Book Title: Ishakenakathopnishad Author(s): Hari Narayan Apte Publisher: Anandashram Mudranalay View full book textPage 7
________________ अर्थप्रकाशसमेतामोक्षोपायं नाऽऽचरन्त्यतस्ते कथं नाऽऽत्महनः । तत्कथं कर्मबन्धनमिति चेत्, कर्म तदेकमेव त्रिविधं संचितप्रारब्धक्रियमाणरूपेण । तत्र यत्क्रियते शुभं वाऽशुभं तक्रियमाणं, यत्तत्संगृहीतं तत्संचितं , यत्तस्मादेहारम्भकं भोगायाऽऽरब्धं तत्मारब्धम् । यदेकांशेन भोगायाऽऽरब्धं तद्दे. हादनेकदेहारम्भकक्रियमाणोत्पत्तिस्तत्सर्वमपि संचितमेव भवति । एवमेकांशेन व्ययोऽनेकांशेन संग्रहः । एवं यावक्रियमाणं तावत्संचिताभित्रद्धिर्यावत्संचितं तावत्तस्य प्रारब्धत्वेन भोगो यावत्स तावत्पुनः क्रियमा. णप्रवाहस्तेन संचितं तस्मात्पुनः प्रारब्धमिति कर्मशृङ्खलाबन्धनं तस्माद्यदा मुक्तिस्तदेव मोक्षः । कथं तस्मान्मुक्तिरिति चेत्, आदौ क्रियमा. णान्मुक्तिस्ततः संचितात्ततः प्रारब्धात् । ननु नहि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् । कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ' ॥ इत्यादिवाक्यैः प्रत्यक्षत्वेनाप्ययं क्षणमप्यकर्तृत्वेन न तिष्ठति तदा कथं क्रियमाणकर्मविनाशो भवेत्तदविनाशेनेतरयोरुक्तप्रकारेणेति चेत् । नाकरणेन तद्विनाश उच्यते तदपि कर्माकरणदोषजनकत्वात्कर्मैव तदा संचितारम्मकत्वेन भोगारम्भकं भवति तस्मान्न स उपायः स तु भिन्न एवास्ति तेन कृतमपि समग्रं कर्माकर्म रूपमेव भवति । कथम् । 'त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः । कर्मण्यभिप्रवृत्तोऽपि नैव किंचित्करोति सः॥' इत्येतद्वाक्योक्तप्रकारेण सङ्गफलत्यागेन कृतं कर्म तदकर्मरूपमेव सर्वं तेन कृतमप्यकृतमेव तेन संचिताभिवृद्धिहेतुक्रियमाणप्रवाहविना. शस्तदा तद्विनाशोऽपि विधातुं शक्यो वृद्धयभावात् । एवं यथा क्रियमाणाद्विमुक्तिस्तथा संचितादप्यस्ति । कथम् । तथाविधक्रियमाणकर्माचरणे फलं परमेश्वरेऽपितं तेन तदाराधनेन तत्प्रसन्नत्वयोगात्तथाविधमजनसत्सङ्गश्रवणतीर्थक्षेत्रसेवनात्संचितस्य विनाशः शनैः शनैः संमवति । शेषमात्रेऽवस्थिते तस्मिन्प्रारब्धरूपेण भोगायाssगते विवेको त्कर्षाज्ज्ञान आस्था तया सद्गुरुसेवने प्रीतिस्तस्कृपया विज्ञानसंपाप्तिस्तेन सर्वबन्धनाद्विमुक्तस्य मोक्षसंपाप्तिः । एवमतिसुकरोपायं परमात्मना निर्मितं श्रुत्वाऽपि न तत्र मतिं विधत्ते मोक्षोपायवासनां बलाद्विहायोक्तप्रकारेण दुर्मोचबन्धनापादके कर्मण्येव मतिं कुरुते तेनाऽऽत्मPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 102