Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay
View full book text
________________
.
अर्थप्रकाशसमेतारति जन्ममृत्यू ।ब्रह्मयज्ञं देवमीडयं विदित्वा .
निचाय्येमा शान्तिमत्यन्तमेति ॥ १७ ॥ ... त्रिणाचिकेतस्त्रयो नाचिकेता यस्य स त्रिनाचिकेतः । एते यो नाचिकेता यजुर्वेदे काठकेषु प्रसिद्धा नाचिकेतानेः प्रतिपादनेन । यथा भारतानां प्रतिपादनेन भारतम् । स त्रिभिर्नाचिकेतैर्भविष्यद्भिः संधि परस्परेण संधानमेत्य प्राप्य संधायेत्यर्थः । त्रिकर्मकृत्रयाणां कर्माणि करिष्यति । त्रिकर्मकृत्सञ्जन्ममृत्यू तरति तरेत्तरिष्यति । किंच ब्रह्मयज्ञं ब्रह्मभिर्वेदैरिज्यते ब्रह्मयज्ञस्तं देवं दीप्यमानं स्वप्रकाशमीडयं स्तुत्यं विदित्वा निचाय्य च पूजयित्वेमामेवंविधामत्यन्तमत्यन्तामुत्कृष्टां शान्तिमेतीयादेष्यति प्राप्स्यति ॥ १७ ॥
त्रिणाचिकेतस्त्रयमेतद्विदित्वा य एवं विद्वा५. श्चिनुते नाचिकेतम् । स मृत्युपाशान्पुरतः
प्रणोद्य शोकातिगो मोदते स्वर्गलोके॥१८॥ य एवमुक्तप्रकारेण विद्वांस्त्रिणाचिकेतः पुमानेतत्रयं त्रयोऽवयवा यस्य तत्रयं विदित्वा नाचिकेतमग्निं चिनुते चिन्वीत नाचिकेताग्निचयनं विदधीत स पुमान्पुरतः पुरस्तान्मृत्युपाशान्मृत्योः पाशान्प्रणोद्य च्छित्वा शोकातिगः सन्स्वर्गलोके मोदते मोदेत ॥१८॥
एष तेऽग्निर्नचिकेतः स्वग्र्यो यमवृणीथा द्वितीयेन वरेण । एतमग्निं तवैव प्रक्ष्यन्ति
जनासस्तृतीयं वरं नचिकेतो वृणीष्व॥१९॥ ... - हे नचिकेत एष ते तव स्वर्यः स्वर्गे साधुः स्वग्र्योऽग्निः, कः, यमग्निं त्वं द्वितीयेन वरेणावृणीथा वृतवानसि । एतमनिं नाचिकेतं तवैव त्वामेवान्यत्रैतत्कालपर्यन्तमविद्यमानत्वात्प्रक्ष्यन्ति पृच्छा करिष्यन्ति जनासो जनाः । अतः परं हे नचिकेतस्तृतीयं वर वृणीष्व ॥ १९ ॥
एवं मृत्युनोक्तो नचिकेता अग्ने रूपं तद्वचनाद्विज्ञायापि लौकिक वादमनुमत्य पप्रच्छ

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102