Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay
View full book text
________________
कठोपनिषत् |
इति नचिकेतसो वचनमाकर्ण्य मृत्युरुवाचयं यं वरं गूढमनुप्रविष्टो नान्यं तस्मान्नचिकेतो वृणीते ॥ ३० ॥
४७
हे नचिकेतः पुरुषोऽयं परमुत्कृष्टं गूढं मावमनुप्रविष्टोऽनुप्राप्तस्तस्मादन्यं वरं न वृणीषे । अतः परं तं तुभ्यं ददामि ॥ ३० ॥
इति श्रीमदादिगुरुदत्तात्रेय दिगाम्बरानुचर विरचिते ज्ञानकाण्डे कठवल्ल्युपनिषदर्थप्रकाशे प्रथमा वल्ली व्याख्याता ॥ १ ॥
इति तद्वचनादभिप्रायं विज्ञायायं सच्छिष्य उपदेशार्ह इति मत्वा प्रीतः संस्तदधिकारस्तुत्यर्थं मृत्युरुवाच
अन्यच्छ्रेयोऽन्यदुतैव प्रेयस्ते उभे नानार्थे पुरुषं सिनीतः । तयोः श्रेय आददानस्य साधु भवति हीयतेऽर्थाय उ प्रेयो वृणीते ॥ १ ॥
श्रेय उक्तकर्माचरणमन्यदस्ति प्रेयसः । उतेव च प्रेयोऽपि स्त्रीपुत्र वित्तादिपदार्थरूपमन्यच्छ्रेयसः । ते उभे श्रेयः प्रेयसी नानार्थे भोगसाधनभूते पुरुषं सिनीतो बनीतः । तत्र प्रेयोऽहंममत्वयोगेन श्रेयस्तूक्तफलवास नायोगेन । तथाऽपि श्रेय आददानस्य साधु शोभनं भवति । य उ यश्च प्रेयो वृणीते सोऽर्थात्परमार्थाद्भोगसाधनरूपाच्च हीयते व्यज्यते तस्मादहंममत्व परित्यागेन प्रेयो हित्वा श्रेय एवाऽऽचरणीयम् । ननु ते उभे पुरुषं सिनीत इत्युच्यतेऽतः श्रेयसोऽपि त्यागः किं न विधेयः । न तदाचरण - प्रवृत्तिनिमित्तभूता रोचनार्था फलश्रुतिः । अतस्तत्त्यागेन कृतं कर्म मोक्षोपयुक्तमेवास्ति । चेत्तद्वासनायोगेन कृतं तेन प्रेयस उपलब्धिर्न तथा श्रेयः परित्यज्य प्रेयोवलम्बनेन किंचित्प्रयोजनं श्रूयते । तस्मात्तयोः सांसारिकैः श्रेय एवाऽऽदावाचरणीयम् ॥ १ ॥
श्रेयश्व प्रेयश्व मनुष्यमेतस्तौ संपरीत्य विवि..
G

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102