Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay
View full book text
________________
कंठोपनिषत् । ये ये कामा दुर्लभा मर्त्यलोके सर्वान्कामांश्छन्दतः प्रार्थयस्व । इमा रामाः सरथाः
सतूर्या न हीदृशा लम्भनीया मनुष्यैः॥२५॥ ये ये कामा मर्त्यलोके मनुष्यलोके दुर्लभाः सन्ति तान्सर्वान्कामांश्छन्दत इच्छातः प्रार्थयस्व याचस्व । तथेमा रामाः स्त्रियः सरथाः सह रथैः सरथा रथारूढाः सतूर्याः सह तूर्यैः सतूर्याः प्रार्थयस्व । न हीदृशाः स्त्रियो मनुष्यैर्लम्भनीया लभनीया लन्धुं शक्याः । अतस्ताः प्रार्थ. यस्व ॥२५॥
आभिर्मत्पत्ताभिः परिचारयस्व नचि
केतो मरणं माऽनुपाक्षीः ॥ २६ ॥ आभिः प्रत्यक्षाभिर्मत्प्रत्ताभिर्मया प्रतामिः स्त्रीभिरात्मानं परिचार. यस्वाऽऽत्मपरिचयां कारय । हे नचिकेतस्त्वं मरणं माऽनुपाक्षीर्मा मरणानुप्रश्नं कार्षीः । यतस्तज्ज्ञानं परमाणुतुल्यमेव ॥ २६ ॥ इति मृत्युवचनं श्रुत्वा पुनर्नचिकेता उवाच
श्वोभावा मर्त्यस्य यदन्तकैतत्सर्वेन्द्रियाणां जरयन्ति तेजः । अपि सर्व जीवितमल्पमेव
तवैव वाहास्तव नृत्तगीते ॥ २६ ॥ हेऽन्तक मृत्यो यदेतत्प्रत्यक्षं सर्वैरनुभूयमानं श्वोऽपरेधुर्मवितारो मावा अद्यतनं मर्त्यस्य मनुष्यस्य सर्वेन्द्रियाणां सर्वेषां श्रोत्रादीनां वागादीनां चेन्द्रियाणां तेजो जरयन्ति जीणं क्षीणं कुर्वन्ति । एवं प्रत्यहं जरणेनान्ते केवलक्षीणं भवत्यतः का तत्र विनश्वरेऽत्यासक्तिः । अल्पकालजीविन एतदुक्तं, मवतु बहुकालजीविना तु किं न ते प्रार्थनीया इत्यत्राऽऽह-सर्वमपि पूर्णमपि जीवितं जीवनमिहत्यममुत्रत्यं चाल्पमेव स्वतो महतामुपरिष्टाद्वर्तमानानां जीवितस्य भूयस्त्वश्रवणात् । अतस्ते वाहा अश्वप्रभृतयस्तवैव त्वदीया एव सन्तु तथा नृत्तगीते नर्तनगाने तवैव स्ताम् ॥ २६ ॥
न वित्तेन तर्पणीयो मनुष्यो लप्स्यामहे . .

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102