Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay
View full book text
________________
ईशावास्योपनिषत् । अन्धं तमः प्रविशन्ति येऽविद्यामुपासते ॥
ततो भूय इव ते तमो य उ विद्याया रताः ॥ १२ ॥ ते जना अन्धं तमः प्रविशन्ति । के ये प्राकृता अविद्यामीशाराधनरूपा सा विद्या तदन्याऽविद्या कर्ममीमांसारूपा तामुपासते सैव श्रेष्ठेतिबुद्धया तस्यामेव निरताः । 'कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः । अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥ कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः' । इत्यादिनोक्तविवेकहीनास्ते ततस्तस्मादपि भूय इव तमस्ते प्रविशन्ति । के य उ विद्यायामीशाराधनसाधनभूतायां रताः । यावन्न कर्माकर्मविषयं ज्ञानं तावत्कुतस्तेषां तस्य साङ्गमाचरणं विना तेन किं देवतोपासनरूपया विद्यया सिद्धिस्तदाचरणेनापि । अतो भूय इव तमःप्राप्तिरेव तेषाम् ॥ १२ ॥ यस्मादेवं तस्मात्
अन्यदेवाऽऽहुर्विद्याया अन्यदाहुरविद्यायाः ॥
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १३॥ इत्युक्तार्थम् ॥ १३॥ तस्मान्मोक्षसाधनस्य परस्परापेक्षकत्वं दर्शयतिविद्यां चाविद्यां च यस्तद्वेदोभय सह ॥
अविद्यया मृत्यु तीा विद्ययाऽमृतमश्नुते ॥ १४ ॥ विद्यां देवताराधनरूपामविद्या कर्माचरणज्ञानरूपां तदेतदुमयं सहैकेन पुरुषेणानुष्ठेयत्वेन वेदोक्तविवेकेन जानाति स पुमानविद्यया यथा तन्मोक्षसाधनं भवेत्तथाविधकर्माचरणज्ञानयोगेन मृत्यु संसारं तीवो विद्ययोक्तविधया देवताराधनज्ञानयोगेनामृतं मोक्षमश्नुते । अन्यथा कर्मोपासनाचरणज्ञानहीनस्य कुतस्तदाचरणं साङ्गं विना तत्कुतो मोक्षस्तस्मात्परस्परापेक्षक एव स एवंविधमन्धतमसप्राप्तिसाधनं कर्म हित्वा यन्मोक्षसाधनं तद्यावज्जीवं कर्तुमिच्छेदित्युक्तम् ॥ १४ ॥
तत्र तथाविधकर्माचरणशीलैरन्तकाले कथं देहस्त्यक्तव्यस्तद्विषय आह । तत्राऽऽदावनिप्रार्थनम्
वायुरनिलममृतमथेदं भस्मान्त५ शरीरम् ॥
ॐ क्रतो स्मर, क्लिबे स्मर कृत स्मर ॥ १५॥ ॐ क्रतो मयैतावन्तं कालं निर्वतितामिपुरुषपरमेश्वराराधनरूपाधु

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102