Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay
View full book text
________________
४६
अर्थप्रकाशसमेता
वित्तमद्राक्ष्म त्वाम् । जीविष्यामो यावदीi शिष्यसि त्वं वरस्तु मे वरणीयः स एव ॥ २७ ॥
न मनुष्योऽहं वित्तेन तर्पणीयः । कुतः । चेत्वामद्राक्ष्म दृष्टवन्तो वयं तर्हि वित्तं लप्स्यामह एव का तस्य दुर्लभता । अतो न वित्तेन मनुष्यस्तर्पणीयः । यावत्त्वमीशिष्यस्यस्माकमीशिता रक्षिता भविष्यसि तावजीविष्याम एव वयं का तत्राचिरजीवित्वशङ्का । तु परं तु मे मम स एव प्रार्थितो वरो वरणीय इत्यध्यवसायः ॥ २७ ॥ इति नचिकेतसो वचनमाकर्ण्य मृत्युरुवाच
अजीर्यताममृतानामुपेत्य जीर्यन्मर्त्यः क्वधस्थः प्रजानन् । अभिध्यायन्वर्णरतिप्रमोदानातिदीर्घे जीविते को रमेत ॥ २८ ॥
..
जीर्यतीति जीर्यन्वयोहानिं प्राप्नुवन्मर्त्यो मनुष्यः । वधस्थः कुः पृथिवी तदूपेऽधोऽधरप्रदेशे स्थितः प्रजानन्प्रकर्षेणा संदिग्धतयाऽऽत्मनो जीर्यत्वं मर्त्यत्वं वधस्थत्वं च जानन्दैवयोगेनाजीर्यतां न जीर्यन्त्यजी • र्यन्तस्तेषां निर्जरसाममृतानाममरणानामजीर्यतोऽमृतान्स्वरुपरिष्टात्स्थितान्समुपेत्य संप्राप्य तेषाममृतानां वर्णरतिप्रमोदान्वणं विशिष्टं रतिं च प्रमोदं चाभिध्यायन्नभिचिन्तयन्कोऽतिदीर्घे देवशतसंवत्सरपर्यन्तं जीविते न रमेत रमेतैव । अतस्तथा जीवितं तथा वर्णरतिप्रमोदान्प्रार्थयस्व ।। २८ ।।
इति मृत्युवचनं श्रुत्वा पुनर्नचिकेता उवाच
यस्मिन्निदं विचिकित्सितं मृत्यो यः सांपराये महति ब्रूहि नस्तत् ॥ २९ ॥
मृत्यो इदं प्रत्यक्षं यस्मिन्विषये विचिकित्सितं देवादिभिः । यश्च वरो महति सांपराये संपरैत्यत्र संपरायो मरणं संपराय एवं सांपरायस्तस्मिन्वर्तते । उक्तं च त्वया मरणं माऽनुप्राक्षीरिति । तत्तमेवं वरं नोऽस्मभ्यं ब्रूहि ॥ २९ ॥

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102