Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay
View full book text
________________
केनोपनिषत् । . यदि मन्यसे सुवेदेति दह्रमेवापि नूनम् ।
त्वं वेत्थ ब्रह्मणो रूपं यदस्य त्वं यदस्य ॥ ४ ॥ यदि तत्परं ब्रह्म करणानां प्रवर्तकत्वेनाऽऽत्मरूपत्वात्सुवेद सुखेनैव विजानामीति मन्यसे जानीषे तथाऽपि नूनं निश्चयेन दह्रमेव तज्ज्ञानं स्वल्पमेव । ज्ञानज्ञातृत्वयोगेन ज्ञातं तज्ज्ञेयत्वेन परिच्छिन्नं तथा तज्ज्ञानमपि तेनानन्तोऽनन्तरः पूर्ण आत्मा कथं ज्ञातो मवेत्तस्मान सुवेदनं तस्य। किंच, यद्यदि यस्यान्तर्यामिणः सत्तारूपत्वेन मनआदीनां प्रकाशकस्य परस्य ब्रह्मणो रूपमुक्तविधं वेत्थ विजानासि साक्षित्वयोगात्तदा यद्यदूपस्त्वमसि तदतत्त्वमस्यनवस्थाप्रसङ्गात् । कथम्, आत्माविज्ञाने चेज्ज्ञानज्ञातृत्वालम्बस्तेन ज्ञातः स आत्मा स्विज्ज्ञाता न ज्ञातो ज्ञेयत्वात्तज्ज्ञानाश्रयभूत एव ज्ञेयानुभवयोगात्पुनस्तथा तज्ज्ञाने प्रव. त्तस्य कथं नानवस्थाप्रसङ्गः । अतो न तथा तद्विज्ञानम् ॥४॥ अथ विकल्पयते तज्ज्ञानस्यास्तित्वनिश्चयाय
वेदेष्वनुमीमांस्यमेव ते मन्ये विदितम् । नाहं मन्ये सुवेदेति नो न वेदोत वेद च । यस्यामतं तस्य मतं मतं यस्य न वेद सः। अविज्ञातं विजानतां विज्ञातमविजानताम् ।
प्रतिबोधविदितममृत हि विन्दते ॥ ५॥ अथ प्रकारान्तरेण वदति वेदेषु तन्मीमांस्यमेव नु विचार्यमेव नत्वपरोक्षत्वेन तद्विज्ञानमस्त्यतस्तैदैविदितं न विदितमिति मन्ये तेषां शब्दरूपत्वात् । अतस्तत्रैवोच्यते 'यतो वाचो निवर्तन्ते अप्राप्य मनसा सह' इति । तत्कारणभूता वाक्प्रज्ञानमपि यन्न वेदेति श्रूयते 'यो वाचि तिष्ठन्वाचोऽन्तरो यं वाङ् न वेद यस्य वाक् शरीरं यो वाचमन्तरो यमयति स त आत्माऽन्तर्याम्यमृतः। यः प्रज्ञाने तिष्ठन्प्रज्ञानादन्तरो यं प्रज्ञानं न वेद यस्य प्रज्ञान शरीरं यः प्रज्ञानमन्तरो यमयति स त आत्माऽन्तर्याम्यमृतः। य आत्मनि तिष्ठन्नात्मानमन्तरो यमात्मा न वेद यस्याऽऽत्मा शरीरमात्मानमन्तरो यमयति स त आत्माऽन्तर्याम्यमृतः' इति। तस्मान्नाहं मन्ये सुवेदेति । तदा तज्ज्ञानाभाव एव नु । न वेद न विजा. नामीति नो न न तदविज्ञातमपि। तथा वेद च विजानाति न विज्ञातमपि

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102