Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay

View full book text
Previous | Next

Page 30
________________ अर्थप्रकाशसमेतातद्गच्छति वाचं मनो नैव चैतदुपस्मरत्र भीरुसंकल्प-. .. स्तद्धि तद्धनं नाम तद्धनमित्युपासितव्यम् ॥ १२॥ तस्योक्तविधस्य यक्षस्यैष वक्ष्यमाण आदेशः संज्ञा यद्यस्मादेतद्यक्ष विद्युतो३ विद्युतो३ इति विद्युता ऊ, विद्युता ऊ। विद्योतते विद्युता ऊ इव विद्युदिवेत्यर्थः। तेन विद्युतेत्यस्याऽऽदेशः । कस्मादिति चेत् । न्यमीमिषदो न्यमीमिषत्। आ जाऊ इव । विद्युदिवाऽऽत्मानम्, आ ईषत् । दर्शयित्वा न्यमीमिषन्यमजयदाच्छादितवानित्यर्थः । तस्माद्विद्युदित्यस्याऽऽदेशः । इत्यधिदैवतम् । अथाध्यात्म कथ्यते । यदेतदात्मनि वर्तमानं शुद्धं रूपं तद्वाचं चतुर्विधां मनश्च गच्छति सत्तारूपत्वेनान्तर्गतं नैवोपस्मरति तथात्वेन विजानात्यधिदैवताग्न्यादीनामिव । तद्धि सोऽभीरुसंकल्पो बिभेति भीरुन भीरुरभीरुः संकल्पो यस्य स सत्संकल्पवान् । तद्यक्ष नाम धनं दधति गूढत्वेन धनं गुह्याद्गृह्यतमत्वेनान्तरतरत्वेन च धनं नाम । अतस्तद्धनमित्युपासितव्यम् । यथा धनमतिप्रियत्वेन जनैरुपास्यते तथोपासनीयम् ॥ १२॥ किं फलं तदाह स य एवं वेद । अभि हैनं सर्वाणि भूतानि । स गच्छत्युपरि दं भो बृहीत्युक्त्वा त उपनिषत् ।ब्रह्मोवाच । त उपनिषदमबूमेति तस्मै तपो दमः कर्मेति प्रतिष्ठां वेद सर्वाङ्गानि सत्यमायतनम् ।यो वा एतामेवं वेद । अभिहतपाप्मानम् । अनन्ते स्वर्गे लोके जये प्रतितिष्ठति प्रतितिष्ठति ॥१३ ॥ स यः कश्चिदधिकार्येतदुक्तमात्मरूपमेवं वेदैनं ज्ञानिनं सर्वाणि भूतान्यभिगच्छन्त्यभिजनवान्भवति यत्र वचन गच्छति । तत्र तैः सह प्रति- . तिष्ठति । तेऽग्न्यादयस्तद्यक्षं ब्रह्मापरोक्षत्वेन विद्युदिव विदित्वा तस्मिन्विज्ञातेऽपि नित्यनिष्ठासिद्धय उपरि ब्रह्मभुवनं गत्वा ब्रह्माणमूचुः। भो ब्रह्मन्दन्दमं ब्रूहीत्युक्त्वा तमुपनिषेदुः । तच्छ्रत्वा स ब्रह्मा मवद्भिर्यत्पृष्टं तदुपनिषदूपं गुह्यमस्तीत्यूचे । ततस्ते देवा उपनिषदमबूम तदेव गुह्यं पृच्छामो वयमित्यूचुः । ततो ब्रह्मा तस्मा. अग्न्यादिदेवतासमूहाय

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102