Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay

View full book text
Previous | Next

Page 19
________________ ॐ तत्सद्ब्रह्मणे नमः । अर्थप्रकाशसमेता केनोपनिषत् | | शिष्याचार्यसंवादेन सम्यग्ब्रह्मविद्या प्रकाशिकेयं केनोपनिषदंतस्तदर्थः प्रकाश्यते केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रैति युक्तः । केनेषितां वाचमिमां वदन्ति चक्षुः श्रोत्रं क उ देवो युनक्ति । श्रोत्रस्य श्रोत्रं मनसो मनो यद्वाचो ह वाक्स उ प्राणस्य प्राणः । चक्षुषश्चक्षुरतिमुञ्च धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥ १ ॥ प्रेषितं प्रकर्षेणेषितं कार्याकार्ययोः प्रेरितं मनः संकल्परूपं केनान्तर्ग तेन सत्तारूपेणेषितं सत्पतति गच्छति कार्य संपादयितुम् । तथा प्रथमो मुख्य आसन्यो देहावष्टम्भभूतः प्राणः केन सत्तारूपेण युक्तः सन्प्रैति प्रगच्छति स्वधर्मयोगेण । जनाः केनान्तर्गतेनेषितां प्रेरितामिमां वाचं वदन्ति । एवं चक्षू रूपस्य ज्ञानकरणं भोत्रं शब्दस्थ क उ को नु देवः स्वप्रकाशरूपो युनक्ति द्रष्टव्यादौ प्रेरयति यत्सत्तया श्रोत्रादीनि स्वस्व - विषये प्रवर्तन्ते । एवं मनआदीनां यत्सत्तया स्त्रे धर्मे प्रवृत्तिस्तमन्तर्यामिणं सर्वात्मभूतं ज्ञातुकामैः शिष्यैः पृष्ट आचार्योऽभिवदति । श्रोत्रस्य स्थूलान्तर्गतस्य सूक्ष्मस्यापि श्रोत्रं श्रोत्रभूतं यथा स्थूलमिदं श्रोत्रं सूक्ष्मेणान्तर्गतेन शब्दं शृणोति तथा प्रज्ञानरूपस्यापि तस्य येनान्तर्गतेन सत्तारूपेण श्रोत्रत्वम् । कथम् एकमेव प्रज्ञानं गुणत्रययोगेण पञ्चविंशतितत्त्वाकारमत एवोच्यते - ' येन ? वा पश्यतीत्यारभ्य प्रज्ञानस्यैवैतानि नामधेयानि भवन्ति ' इति । एवंविधे प्रज्ञाने यस्तिष्ठन् प्रज्ञानादन्तरो यं प्रज्ञानं न वेद यस्य प्रज्ञानं शरीरं यः प्रज्ञानमन्तरो यमयति येनैव प्रज्ञाने प्रज्ञानत्वम् । तस्मिन्गुणयोगाच्छ्रोत्ररूपेण संभूतेऽपि श्रोत्रभूतं यतस्तत्सत्तारूपादपृथक् सिद्धम् । तथा मनसो मनो येनान्तर्गतेन मनसो मनस्त्वं यद्वाचो ह वाग्येनान्तर्गतेन वाक् 'प्रवर्तते । स उ स एव प्राणस्य चेष्टाकरणरूपस्य प्राणस्तदाश्रयभूतस्य 9 7

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102