Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay

View full book text
Previous | Next

Page 9
________________ अर्थप्रकाशसमेतानानाथ सदसद्वरेण्यं परं विज्ञानाद्यद्वरिष्ठं प्रजानाम् । ब्रह्मविदामोति परम् ' इति । तदा येन ज्ञायते किं तच्चक्षुरादिनिराकरणं कृत्वोच्यते । 'ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः । सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम्,' इति प्रज्ञानेनैव केवलेनानुभवोऽस्ति । ननु तदपि निराकृतं श्रूयते तु ' य: प्रज्ञाने तिष्ठन्मज्ञानादन्तरो यं प्रज्ञानं न वेद ' इति । सत्यं तर्हि किं तत्मज्ञानं येनाऽऽत्माऽग्राह्यो यच्छुद्धसत्त्वगुणप्रधानं यत्र ज्ञाता ज्ञानं ज्ञेयमिति भावस्तेन प्रज्ञानेन कथमात्मा ज्ञेयः स्याद्यत्तेन ज्ञायते तज्ज्ञेयमेव कथमात्मा भवेत्पुनस्तस्य ज्ञाने ज्ञानावलम्बनेनानवस्थाप्रसङ्ग एव । अतस्तद्भावपरित्यागेन सर्वगुणसङ्गमुक्तं सत्प्रज्ञानं निर्विकारतया स्वाश्रये तदाकारत्वेन संक्रामति तदात्मन्यात्मत्वेनाऽऽत्मानुभवो भवति । ननु तदात्मनैवाऽऽत्मानुभव इत्येव किं नोच्ये(व्य )ते किं प्रज्ञानेनेति । न केवलेन तन्निरासेनातस्तथोच्यते । ननु तत्राविद्यमानैर्मनःप्रभृतिभिः कथं तदनुभवः कथ्यते । तत्प्रज्ञानान्वयने । येन सर्वगुणोपसंग्रसनान्नि. विकल्पेन स्वरूपाकारेण प्रज्ञानेन स्वसंवेद्यतया परब्रह्मानुभवस्तदेव प्रज्ञानं पुननिरस्ततत्त्वाद्याकारण संभवत्यत एवोच्यते 'सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ति' इति । एकमेव प्रज्ञानं गुणमुक्तत्वेन स्वरूपाकारं भवति गुणयोगेन तत्त्वाकारं भूत्वा प्रपञ्चं प्रकाशयति तस्मान्ननदेवा आप्नुवन्ति । तदा नैव तेषु तत्परिच्छिन्नं स्यादत उच्यते पूर्व प्रागेव तत्त्वोत्पत्तेरषद्तं तद्यापित्वेन तत्र वर्तमानम् । यथा घटादिकार्येषत्पद्यमानेषु पूर्वमेव व्योम तत्र व्यापित्वेन वर्तते तथा यद्यत्तत्त्वमुत्पद्यते तत्र तत्र सत्तारूपत्वेन यदेव वर्तमानम् । तदाऽन्तरेव स्यान्न बहिरिति चेत्तत्तत्त्वं धावतः शीघ्रं गच्छतोऽन्यानत्येत्यतीत्य गच्छति तद्ग्रेऽपि वर्तते चलनक्रियां कुर्वन्नु तिष्ठद्यथावत्स्वस्थमेव सद्गनवद्धावतोऽन्यानत्येति । पुनः कथं तत्तस्मिन्स्वरूपे मातरिश्वा मातर्यन्तरिक्षे श्वयति मातरिश्वा वायुरपो मेघरूपा दधाति । ननु किं तदाकाशमेव न तस्मिन्नेव तद्यापकत्वेन वर्तमानं तद्वकिं न दृश्यत इति चेत्तस्मादपि सूक्ष्मत्वाद्देवैर्नाऽऽप्यत इत्युक्तमेव । ननु सर्वापेक्षया गगनमेव सूक्ष्मत्वेनावगम्यते तस्मादपि सूक्ष्म तत्कथं सत्यं पञ्चसु भूतेषु गगनं सूक्ष्मं तदपि दृश्यते सूक्ष्मत्वेनासङ्गत्वेन व्यापकत्वेन च तद्गता सर्वव्योमरूपप्रकाशिनी लोकदृष्टिर्न दृश्यते कैश्चित्तेन तस्मादपि सूक्ष्म. तरा साऽपि यस्य ज्ञेया नतु योऽनया स द्रष्टाऽऽत्माऽतिसूक्ष्मस्तस्मिन्नपि

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 102