तं तदावर्तयितुं शक्यम् । चेत्प्रतीच एव । न तस्य तत्कृतत्वात् । सत्यमधिष्ठानयोगे शुद्धचित्प्रकृतौ य आत्ममावः स प्रत्यगात्मा तस्मात्स कथं न तयाऽऽवृतः। तेन स्वयमधीरा अविवेकिनोऽप्यात्मानं पण्डितंमन्यमानाः केवलेन शास्त्रीयेणैव ज्ञानेनाऽऽत्मनि कृतकृत्यत्वं मन्यमानाः। तथा परिदह्यमाना. त्रिविधतापयोगेन पुनः पुनर्भृशं पीड्यमानाः । परियन्ति परितो गच्छन्ति । काम्यकर्मयोगेणेहामुत्र चाकर्मविकर्मयोगेण नानायोनिषु

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102