Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay
View full book text
________________
केनोपनिषत् । मिन्नमेव न तथा प्रज्ञानादिभिर्ज्ञातुमहं सत्तारूपत्वे तदविषयभूत. त्वात् । तदा तदविदितमेव स्यादथो अविदितादप्यन्यदेव सदाचार्यप्रसादादात्मन्यात्मत्वेनापरोक्षतयाऽनुभूयते चातो न केवलावेदनमपि तस्य । ननु विदितादन्यदविदितं तस्मादन्यद्विदितं किं तयोरन्यत्तत् । अधि विदिताविदितयोरधिकृत्य वर्तमानं तवयं यस्मिन्नधि यत्सत्तयाऽस्ति 'तस्य भासा सर्वमिदं विभाति' ॥२॥ एवंविधस्य तस्य कथमुपदेशस्तत्राऽऽह
यद्वाचाऽनायुदितं येन वागायुद्यते । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते॥ यत्प्राणेन न प्राणिति येन प्राणः प्रणीयते। तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते॥ यच्चक्षुषा न पश्यति येन चशूषि पश्यति । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते । यच्छ्रोत्रेण शृणोति येन श्रोत्रमिदः श्रुतम् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते । यन्मनसा न मनुते येनाऽऽहुर्मनो मतम् ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥३॥ । यद्वाचाऽनभ्युदितमनभ्युक्तं येनान्तर्गतेन वाक्परादिरूपाऽभ्युद्यतेऽभ्यु च्यते तत्कारणप्रज्ञानाधिष्ठानत्वात् । तदेव ब्रह्म घ्यापकं पूर्ण च त्वं विद्धि विजानीहि नान्यद्वाचाऽभ्युक्तं तद्भवति यद्वाऽऽशु सर्वोपाधिनिरासेन शुद्धेनाऽऽत्मरूपेण तत्त्वमेवासीति विद्धि नेदं किं यदिदमुपासका जना आत्मेतरदेवतारूपं ब्रह्मेति मत्वा तात्त्विकभेदधियोपासत उपासनां कुर्वन्ति तन्न दृश्यत्वेनानात्मभूतत्वात् । उच्यते च 'अदृष्टो द्रष्टाsश्रुतः श्रोताऽमतो मन्ता' इति । एवं सति योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीतिन स वेद यथा पशुस्तस्माद्ब्रह्म तं परादाद्योऽन्यत्राऽsत्मनो ब्रह्म वेद । नन्वस्थूलादिविशेषणैर्वेदादिवाक्यैरभ्युदितं श्रूयते तथा गुरुशिष्यवाग्भिरप्यभ्युद्यते ततस्तवबोधोऽपि भवत्येवं सति किमेवमुक्तं यद्वाचाऽनभ्युदितमिति । सत्यं, वेदादिवाक्परोक्षज्ञानरयव

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102