Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay
View full book text
________________
केनोपनिषत् । तदुपप्रेयाय सर्वजवेन तन शशाकाऽऽदातुम् । स तत
एव निववृते नैतदशकं विज्ञातुं यदेतद्यक्षमिति ॥९॥ अथाग्न्युपरमानन्तरं ते देवा वायुमब्रुवन् हे वायो त्वमेतद्यक्षं विजा. नीहि यतस्त्वं सर्वान्तर्यामित्वेन सर्वावधारकोऽसि किं किंरूपं तद्य. क्षमिति । ततो वायुस्तथेत्युक्त्वा तदभ्यद्रवत् । तमभ्यवदत्कोऽसीति । वायुर्वा अहमस्मीत्यब्रवीन्मातरिश्वा मातर्यन्तरिक्षे श्वयति गच्छति मातरिश्वा मेघगतिकारणो ब्रह्माण्डाश्रयभूतोऽहमस्मीति तस्मिंस्तथाविधे त्वयि किं वीर्यमिति। यदिदं पृथिव्यां मूर्तभूतत्रयकार्य तत्सर्वमप्याददीयाऽऽदातुं शक्नुयामिति। ततस्तद्यक्षं तस्मै तृणं निदधावेतदादत्स्वेति । स वायुः सर्वजवेन तदुपप्रेयाय तन्न शशाकाऽऽदातुं सोऽप्यगिरिव तत एव निववृते । देवान्प्रत्यागत्योवाच नैतदशकं विज्ञातुं यदेतद्यक्षमिति ॥९॥ ततः किं वृत्तम्
अथेन्द्रमब्रुवन्मघवन्नेतद्विजानीहि किमेतद्यक्षमिति तथेति तदायद्वत्तस्मात्तिरोदधे स तस्मिन्नाकाशे स्त्रियमाजगाम बहुशोभमानामुमां हैमवती ता५
होवाच किमेतद्यक्षमिति ॥ १० ॥ अथ ते देवा इन्द्रमब्रुवन् मघवन्नेतद्विजानीहि किमेतद्यक्षमिति तथेति तदभ्यद्रवत्तमागतं वीक्ष्य तद्यक्षं तस्मात्स्थानात्तिरोदधेऽन्तर्हितम् । तदा तस्मिन्नाकाशे सहसाऽभिव्यक्तां स्त्रियं दृष्ट्वा स मघवाऽऽजगामाssगतः। किं तत्स्त्रीरूपमिति चेत् । यत्सच्चिदानन्दरूपं ब्रह्म तदेव सर्वगतत्वेन सर्वाधिष्ठानं सत्तारूपं सर्वावमासकं चिन्मयत्वेन प्रकाशकं स्वगतचि. प्रकृतियोगेनेश्वररूपं सर्वकर्त सर्वज्ञं तहत्तमेव सर्वत्र सामर्थ्य स्वधर्मकर्मप्रकाशनं चेत्यविज्ञाय तदात्मन एवेति बुद्धया मोहितानां तद्भावनिरासेन यथार्थमावप्रकाशनेनैव यथार्थतत्त्वसंप्राप्तिस्तया मोक्ष इति भावेन स परमात्मा सर्वैर्यक्ष श्रीमद्देवदेवरूपं धृत्वाऽऽत्मनः सर्वश्रेयस्त्वं प्रदर्शयित्वा तन्निजशक्तिमुपसंहृत्याऽऽत्मरूपज्ञानमपि तेषां निजेन ज्ञानेन नास्तीति प्रकाश्य स्वयमन्तहितोऽभूत् । ततः स्वीयां योगमायां स्त्रीरूपेण पृथकृत्वा तया स्वरूपं बोधयामास न स्वयम् । किंविधा .

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102