Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay
View full book text
________________
कठोपनिषत् । मिति प्रत्युवाच पुनर्मुत्युः पप्रच्छ किं तृतीयां रात्रिमाश्ना इति, कुमार साधुकृत्यां त आश्नामिति प्रत्युवाच ॥ ७ ॥ इत्येतद्याख्याय पुनर्वल्यनुम्रियते
आशां प्रतीक्षे संगत५ सूनृतां चेष्टापूर्ते पुत्रपशूश्च सर्वान् । एतद्रूक्ते पुरुषस्याल्पमेधसो यस्यानश्नन्वसति ब्राह्मणो गृहे ॥ ८ ॥ तिस्रो रात्रीर्यदवासीद्गृहे मे अनश्नन्ब्रह्मनतिथिर्नमस्यः । नमस्ते अस्तु ब्रह्मन्स्वस्ति
मे अस्तु तस्मात्पति त्रीन्वरान्वृणीष्व ॥९॥ हे कुमाराहं प्रत्यहमाशां दिशामतिथिरागच्छति वा न वेति प्रतीक्षे तत्प्रतीक्षां करोमि तथाऽतिथिमागत्य संगतं सम्यकप्रकारेण गतं प्राप्त प्रतीक्षे । तर्हि त्वं दैवादतिथिलब्धोऽसि तत्साध्वेव जातं तस्य पुरुषस्याल्पमेधसोऽल्पज्ञानस्य सूनृतां च सत्यां सुललितां वाचं तपोरूपामिष्टापूर्ते इष्टं यजनं श्रौतं कर्म पूर्त स्मातं पुत्रपशृंश्च पुत्रान्पशृंश्च सर्वानित्येतत् सोऽतिथिय॒के स्वी कुरुते, कस्य, यस्याल्पमेधसः पुरुषस्य बाह्मणोड तिथिरनश्नन्वसति । न सदाचारशीलस्य ज्ञान विज्ञानसंपन्नस्य हे ब्रह्मनचिकेतो यत्तिस्रो रात्री मम गृहेष्वनश्नन्नवासीरुषितवान् । तेन न मम प्रत्यवाय इति भावः । तथाऽपि गृहस्थधर्मपालनार्थ किंचिच्छृणु। त्वमतिथिरतो नमस्यो नमस्कारार्हः । तस्मान्नमस्ते तुभ्यमस्तु मदीय तेन स्वस्ति मेऽस्तु तस्मात्कारणात्तिस्रो रात्रीरनशनानि प्रति त्रीन्वरान्वृणीष्व तेन मे प्रत्यवायः परिहृतः स्यादित्युवाचेति समन्वयः ॥८॥९॥ वरान्वृणीष्वेति च्छन्दितो नचिकेता उवाच
शान्तसंकल्पः सुमना यथा स्याहीतमन्युर्णीतमो माऽभि मृत्यो । त्वत्प्रसृष्टं माऽभिवदे
त्यतीत एतत्रयाणां प्रथमं वरं वृणे ॥१०॥ हे मृत्यो गौतमो मे पिता यथा शान्तसंकल्पः श्रेयःसाधने विषये शान्ताः संकल्पा मानसा यस्य स शान्तसंकल्पः स्याद्भवेत् । यत्सर्वश्रेयोऽस्ति तत्तेन प्राप्तं भवेत् । तेन सुमना नित्यं तदनुसंधानेन शोमनं

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102