Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami, 
Publisher: Bherulal Kanhiyalal Kothari Religious Trust

View full book text
Previous | Next

Page 238
________________ 221 आवश्यकहारिभद्रीया त्यत्र श्रमण इव चोक्तं न त श्रमण एवेति यथा समुद्र इव तडागः न त समुद्र एवेत्यभिप्रायः । तथोपपातो विठोषक:. साधुः सर्वार्थसिद्ध उत्पद्यते श्रावकस्त्वच्युते परमोपपातेन जघन्येन तु द्वावपि सौधर्म एवेति, तथा चोक्तं--"अविराधितसामण्णस्स साधुणो सावगस्स उ जहण्णो । सोधम्मे उववातो भणिओ तेलोकदंसीहिं ॥१॥” तथा स्थितिभैदिका, साधोरुत्कृष्टा त्रयस्त्रिंशत्सागरोपमाणि जघन्या तु पल्योपमपृथक्त्वमिति, श्रावकस्य तूत्कृष्टा द्वाविंशतिः सागरोपमाणि जघन्या तु पल्योपममिति । तथा गतिभैदिका, व्यवहारतः साधुः पञ्चस्वपि गच्छति, तथा च कुरटोत्कुरुटौ नरकं गतौ कुणालादृष्टान्तेनेति श्रूयते, श्रावकस्तु चतसृषु न सिद्धगताविति, अन्ये च व्याचक्षते-साधुः सुरगतौ मोक्षे च, श्रावकस्तु चतसृष्वपि। तथा कषायाश्च विशेषकाः, साधुः कषायोदयमाश्रित्य सज्वलनापेक्षया चतुस्त्रिव्येककपायोदयवानकषायोऽपि भवति छद्मस्थवीतरागादिः, श्रावकस्तु द्वादशकषायोदयवान् अष्टकषायोदयवांश्च भवति, यदा द्वादशकपायवांस्तदाऽनन्तानुबन्धवर्जा गृह्यन्ते, एते चाविरतस्य विज्ञेया इति, यदा त्वष्टकषायोदयवान् तदाऽनन्तानुबन्धिअप्रत्याख्यानकषायवर्जा इति, एते च विरताविरतस्य। तथा बन्धश्च भेदकः, साधुर्मूलप्रकृत्यपेक्षया अष्टविधबन्धको वा सप्तविधवन्धको वा पविधबन्धको वा एकविधबन्धको वा, उक्तंच-"सत्तविधबंधगा हुति पाणिणो आउवजगाणं तु । तह सुहमसंपरागा छविहबंधा विणि. विद्या ॥१॥ मोहाउयवजाणं पगड़ीणं ते उबंधगा भणिया। उवसंतखीणमोहा केवलिणो एगविधबंधा ॥२॥ते पुण - अविराद्धश्रामण्यस्य साधोः श्राधकस्यापि जघन्यतः। सौधर्म उपपातो भाणतत्रैलोक्यदर्शिभिः ॥१॥२ सप्तविधबन्धका भवन्ति प्राणिन आयुर्वर्जानां तु।। तथा सूक्ष्मसंपरायाः पट्विधबन्धा विनिर्दिष्टाः॥१॥मोहायुर्वजाना प्रकृतीनां ते तु बन्धका भणिताः । उपशाम्तक्षीणमोही केवलिन एकविधयन्धकाः॥२॥ ते पुनदुसमयठितीयस्स बंधगा ण पुण संपरागस्स । सेलेसीपडिवण्णा अबंधगा होति विष्णेया ॥ ३ ॥” श्रावकस्तु अष्टविधबन्धको वा सप्तविधबन्धको वा । तथा वेदनाकृतो भेदः, साधुरष्टानां सप्तानां चतसृणां वा प्रकृतीनां वेदकः, श्रावकस्तु नियमादष्टानामिति । तथा प्रतिपत्तिकृतो विशेषः, साधुः पञ्च महाप्रतानि प्रतिपद्यते,श्रावकस्त्वेकमणुव्रतंढे त्रीणि चत्वारि पञ्च वा, अथवा साधुः सकृत् सामायिक प्रतिपद्य सर्वकालं धारयति, श्रावकस्तु पुनः २ प्रतिपद्यत इति । तथाऽतिक्रमो विशेषकः, साधोरेकवतातिकमे पञ्चव्रतातिक्रमः, श्रावकस्य पुनरेकस्यैव, पाठान्तरं वा किं च-इतरश्च सर्वशब्दं न प्रयुले, मा भूद्देशविरतेरप्यभाव इति, आह च-'सामाइयंमि उ कए' 'सचंति भाणिऊणं' गाहा, सर्वमित्यभिधाय-सर्व