Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami, 
Publisher: Bherulal Kanhiyalal Kothari Religious Trust

View full book text
Previous | Next

Page 217
________________ 203 आवश्यक हारिभद्रीया त्यकृतजनप्रणीतधर्मेण किलशब्दः परोक्षाप्तागमवादसंसूचकः दुःखानि शारीरमानसानि संसारे - तिर्यग्नरनारकामरभवानुभवलक्षणे यानि मयाऽनुभूतानि ततः - तेभ्यो दुर्विषहतराण्यग्रतोऽप्यकृतपुण्यानां नरकेषु - सीमन्तकादिषु अनुपमानि - उपमारहितानि दुःखानि, दुर्विषहत्वमेतेषां शेषगतिसमुत्थदुःखापेक्षयेति गाथार्थः ॥ १५५३ ॥ यतश्चैवं 'तम्हा' गाथा, तस्मात् तु निर्ममेन - ममत्वरहितेन मुनिना - साधुना, किंभूतेन ! - उपलब्धसूत्रसारण - विज्ञातसूत्र परमार्थेनेत्यर्थः, किं ?– कायोत्सर्गः--उक्तस्वरूपः उग्रः - शुभाध्यवसायप्रबलः कर्मक्षयार्थे नतु स्वर्गादिनिमित्तं कर्तव्य इति गाथार्थः ॥ १५५४ ॥ risनुगमः, नयाः पूर्ववत् ॥ शिष्यहितायां कायोत्सर्गाध्ययनं समाप्तम् । कायोत्सर्गविवरणं कृत्वा यदवाप्तमिह मया पुण्यम् । तेन खलु सर्वसत्त्वाः पञ्चविधं कायमुज्झन्तु ॥ १ ॥ ॥ इत्याचार्य श्रीहरिभद्रकृतायां शिष्यहिताख्यायामावश्यकवृत्तौ कायोत्सर्गाध्ययनं समाप्तं ॥ ॥ अथ प्रत्याख्यानाध्ययनं ॥ sarvari studentययनं, अधुना प्रत्याख्यानाध्ययनमारभ्यते, अस्य वायमभिसम्बन्धः - अनन्तराध्ययने स्खलनविशेषतोऽपराधत्रणविशेषसम्भवे निन्दामात्रेणाशुद्धस्यौघतः प्रायश्चित्तभेषजेनापराधत्रणचिकित्सोता, इह तु गुणधारणा प्रतिपाद्यते भूयोऽपि मूलगुणोत्तरगुणधारणा कार्येति, सा च मूलगुणोत्तरगुणप्रत्याख्यानरूपेति/ तदत्र निरूप्यते, aar / कायोत्सर्गाध्ययने कायोत्सर्गकरणद्वारेण प्रागुपातकर्मक्षयः प्रतिपादितः) यथोक्तं- 'जह करगओ नियंतई' त्यादि, 'काउस्सग्गे जह सुट्टियस्से' स्यादि, इह तु प्रत्याख्यानकरणतः कर्मक्षयोपशमक्षयर्ज फलं प्रतिपाद्यते, वक्ष्यते च-हलोहपपरलोय दुषिह फल होइ पञ्चखाणस्स । इहलोए धम्मिलादी दामण्णगमाइ परलोए ॥ १ ॥ पञ्चकखाणमिर्ण सेविऊण भाषेण जिणवरुद्दि | पत्ता अनंतजीवा सासयसोक्खं लहुं मोक्खं ॥ २ ॥ इत्यादि, अथवा सामायिके चारित्रमुपवर्णितं, चतुर्विंशतिस्तवेऽर्हतां गुणस्तुतिः, सा च दर्शनज्ञानरूपा, एवमिदं त्रितयमुकं, अस्य च वितथा सेवन मैहिकामुष्मिका पायपरिजिहीणा गुरोर्निवेदनीयं तच वन्दनपूर्वकमित्यतस्तनिरूपितं निवेद्य च भूयः शुभेष्वेष स्थानेषु प्रतीपं क्रमणमासेनीयमिति तदपि निरूपितं तथाऽप्यशुद्धस्य सतोऽपराधत्रणस्य चिकित्सा आलोचनादिना कायोत्सर्गपर्यवसानप्रायश्चित्त भेषजेनानन्तराभ्ययन उक्ता, इह तु तथाप्यशुद्धस्य प्रत्याख्यानतो भवतीति तन्निरूप्यते, एवमनेकरूपेण सम्बन्धेनायातस्य प्रत्याख्यानाध्ययनस्य चत्वार्यनुयोगद्वाराणि सप्रपचं वक्तव्यानि, तंत्र नामनिष्पन्ने निक्षेपे प्रत्याख्यानाध्ययनमिति प्रत्याख्यानमध्ययनं च तत्र प्रत्याख्यानमधिकृत्य द्वारगाथामाह नियुक्तिकार: पञ्चक्खाणं पच्चक्खाओ पचक्खेयं च आणुपुब्बीए । परिसा कहणविही या फलं च आईह छन्भेया ।। १५५५ ।। अस्या व्याख्या- 'ख्या प्रकथने' इत्यस्य प्रत्याङ्पूर्वस्य ल्युडन्तस्य प्रत्याख्यानं भवति, तत्र प्रत्याख्यायते - निषिध्यतेsia मनोवाक्कायक्रियाजालेन किञ्चिदनिष्टमिति प्रत्याख्यानं क्रियाक्रियावतोः कथञ्चिदभेदात् प्रत्याख्यानक्रियैव प्रत्याख्यानं प्रत्याख्यायतेऽस्मिन् सति वा प्रत्याख्यानं " कृत्यल्युटो बहुल" मिति ( पा० ३-३-१२ ) वचनादन्यथाऽप्यदोषः प्रति आख्यानं प्रत्याख्यानमित्यादौ, तथा प्रत्याख्यातीति प्रत्याख्याता - गुरुर्विनेयश्च तथा प्रत्याख्यायत इति प्रत्याख्येयं-प्रत्याख्यानगोचरं वस्तु, चशब्दस्त्रयाणामपि तुल्यकक्षतोद्भावनार्थ, आनुपूर्व्या - परिपाठ्या कथनीयमिति वाक्यशेषः, तथा परिषद् वक्तव्या, किंभूतायाः परिषदः कथनीयमिति तथा कथन विधिश्व-कथनप्रकारश्च वक्तव्यः तथा फलं चैहिकामुष्मिकभेदं कथनीयं, आदावेते षड् भेदा इति गाथासमासार्थः । व्यासार्थं तु यथावसरं भाष्यकार एव वक्ष्यति, तत्राद्यावयवव्यासार्थप्रतिपिपादयिषयाह नामंठवणादविए अइच्छ पडिसेहमेव भावे य । एए खलु छन्भेया पञ्चक्खाणंमि नायव्वा ॥ २३८ ॥ ( भा० ) दव्वनिमित्तं दव्वे दव्वभूओ व तत्थ रायसुआ । अइच्छापचक्खाणं बंभणसमणान (अ) इच्छत्ति ॥ २३९ ॥ ( भा० ) अमुर्ग दिउ मज्झं नत्थि ममं तं तु होइ पडिसेहो । सेसपयाण य गाहा पञ्चक्खाणस्स भावंमि ॥ २४० ॥ ( भा० ) तं दुहिं सुनो सुयं दुहा पुव्वमेव नोपुव्वं । पुव्वसुय नवमपुच्वं नोपुव्वसुर्य इमं चैव ॥ २४९ ॥ ( भा० ) नोसुअपचक्खाणं मूलगुणे चैव उत्तरगुणे य । मूले सव्वं देसं इत्तरियं आवकहियं च ॥ २४२ ॥ ( भा० ) For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260