Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay

View full book text
Previous | Next

Page 8
________________ ईशावास्योपनिषत् । बन्धनस्याऽऽत्मैव मूलं स्विदन्यत् । केवलमोक्षवासनां हित्वा सांसारिककर्मनिरतास्ते जना आत्महनः सत्यं तेऽसुर्यान्नाम लोकानन्धेन तमसाss. वृतान्प्रेत्याभिगच्छन्तीति विज्ञेयम् ॥ ३ ॥ उक्तपूर्व सर्वस्य ब्रह्मभावमविज्ञाय तथा विहितकर्माचरणमकृत्वा संसारतोषरतान्काम्यकर्मिणो निन्दित्वा पुनस्तथाभाविनः स्तवनाय तदक्षरं ब्रह्म स्तूयते अनेजदेकं मनसो जवीयो नैनद्देवा आमुवन्पूर्वमर्षत । तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति ॥ ४॥ अनेजन्नजत्यनेजदकम्पमानं सर्वदा निश्चलं चलनं तु किंचिन्निमित्तयोगादवकाशे परिच्छिन्नस्य संभवति तत्त्वेकमद्वितीयमुच्यते च 'नेह नानाऽस्ति किंचन' इति । ननु तदा किमुपक्रमापसंहारयोः कारणं लयविक्षेपयोश्च । मायाविद्ये उच्येत । तदा कथं तदेकत्वं तेन सह विज्ञातव्यं तच्च कथं यन्मायाविद्यारूपं तदनिर्वचनीयत्वाद्विवर्तरूपं स्वाधिष्ठानसत्तयाऽन्यथा पृथक्त्वेनैवाऽऽभासते रविरश्मिसङ्गे मृगतोयाभासवदतोऽधिष्ठानदृष्टया न तस्य मानमप्येवंविधेनातात्त्विकेनान्यथाभासेन कथं ब्रह्मणोऽद्वितीयत्व हानिः स्यात्तस्मात्तेन सहापि तदेवैकं सत्यमत एवोच्यते 'एकमेवाद्वितीयं ब्रह्म' इति । ननु कथं विवर्तस्य निमित्तत्त्वं संभवेत्, नेदं निमित्तवन्निमित्तं तथोपादानमपि परं ब्रह्म नोपादानवदुपादानं कार्यस्य विवर्तरूपत्वात् । तस्याधिष्ठानसत्तयैवान्यथात्वेन मानं भाति तदपृथक् सिद्धं विचारतस्तत्र तदेवैकं सत्यं घटेषु मृदिव तस्मात्तदुपादानत्वेनोच्यते न वस्तुतो दण्डचक्रादिप्रथनिमित्तयोगान्मृद इव न कार्याकारेण संभवनमस्ति तस्मान्नोपादानवदुपादा. नमपि वक्तं शक्यम् । तेन सहापि निजाकारेण यथावदेवात एकम् । मनसो जवीयो वेगवत्तरं सर्वापेक्षया वायुजवीयांस्तस्मादपि मनस्ततोऽपि यज्जवीयश्चश्चलम् । विरुद्धं तु, न, इदमोपाधिकं विज्ञातव्यं, कथम्, मनःप्रभृतिषु यत्सत्तारूपं येन तच्चञ्चलत्वं तस्मात्तथोच्यते । यतो मनस्त्वस्य कारणं तदन्तवति तस्मादेनदेतद्देवा ज्ञानप्रकाशेन द्योतमाना मनःप्रभृतितत्त्वरूपा नाऽऽप्नुवन्नाऽऽप्नुवन्ति न तैर्गृह्यते। अत एवोच्यते, 'यो मनसि तिष्ठन्मनसोऽन्तरो यं मनो न वेद यस्य मनः शरीरम्' 'अगृह्यो न हि गृह्यते' 'न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवै. स्तपसा कर्मणा वा' इति । ननु तदनुभवस्त्वस्त्येव तथैवोच्यते, एत

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 102