सावधं योगं परित्यजामीत्यभिधाय विरतिः खलु यस्य 'सी' निरवशेषा नास्ति, अनुमतेर्नित्यप्रवृत्तत्वादिति भावना, स एवंभूतः सर्वविरतिवादी 'चुक्कईत्ति भ्रश्यति देशविरतिं सर्वविरतिं च प्रत्यक्षमृषावादित्वादित्यभिप्रायः । पर्याप्त प्रसङ्गेन प्रकृतं प्रस्तुमः । इदमपि च शिक्षापदव्रतमतिचाररहितमनुपालनीयमित्यत आह-'सामाइयस्स समणो' [गाहा], सामायिकस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्या न समाचरितव्याः, तद्यथा-मनोदुष्प्रणिधानं, प्रणिधानं-प्रयोगः दुष्टं प्रणिधानं दुष्प्रणिधानं मनसो दुष्प्रणिधानं मनोदुष्प्रणिधानं, कृतसामायिकस्य गृहसत्केतिकर्तव्यतासुकृतदुष्कृतपरिचिन्त. नमिति, उक्तं च-“सामाइयंति (तु)कातुं घरचिन्तं जो तु चिंतये सड्डो । अट्टवसट्टमुवगतो निरत्थयं तस्स सामइयं ॥१॥ द्विसमयस्थितिकस्य बन्धका न पुनः सपिरायिकस्य । शैलेशीप्रतिपक्षा अबन्धका भवन्ति विज्ञेया॥३॥ २ सामायिक(तु) कृत्वा गृहचिन्तां (कार्य) यस्त चिन्तये रहादः । आर्तवशातमुपगतो निरर्थकं तस्य सामायिकम् ॥१॥ वाग्दुष्प्रणिधानं कृतसामायिकस्यासभ्यनिष्ठुरसावधवाक्प्रयोग इति, उक्तं च-"कडसामइओ पुवं बुद्धीए पेहितूण भासेजा। सइणिरवजं वयणं अण्णह सामाइयं ण भवे ॥२॥" कायदुष्प्रणिधानं कृतसामायिकस्याप्रत्युपेक्षितादिभूतलादो करचरणादीनां देहावयवानामनिभृतस्थापन मिति; उक्तं च-“अणिरिक्खियापमजिय थंडिल्ले ठाणमादि सेवेन्तो। हिंसाभावेवि ण सो कडसामइओपमादाओ॥२॥"सामायिकस्य स्मृत्यकरणं-सामायिकस्य सम्बन्धिनीया स्मरणा स्मृतिः-उपयोगलक्षणा तस्या अकरणम्-अनासेवनमिति, एतदु तं भवति-प्रबलप्रमादान नैव स्मरत्यस्यां वेलायां मया यत्सामायिकं कर्तव्यं कृतं न कृतमिति वा, स्मृतिमूलं च मोक्षसाधनानुष्ठानमिति, उक्तं च-"ण सरइ पमादजुत्तो जो सामइयं कदा तु कातवं । कतमकतं वा तस्स हु कयंपि विफलं तयं णेयं ॥१॥" सामायिकस्यानवस्थितस्य करणं अनवस्थितकरणं, अनवस्थितमल्पकालं वा करणानन्तरमेव त्यजति, यथाकथञ्चिद्वाऽनवस्थितं करोतीति, उक्तंच-"कातूण तक्खणं चिय पारेति करेति वा जधिच्छाए। अणवट्टियं सामइयं अणादरातो न तं सुद्धं ॥१॥" उक्तं सातिचारं प्रथमं शिक्षापदव्रतमधुना द्वितीय प्रतिपादयन्नाह दिसिवयगहियस्म दिसापरिमाणस्स पइदिणं परिमाणकरणं देसावगासियं, देसावगासियरस समणो० इमे पञ्च०, तंजहा-आणवणप्पओगे पेसवणप्पओगे सहाणुवाए रूवाणुवाए बहिया पुग्गलपक्ववे॥१०॥(सूत्रं) कृतसामायिकः पूर्व बुद्धधा प्रेक्ष्य भाषेत । सदा निरवयं वचनमन्यथा सामायिकं न भवेत् ॥ १॥ २ अनिरीक्ष्याप्रमृज्य स्थण्डिलान् स्थानादि सेवमानः । हिंसाऽभावेऽपि न स कृतसामायिकः प्रमादात् ॥१॥न स्मरति प्रमादयुक्तो यः सामायिकं तु कदा कर्त्तव्यं । कृतमकृतं वा तस्य हुकृतमपि विफलं तक शेयं कृत्वा तरक्षणमेव पारयति करोति वा याच्छया । अनवस्थितं सामायिकमनादरात् न तत् शुद्धम् ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260