Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay

View full book text
Previous | Next

Page 24
________________ अर्थप्रकाशसमेतान भवति ज्ञानसाधनप्रज्ञानाद्यज्ञेयत्वात् । तस्मात्तज्ज्ञानं कथमिति चेत्, यस्य साधनसंपत्संपन्नस्य संप्राप्ताचार्यप्रसादस्य लब्धव्यतिरेकक्रियस्य मनोबुद्धीन्द्रियै विज्ञातुमशक्यत्वात्तत्सर्वनिरासेन विगतप्रधानधमत्वेन ज्ञातृत्वरहितत्वादमतमविज्ञातवत्तस्य मतं मतमन्तृमनननिरासेनाऽऽत्मन्यात्मत्वे बुद्धम् । यस्यापरविद्योत्पन्नपरोक्षज्ञानिनो मतं परोक्षज्ञानसच्छ्रवणमनननिदिध्यासायोगेन निष्प्रपञ्च निर्विकारं निराकारं चिदानन्दमयं सर्वगतं परं ब्रह्मैवाहमस्मीति बुद्धया निश्चितम् । संपरोक्षज्ञान्यलब्धव्यतिरेकक्रियत्वान्न वेद नापरोक्षज्ञानवान्यतः । अतो विजानतां वेदशास्त्रार्थज्ञानवतामविज्ञातं न तैर्विज्ञातं तज्ज्ञानप्रतिकूलशब्दवादनिरतत्वात् । तस्मादविजानतां सर्वशाब्दवादं विहाय मनो. बुद्ध्यादीनां ज्ञानमपि च प्रज्ञानेनाप्यजानतां तदसङ्गतया सहजात्मस्थित्याऽवस्थितानां विज्ञातमुक्तप्रकारेण तैरेव बुद्धम् । अत एवोच्यते 'तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत बाह्मणः । नानुध्यायादहून्छन्दा. न्वाचो विग्लापनं हि तत् । तमेवैकं विजानथाऽऽत्मानमन्या वाचो विमुञ्चथ' इति । एवं पुंसा प्रतिबोधविदितमुक्तविधनिर्विकल्पाकारमज्ञाने. नाऽऽत्मन्यात्मत्वेनोत्पन्नो यः प्रतिबोधस्तेन विदितमपरोक्षत्वेन विज्ञातं मतं चाऽऽत्मत्वेन सोऽमृतत्वममृतभावं तदेकरूपत्वाद्धि निश्चयेन विन्दते लमते नान्यो बहिर्मुखः शब्दवादरतो मनआदिभिश्च ज्ञातुं प्रवृत्तश्च ॥५॥ किंच आत्मना विन्दते वीर्य विद्यया विन्दतेऽमृतम् । इह चेदवेदीदथ सत्यमस्ति नो चेदिहावेदीन्महती विनष्टिः। भूतेषु भूतेषु विचिन्त्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥ ६ ॥ आत्मना कर्तृकरणसंघातरूपेण वीर्य मोक्षसाधननिर्वर्तनसामर्थ्य विन्दते लमते न साक्षादमृतत्वम् । अमृतं मोक्षस्तु विद्यया परसंज्ञिकयोतया विन्दते । तस्माज्ज्ञानादेव तु कैवल्यम् । अतो यः कश्चिदधिकारी लब्धपरविद्ययोत्पन्नास्थ इहास्मिन्नेव संसारे सदाचार्यप्रसादासादितपरविद्ययाऽऽत्मनाऽऽत्मानमवेदीद्वेत्त्यथ तर्हि सत्यमस्ति सदेव भवत्युक्तं च

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102