Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay
View full book text
________________
केनोपनिषत् । तपोऽन्तरिन्द्रियनिग्रहरूपं दमो बाह्येन्द्रियनिग्रहः कर्म परमेश्वराराधनरूपमिति प्रतिष्ठां सर्वप्रतिष्ठाभूतामुपनिषदं वेद यदाज्ञापितवानुक्तवानित्यर्थः । तद्रुह्यविज्ञानं न तपआद्याचरणाहतेऽस्ति तदर्थमु. क्तमाचरणीयमिति भावः। अथ स प्रजापतिस्तदाचरणान्ते पुनरागताय देवतासमूहाय सत्यमविनाश्यायतनं सर्वाधिष्ठानभूतं परं ब्रह्म सर्वा. गानि तत्साधनभूतानि सर्वाण्यप्यङ्गानि वेद । एतद्विज्ञानफलमाह-यो वा कश्चिदधिकार्याचार्यप्रसादादेतामुक्तविधामभिहतपाप्मानमभिहतः प्रनष्टः पाप्मा यया तामुपनिषदमेवं देवैर्विज्ञातवद्वेद सोऽनन्ते न विद्यमानोऽन्तोऽवसानं यस्य तस्मिन्स्वर्गे सर्वोच्छ्रिते लोक आत्मरूपे जये सर्वदा जयशीले सर्वत्र सत्तारूपे प्रतितिष्ठति तदेकरूपत्वेन तिष्ठति प्रतितिष्ठतीति द्विरुक्तिरुपनिषत्समाप्त्यर्था ॥ १३ ॥ इति श्रीमदादिगुरुदत्तात्रेयदिगम्बरानुचरविरचितः केनोप
निषदर्थप्रकाशः समाप्तः।

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102