Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay
View full book text
________________
अर्थप्रकाशसमेतानाऽन्तकाले तच्छक्तिशून्यं मां स्मर। हे क्लिवेऽने त्वमेतावन्तं कालं महतो मां स्मर तथाऽन्यत्किंच मयाऽऽराधनं कृतं तत्स्मर । किं तदनुस्मरणस्य कार्य तदाचरणशक्तिशून्येन तत्स्मरणमपि कार्य तेन यावच्छरीरे प्राणस्तावत्तत्कर्म कृतमेव भवेदतस्तदनुस्मरणम् । ततो देहत्यागादूर्व वायुर्देहविधारकः प्राणरूपोऽमृतमविनाशमनिलं वायुमधिदेवतारूपमेतु । अथ तदनन्तरमिदं शरीरं भस्मान्तं भस्मावस्थमुपास्यानियोगेन भस्मरूपं भूत्वा पृथ्वीमप्येतु यदन्त्येटिरूपं कर्म तदपि साङ्गं भवत्वित्यभिप्रायः ॥ १५॥
अने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान् । युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमउक्ति विधेम ॥ १६ ॥
हे अग्ने अग्रणीः परमेश्वररूप सुपथा शोमनः पन्थाः सुपन्थास्तेन सुपथाऽचिर्मार्गणास्मान्मोक्षार्थं निष्कामत्वेन त्वदाराधनशीलात्राये रायं धनं प्राप्तव्यभोगरूपं प्राप्तुं नय । अचिर्मार्गेण गतानां शीघ्रमेव मोक्षप्राप्तिरस्त्यतस्तथा प्रार्थनम् । यतो हे देव द्योतमानस्वप्रकाश विश्वानि समग्राणि वयुनानि प्रशस्यानि कर्माणि विद्वान्वेसि । तस्मादस्मान्सुपथा राये नय । किंच तत्र यत्किंचिदस्माकं जुहुराणं हुछितुं कौटिल्यं विधातुं कौटिल्यं कृत्वाऽन्यमार्गेण नेतुमिच्छज्जुहुराणमेनः पापमज्ञानतः संभूतकर्मविकर्मरूपं तद्युयोधि बनीहि विनाशयेत्यर्थः । अतः प्रार्थनमधुना क्रियते । अथान्यप्रयत्नशून्यत्वात्ते भूयिष्ठां बहुतरां नमउक्तिं नमस्कारोक्तिं विधेम कुर्याम वयं सर्वापराधक्षमाकरणेन मां त्रायस्वेति संप्रार्थनम् ॥ १६॥ यथाऽग्निः परमात्मा मनोरूपं तथाऽऽदित्योऽप्यतस्तत्स्तवमाह
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।
योऽसावादित्ये पुरुषः सोऽसावहम् ॥ १७ ॥ हिरण्मयेन हर्यते काम्यते भोगमोक्षकाटिभिहिरण्यं वेदत्रयरूपं तन्मयं तत्प्रचुरं हिरण्मयं तेन । तथा चोक्तम् , ' आदित्यो वा एप एतन्मण्डलं तपति तत्र ता ऋचस्तदृचा मण्डलम् ' इत्यादिना । यद्वा हिरण्मयमिव हिरण्मयं ज्योतीरूपं तेन पात्रेण पात्रमिव पानं

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102