Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay

View full book text
Previous | Next

Page 14
________________ ईशावास्योपनिषत् | १३ एवमन्वयव्यतिरेकज्ञानयोगेन शुद्धात्मतत्वोपासनापरस्य शोकमोहाप्रतीतत्वं फलमुक्तमधुना तन्मार्गं हित्वा केवलसंसारसाधनरतानां प्रतिमाह अन्धं तमः प्रविशन्ति येऽसंभूतिमुपासते । ततो भूय इव ते तमो य उ संभूत्या रताः ॥ ९ ॥ ये संसारिणो जना असंभूतिं संभूयतेऽमीष्टं प्राप्यतेऽनया सा संभूति. शाराधनेनाविनाशि पद्मवाप्यते ततस्तत्संभूतिः । उक्तं च.८ भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप ॥ " " भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वत:' इत्यादि ॥ तदन्याऽसंभूतिरनित्यस्वर्गप्रापककर्ममार्गेण नानादेवताराधनमसंभूतिस्तामुपासते कर्मैव सर्व श्रेय इति मत्वा केवल तदाचरणशी लास्तेऽन्धमन्धयत्यन्धं गाढं तमो न यत्राऽऽत्मानात्मकर्तव्या कर्तव्य विवेक. स्तत्प्रविशन्ति तेनाssवृताः सन्तो जन्ममरणभाजो भवन्ति । श्रूयते लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म इत्यादि । किंच य उ निश्चयेन संभृत्यामीशाराधने रतास्तदेका चरणशीलास्ते ततस्तस्मादपि भूय इव बहुतरमिव तमः प्रविशन्ति न तेषामपि परपदावाप्तिः । नन्वेतद्विरुद्धं तु, न, कथं नियते कर्मणि मतिमविधाय तत्त्यागेन कामना योगेनोपासनापराणां कुतो वर्णाश्रमधर्मपालनं तदभावे कृतोपासना कुतः स्वफलदा तदा तेन कृतं तद्विकर्मरूपमेव सर्वं भवति । तदा कुतो निःश्रेयसाधिगमस्तस्मादुमय साधनपरित्यागेन कथं न भूय इव तमःसंप्राप्तिस्तेषाम् ॥ ९ ॥ चान्यत्र - p यस्मादेवं तस्मात् - अन्यदेवाऽऽहुः संभवादन्यदाहुरसंभवात् । इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १० ॥ संभवात्संभूत्याः पूर्वोक्तायाः फलमन्यदेवाऽऽहुर्बुवन्ति प्राज्ञा असंभवादसंभूतेः फलमन्यदेवाऽऽहुरिति धीराणां ज्ञानिनां वचः शुश्रुम श्रुतवन्तो वयम् । केषां ये धीरा नोऽस्मभ्यं तत्संभूत्यसंभूतिरूपं विचचक्षिरे व्याख्यातवन्तस्तेषाम् ॥ १० ॥

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102