Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami, 
Publisher: Bherulal Kanhiyalal Kothari Religious Trust

View full book text
Previous | Next

Page 26
________________ आवश्यकहारिभद्रीया . दासोत्ति, राया भणइ-सर्व जइ ण करावेसि तो ते णत्थि णिप्फेडओ, तेण रणो आकूयं णाऊणं घरगएणं भणियाजहा पज्जणं करेहित्ति, सा रुहा, कोलिया! अप्पयं ण याणसि?, तेण उठेऊण रज्जुएण आहया, कुवंती रन्नो मूलं गया, पायवडिया भणइ-जहा तेणाहं कोलिएण आहया, राया भणइ-तेणं चेवसि मए भणिया-सामिणी होहित्ति, तो दासी तणं मग्गसि, अहं एत्ताहे न सामि, सा भणइ-सामिणी होमि, राया भणइ-वीरओ जइ स मण्णिहिति, मोइया य पवइया। अरिहणेमिसामी समोसरिओ, राया णिग्गओ, सब साह वारसावत्तण वंदइ, रायाणो परिस्संता ठिया, वीरओ वासुदेवाणुवत्तीए बंदइ, कण्हो आबद्धसेओ जाओ, भट्टारओ पुच्छिओ-तिहिं सहेहिं सएहिं संगामाणं न एवं परिस्सतोमि भगवं1, भगवया भणियं-कण्हा ! खाइगं ते सम्मत्तमुप्पाडियं तित्थगरनामगोतं च । जया किर पाए विद्धो तदा जिंदणगरहणाए सत्तमाए पुढवीए पद्धेल्लयं आउयं उबेढंतेण तच्चपुढविमाणिय, जइ आउयं धरतो पढमपुढविमाणेतो, दास इति, राजा भणति-सर्व यदि न कारयसि तदा तव नास्ति निस्केटः, तेन राज्ञ भाकूतं ज्ञात्वा गृहगतेन भणिता-यथा पायन कुर्विति, सारुष्टा, कोलिक! आस्मानं न जानीये?, तेनोस्थाय रज्वाऽऽहता, कूजन्ती राज्ञो मूलं गता, पादपतिता भणति-यथा तेनाहं कोलिकेनाहता, राजा भणति-तेनैवासि मया भणिता-स्वामिनी भवेति, तदा त्वं दासत्वं मार्गयसि, अहमधुना न वसामि (त्वो शामि), सा भणति-स्वामिनी भवामि, राजा भणति-धीरको यदि स मंस्यति, मोचिता प्रव्रजिता च । अरिष्टनेमिस्वामी समवमृतः, राजा निर्गतः, सर्वान् साधून् द्वादशावर्तेन वन्दते, राजानः परिश्रान्ताः स्थिताः, वीरको वासुदे वानुवृत्त्या वन्दते कृष्ण आबद्धवेदो जातः, भट्ठारकः पृष्टः-त्रिभिः षत्वधिकैः शतैः संग्रामः नैवं परिश्रान्तोऽस्मि भगवन् !, भगवता भणित-कृष्ण! क्षायिक त्वया सम्यक्त्वमुत्पादित तीर्थकानामगोत्रं च । यदा किल पादे विद्धस्तदा निन्दनगटभ्यां सप्तम्यां पृथ्व्या बद्दमायुरुद्वेष्टयता तृतीयपृथ्वीमानीतं, यद्यायुरधारयिषः प्रथमपृथ्वीमानेष्यः, *सासामि अण्णे भणंति-इहेव वंदंतेणंति । भावकिइकम्मं वासुदेवस्स, दवकिइकम्मं वीरयस्स ३॥ इदानीं सेवकः, तत्र कथानकम्एगस्स रणो दो सेवया, तेसिं अल्लीणा गामा, तेसिं सीमानिमित्तेण भंडणं जायं, रायकुलं पहाविया, साहू दिठो, एगो भणइ-भावेण 'साधुं दृष्ट्वा ध्रुवा सिद्धिः' पयाहिणीका वंदित्ता गओ, वितिओ तस्स किर उग्घडयं करेइ, सोऽवि वंदइ, तहेव भणइ, ववहारो आवद्धो, जिओ, तस्स दवपूया, इयरस्स भावपूया ४ ॥ इदानीं पालकः, तत्र कथानकम्-बारवईए वासुदेवो राया, पालयसंबादओ से पुत्ता, मी समोसढो, वासुदेवो भणइ-जो कल्लं सामि पढम वंदइ तस्स अहं जं मगइ तं देमि, संवेण सयणिजाओ उहेत्ता वंदिओ, पालएण रजलोभेण सिग्घेण आसरयणेण गंतूण वेदिओ, सो किर अभवसिद्धिओ वंदइ हियएण अक्कोसइ, वासुदेवो निग्गओ पुच्छइ-केण तुज्झे अज्ज पढमं वंदिया ?, सामी भणइ-दघओ पालएणं भावओ संवेणं, संबरस तं दिण्णं ५॥