Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay
View full book text
________________
अर्थप्रकाशसमेतामनो यस्य स तथा माऽभि मां प्रति वीतमन्युर्विगतकोधः स्याद्यस्मिन्य. स्मिन्काले जिज्ञासया यं यं प्रश्नं करिष्ये तदा तदा प्रसन्नत्वेन तस्य तस्य प्रतिवचनं दद्यात् । त्वत्प्रसृष्टं त्वया प्रसृष्टं विसृष्टं मा मां विद्याजातमभिवदेप्रतीतः प्रहृष्टः सन् । तथा भवत्वित्येतदेतं त्रयाणां वराणां मध्ये प्रथमं वरं वृणे ॥१०॥ इति नचिकेतसा कृतं वरवरणं श्रुत्वा मृत्युरुवाच
यथा पुरस्ताद्भविता प्रतीत औदालकिरारुणिर्मत्प्रसृष्टः । सुख रात्रि शयीत वीत
मन्युस्त्वां ददृशिवान्मृत्युमुखात्पमुक्तम्॥११॥ यथा पुरस्तात्पूर्वस्मिन्काले बालत्वावस्थायां प्रतीतः प्रहृष्ट आसीतथा मत्प्रसृष्टो मया प्रसृष्टः कृतः सन्नौद्दालकिरुद्दालकस्यापत्यमोद्दालकिररुणस्य गोत्रापत्यमारुणिर्भविता भविष्यति । तथा च सुखं यथा स्यात्तथा रात्रि शयीत सर्वचिन्तामयसंकल्पशून्यत्वेन शेताम् । तथा वीतमन्युश्च नित्यं सत्त्वसमाविष्टश्चास्तु । त्वां मृत्युमुखान्मृत्युरिकः पीडकत्वेन संसारस्तन्मुखात्ममुक्तं परविद्यासंप्राप्त्या ददृशिवान्दृष्टवा. न्भवतु ॥ ११ ॥
इति प्रश्नामिप्रायेण वरमुक्त्वा तस्य शान्ति सुशीलत्वं च विज्ञाय प्रतीतः सन्पुनर्मृत्युरुवाच
स्वर्गे लोके न भयं किंचनास्ति न तत्र त्वं जरया विशेषि । उसे तीवोऽशनायापि
पासे शोकातिगो मोदसे स्वर्गलोके ॥ १२ ॥ अस्मिन्नेव लोके त्वं संप्राप्तमहत्त्व इत्येव न किंचित्त्वितो गतस्य ते स्वर्लोके न भयं किंचन किंचिदप्यस्ति । तत्राप्यपरवशः सर्वैर्मान्यो भवि. ध्यसि न तत्र त्वं जरया वार्धकेन बिभेपि भेष्यसि उभे अशनायापिपासे अशनस्यान्नस्येच्छां पिपासां च जलं पातुमिच्छां ती शोका. तिगः स्त्रीपुत्रवित्तविनाशरूपं शोकमतीत्य गत एवं सन्स्वर्गे लोके मोदसे मोदिष्यसे ॥१२॥

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102