Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay

View full book text
Previous | Next

Page 25
________________ २५ केनोपनिषत् । 'ब्रह्मविद्ब्रह्मैव भवति' इति। योऽनधिकारित्वान्न चेदिहाबेदीत्तदा महत्या विच्छिन्नजन्ममृत्युयोगेन विनष्टिविनाशो दुःखसागरेऽस्मिन्संसारे निम. मत्वात् । अतो धीरा उक्तविवेकेनाऽऽत्मानं विदित्वा लयविक्षेपनिरासेन तत्रैव चित्तं दधाना भूतेषु भूतेषु नानाविधत्वेनाऽऽमासमानेषु विचिन्त्य सर्वत्र सत्तारूपत्वेनैकमेवाऽऽत्मतत्त्वमस्तीति विज्ञायास्मान्मृत्युलोकात्मेत्य प्रारब्धक्षयेण गत्वाऽमृता अमरणधर्माणः सत्स्वरूपा मवन्ति ॥ ६ ॥ एवं सत्तारूपस्याविज्ञेयस्य परब्रह्मणो महत्त्वदर्शनायेदमभिधीयते ब्रह्म ह देवेश्यो विजिग्ये तस्य हि ब्रह्मणो विजये देवा अमहीयन्त । त ईक्षन्तास्माकमेवायं विज योऽस्माकमेवायं महिमेति तद्वैषां विजिग्ये ॥ ७ ॥ ब्रह्मोक्तविधं ह किल सर्गादौ मायायोगेनेश्वररूपं सद्देवेषु सत्तैश्वर्यप्रदत्वेन देवेभ्य इन्द्रादिभ्यो विजिग्ये सर्वोत्कर्षेण धवृते । तस्य हि बह्मणो विजये ते देवा अमहीयन्त । तत्सत्तासंमवमहत्त्वयोगेन पूज्या अभूवनसर्वलोकवरिष्ठत्वात् । ततस्ते देवास्तमन्तर्यामिणमात्मकारणं सत्ताप्रदमविज्ञायेक्षन्तैक्षन्ताऽऽत्मनीक्षां विचारं चक्रुः। कथम्, अस्माकमेवायं सर्वैरनुभूयमानः सर्वश्रेयान्विजयोऽस्माकमेवायं महिमा महत्त्वमिति सर्वमस्मत्कृत्यं वयमेव सर्वश्रेष्ठाः सर्वज्ञा इति भावेन तदा तद्विज्ञाय तद्ब्रह्म ह किलैषां देवानां मध्ये विजिग्ये सर्वोत्कृष्टत्वप्रदर्शनेनावर्तत ॥ ७॥ कथं तदाह तेश्यो ह प्रादुर्बभूव तं न व्यजानत । किमेत यक्ष- ..... मिति । तेऽनिमब्रुवन् । जातवेद एतद्विजानीहि किमे- .. तद्यक्षमिति । तथेति तदायदवत् । तमवदत्कोऽसीति । अनि, अहमस्मीत्यब्रवीत् । जातवेदा वा अहमस्मीति तस्मिंस्त्वयि किं वीर्यमित्यपीद५ सर्वभादहेयं यदिदं पृथिव्यामिति । तस्मै तृणं निदधावेतहहेति । तदुपत्रेयाय सर्वजवेन तन्न.शशाक

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102