Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay
View full book text
________________
कठोपनिषत् |
४१
ईश्वरः परमात्मा स एवाग्रेऽग्निवाय्वादित्यरूपेणाऽऽत्मानं त्रेधा व्यकुरुत । उक्तं च ' धात्मानं व्यकुरुताऽऽदित्यं तृतीयं वायुं तृतीयम्' । इति । तेनायमभिः परमात्मा परं ब्रह्मैवास्त्यतोऽग्रणीः सर्वजगत्कारणं सः । एवंविधा शिखा यस्यास्तस्य परब्रह्मरूपस्याऽऽत्मनो हृदयगुहायां कथमनुभवोऽपरोक्षत्वेन । यावत्सा शिखा बहिर्मुखा प्रपञ्चज्ञानेन तावन्न तद्नुभवस्तया यदा च सर्वसङ्गमुक्तत्वेनाऽऽभये तन्मयत्वेनावतिष्ठते तदा परब्रह्मात्मविज्ञानं संभवति । तस्माद्वाह्यविषयान्बहिः कृत्वा तत्संबन्धिनीं तां ततः प्रत्यावर्त्य देहासङ्गत्वेन करणासङ्गत्वेनान्तर्हृदये दहरा• काशे नयते चेत्तदा तद्दृष्ट्या सर्वाभावदर्शनं चिदाकाशनिष्ठत्वमात्मनः । तत्र यथा भावो दृश्यस्तथाऽभावोऽपि । तस्मात्तदनुसंधानत्यागेन तन्निष्ठं ज्ञानं प्रत्यावर्त्याऽऽत्मनिष्ठं कृत्वा ज्ञानाज्ञानान्यथाज्ञाननिरासेन निर्विकल्पत्वेन तन्मयत्वेन स्वसंवेद्यत्वेन स्वप्रकाशत्वेनावस्थानं सैव सच्चिदानन्दमयी तयैव परब्रह्मानुभवोऽपरोक्षत्वेन तत्र भवति । एव
तस्मै नचिकेतस उवाच यमः । तस्यैवैतस्य यज्ञीयस्याग्र्या इष्टका लोष्टमय्यो भृष्टा यावतीर्वा यावत्यो वा यत्संख्याका यथा वा याश्यो वा इत्येतत्सर्वं तस्मा उवाच । स चापि नचिकेतास्तदुपदिष्टम रूपं परोक्षत्वेन विज्ञाय यथाविदितं प्रत्यवदत्प्रत्युदितवान् ॥ १५ ॥ अथानन्तरं मृत्युस्तस्मिन्नचिकेतसि तुष्टः सन्पुनराह - aaaaaaaमाणो महात्मा वरं तवेहाय ददामि भूयः । तथैव नाम्ना भविताऽयमग्निः सृकां चेमामनेकरूपां गृहाण ॥ १६ ॥
प्रीयमाणः प्रीयते ततेऽसौ प्रीयमाणः स महात्मा मृत्युस्तं नचिके - तमब्रवीत् । किं वरं तव तुभ्यमिहाद्यास्मिन्काले भूयः पुनर्ददामि । क स्तवैव नाम्ना नचिकेतसा विदितोऽतो नचिकेतसोऽयं नाचिकेत इत्ययमग्निविता मविष्यति सृङ्का च सृजति सृङ्का तां नानासिद्धिप्रदां मन्त्रमयीमिमां मया प्रत्तामनेकरूपामनेकानि रूपाण्यनेकवित्तनिर्माणेन यस्यास्तां गृहाण ॥ १६ ॥
तं नाचिकेतमग्निं स्तौति स्म --
त्रिणाचिकेत स्त्रिभिरेत्य संधि त्रिकर्मकृत्त

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102