एवं तावद्वन्दनं पर्यायशब्दद्वारेण निरूपितम् , अधुना यदुक्कं 'कर्तव्यं करय वेति स निरूप्यते, तत्र येषां न कर्तव्यं तानभिधित्सुराह अन्ये भणन्ति-इहैव वन्दमानेनेति । भावकृतिकर्म वासुदेवस्य, द्रव्यकृतिकर्म वीरकस्य ॥ एकस्य राज्ञो द्वौ सेवको, तयोराससौ ग्रामी, तयोः सीमानिमित्तं भण्डनं जातं, राजकुलं प्रधावितौ, साधुर्रष्टः, एको भणति-भावेन प्रदक्षिणीकृत्य वन्दित्वा गतः, द्वितीयस्तस्य किलानुवर्त्तनं करोति, सोऽपि वन्दते, तथैव भणति, व्यवहार आबद्धः, जितः, तस्य द्रव्यपूजा इतरस्य भावपूजा । द्वारिकायां वासुदेवो राजा, पालकशाम्बादयस्तस्य पुत्राः, नेमिः समवसृतः, वासुदेवो भणति-यः कल्ये स्वामिनं प्रथमं वन्दते तस्सायहं यन्मार्गयति तद्ददामि, शाम्बेन शयनीयादुत्थाय वन्दितः, पालकेन राज्यलोभेन शीघ्रणाश्वरत्नेन गत्वा वन्दितः, स किलाभव्यसिद्धिको वन्दते हृदयेनाक्रोशति, वासुदेवो निर्गतः पृच्छति-केन यूयमद्य प्रथमं वन्दिताः ?, स्वामी भणति-द्रव्यतः पालकेन भावतः शाम्बेन, शाम्बाय तद्दत्तं ।। असंजयं न वंदिजा, मायरं पियरं गुरुं । सेणावई पसत्थारं, रायाणं देवयाणि य ॥११०५॥ व्याख्या-न संयता असंयताः, अविरता इत्यर्थः, तान्न वन्देत, कं ?-'मातंरं' जननी तथा 'पितर' जनकम् , असंयतमिति वर्तते, प्राकृत्यशैल्या चाऽसंयतशब्दो लिङ्गत्रयेऽपि यथायोगमभिसंबध्यते, तथा 'गुरुं पितामहादिलक्षणम् , असंयतत्वं सर्वत्र योजनीयं, तथा हस्त्यश्वरथपदातिलक्षणा सेना तस्याः पतिः सेनापतिः-गणराजेत्यर्थः, तं सेनापति, 'प्रशस्तार' प्रकर्षण शास्ता प्रशास्ता तं-धर्मपाठकादिलक्षणं, तथा बद्धमुकुटो राजाऽभिधीयते तं राजानं, दैवतानि च न वन्देत, देवदेवीसङ्ग्रहार्थ दैवतग्रहणं, चशब्दालेखाचार्यादिग्रहो वेदितव्य इति गाथार्थः ॥ ११०५॥ इदानीं यस्य वन्दनं कर्तव्यं स उच्यते समणं वंदिज मेहावी, संजयं सुसमाहियं । पंचसमिय तिगुत्तं, अस्संजमदुगुंछगं ॥ ११०६ ॥ व्याख्या-श्रमणः-प्राग्निरूपितशब्दार्थः तं श्रमणं 'वन्देत' नमस्कुर्यात्, कः ?-'मेधावी' न्यायावस्थितः, स खलु श्रमणः नामस्थापनादिभेदभिन्नोऽपि भवति, अत आह-संयते' सम्-एकीभावेन यतः संयतः, क्रियां प्रति यत्नवानित्यर्थः, असावपि च व्यवहारनयाभिप्रायतो लब्ध्यादिनिमित्तमसम्पूर्णदर्शनादिरपि संभाव्यते, अत आह-'सुसमाहितं' दर्शनादिषु सुष्टु-सम्यगाहितः सुसमाहितस्तं, सुसमाहितत्वमेव दर्यते-पञ्चभिरीर्यासमित्यादिभिः समितिभिः समितः पश्च समितस्तं, तिसृभिर्मनोगुप्त्यादिभिर्गुप्तिभिर्गुप्तस्तं त्रिगुप्तं, प्राणातिपातादिलक्षणोऽसंयमः असंयम गर्हति-जुगुप्सतीत्यसंयमजुगुप्सक स्तम्, अनेन दृढधर्मता तस्यावेदिता भवतीति गाथार्थः ॥ ११०६ ॥ आह-किमिति यस्य कर्तव्यं वन्दनं स एवादी Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260