Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay
View full book text
________________
१२
अर्थप्रकाशसमेतावोक्तं 'सलिल एको टाऽद्वैतो भवति' इति । पुनः कथं शुक्र ज्योतिः शुद्धं शुक्ररूपस्वप्रकाशः । ननु यदा स्वप्रकाशः पूर्णश्च तदा किं न गोचरः । न परत्वेन गोचर आत्मन्यात्मत्वेन स्वप्रकाशत्वं पूर्णत्वं च तस्यानुभूयेते किं न परत्वेनानुभव आत्मनो यत्परत्वेन ज्ञानं तदविद्यासंवलितं तेनान्यथाज्ञानरूपं यथाऽज्ञानपूर्वकं स्वप्नज्ञानं तेन यथार्थस्यामानमसदेव सत्यत्वेन विमाति तथोपाधि. संवलितेन ज्ञानेन तद्यथार्थवस्त्वविज्ञानेनासदेवेदं सत्यत्वेनाऽऽमासतेऽत एवोक्तं 'तमेव भान्तमनुभाति सर्व तस्य भासा सर्वमिदं विभाति' इति । एवमपि कायवान्मवेदित्यत्र शुक्रविशेषणेनाऽऽहअकायं न विद्यमानः कायो देहो यस्य तदनन्तं देहाभावे तद्भावान्निराकरोति अव्रणमक्षतमस्माविरं न विद्यमानः नावाऽस्य तदपापविद्धं संसारप्रदत्वात्पुण्यापुण्ये अपि पापरूपे एव तेन पापेन न विद्धं तत्फलभोगशून्यम् । ननु तदेवोपाधिसंबन्धाद्देहचतुष्टयवद्धृत्वा तद्धर्मवशत्वेन पुण्यपापकर्माचरणयोगान्नानाविधफल मागपि भवतीति श्रूयते नु (तु) * काममयोऽयं पुरुषो यथाकामो भवति तत्क्रतुर्भवति यत्क्रतुर्भवति तत्कर्म कुरुते यत्कर्म कुरुते तदभिसंपद्यते, स वा अयमात्मा ब्रह्म, विज्ञानमयो मनोमयः स यथाकारी यथाचारी तथा भवति साधुकारी साधुर्भवति पापकारी पापो भवति पुण्यः पुण्येन कर्मणा भवति पापः पापेन' इति । तस्मात्तत्कथमकायत्वादिविशेषणेरुच्यते तद्विना कस्यान्यस्य देहो वाच्योऽन्यस्योच्यमाने कथं 'योऽहमस्मि ब्रह्माहमस्मि तत्त्वमसि' इत्यादिवाक्य निर्वाहः स्यात्सत्यं तथाऽपि सोपाधि सर्वं तात्त्विकं स्विदतात्त्विकं न तात्त्विकमिति वक्तुं शक्यमनिर्वचनीयत्वाद्विवर्तरूपमेव तदा कथं तेनाधिष्ठानस्यान्यथात्वं संमवेत्तदृष्टया विवर्तस्याभानमेवास्ति तत्तु निजाकारेण यथावदेव शुद्धबुद्धमुक्तसत्यस्वभावमतस्तत्स्वरूपेणोक्तविशेषणवदेवेति सत्यम्, एवं विशेषणविशिष्टशुक्ररूपः स कारणोपाधियोगात्कथमवगम्यते तदाह-कविः कान्तदर्शी सर्वज्ञत्वान्मनीपी मनस ईषयिता गमयिता नियन्ता नित्यमुक्तत्वात् । परिभः परितोऽस्ति परिभूर्व्यापकः स्वयंभूः स्वयमेवाऽऽत्मनवास्ति स्वयंभूः सर्वाधारभूतत्वात् । याथातथ्यतो यथातथाभावो याथातथ्यं तेन याथातथ्यतो यथार्हमर्थान्फलरूपाञ्छाश्वतीभ्यो नित्याभ्यः समाभ्यः संवत्सरेभ्यः शाश्वतीः समाः प्राप्तुं येषां शाश्वत्यः समास्तेभ्यो व्यदधाद्विहितवान् ॥ ८॥

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102