Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay
View full book text
________________
ईशावास्योपनिषत् । यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः ।
तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥ ७॥ यस्मिन्काले विजानत आचार्यप्रसादाच्छुद्धात्मतत्त्वमपरोक्षत्वेन विजा. नाति यस्तस्याऽऽत्मैव स शुद्धः सर्वाणि भूतान्यभूदुक्तविधान्वयज्ञानयोगेन भूतस्तत्र तस्मिन्काले को मोहः कः शोकस्तस्य शोकमोहाभाव एव । कथंभूतस्य विजानतः। एकत्वमनुपश्यतः, अत एवोक्तम् 'समलोष्टा. श्मकाञ्चनः' इति । नन्वेवं कथं स्याज्जनकयाज्ञवल्क्यादयस्तु बह्मनिष्ठा एव तेषां स्वराज्यादिव्यवहारकाले लोटाश्मकाञ्चनानि तथात्वेनैवामासन्तान्यथा तु व्यवहाराभाव एव तदा तद्योगेन कथं न शोकमोही संभवेतां नान्यथा तत्पालनमेव स्यात् । सत्यं, न तेषां काञ्चनादीनां भानमेवाऽऽसीदिति न तथात्वेन भासमानेष्वपि सत्यत्वेन ब्रह्मभावनया समबुद्धिरासीत्तेन यावत्तेषां योगस्तावत्पालनं वियोगे नेतरेषामिव शोकः। एवं स्त्रीपुत्रादिष्वपि योगवियोगसंमवसुखदुःखादिभावरहिवत्वेन वर्तमान इत्यर्थः ॥७॥ · यस्मादभिन्नं सर्व स कथं पुनः शुद्धात्मा तदुच्यतेस पर्यगाच्छुकमकायमव्रणमस्त्राविर शुद्धमपापविद्धम् । कविर्मनीषी परितः स्वयंभूर्याथातथ्यतोऽर्थान्व्यदधाच्छाश्वतीयः
समात्यः ॥८॥ स शुद्धामा पर्यगात्परितोऽगाद्तो व्योमवत्सर्वगतः । ननु सर्वगतं तव्योमैवैकं तदेव स इति किं नोच्येत । नच तच्छ्रन्यरूपमेवायं तु पूर्णत्वेन श्रूयते 'पूर्णमदः' इत्यादिना। ननु यदा तत्पूर्ण सर्वगतं तदा कथं तत्र शून्य रूपस्य व्योम्नो भानं संमवेद्विरोधात् । यत्पूर्ण तदेव गुणदृष्ट्याऽवेक्षितं शून्यवत्पतीयते यथा स्वरूपेण संपूर्णोऽपि दर्पणो बाह्यदृष्ट्या शून्यत्वेनापि तद्वत् । ननु तत्र यच्छून्यत्वं तत्कल्पितमेव यत्पूर्णत्वं तदेव सिद्धमेवं चेदत्रापि शून्यरूपं व्योम तत्कल्पनामात्ररूपं तदा न मिथ्याभूतस्य तस्यावकाशप्रदानत्वं संभवेत्कथमियं विसष्टिस्तत्र दृश्यते । सत्यं तथा दर्पणेऽपि. किं न मुखादि दृश्यते तत्तु मिथ्यैव । इदमप्यनिर्वचनीयत्वाद्विवतरूपत्वेनैवोक्तमस्ति विवर्तस्य तु पूर्ण एव स्वाधिष्ठाने भानं संभवति न केवले शून्ये तस्मान्न विरोधो व्योमवत्सर्वगतमपि पूर्ण सलिलवत्तदे.

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102