Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami,
Publisher: Bherulal Kanhiyalal Kothari Religious Trust
View full book text ________________
230
भावश्यकहारिभद्रीया दिगूनतं प्रागू व्याख्यातमेव तद्गृहीतस्य दिपरिमाणस्य दीर्घकालस्य यावजीवसंवत्सरचतुर्मासादिभेदस्य योजनशतादिरूपत्वात् प्रत्यहं तावत्परिमाणस्य गन्तुमशक्तत्वात् प्रतिदिन-प्रतिदिवसमित्येतच्च प्रहरमुह छुपलक्षणं प्रमाणकरणं-दिवसादिगमनयोग्यदेशस्थापनं प्रतिदिनप्रमाणकरणं देशावकाशिकं, दिगवतगृहीतदिपरिमाणस्यैकदेशः-अंशः तस्मिन्नवकाश:-गमनादिचेष्टास्थानं देशावकाशस्तेन निर्वृत्तं देशावकाशिक, एतच्चाणुव्रतादिगृहीतदीर्घतरकालावधिविरतेरपि प्रतिदिनसलेपोपलक्षणमिति पूज्या वर्णयन्ति, अन्यथा तद्विषयसङ्ग्रेपाभावाद् भावे वा पृथशिक्षापदभावप्र. सङ्गादित्यलं विस्तरेण । एत्थ य सप्पदिलुतं आयरिया पण्णवयंति, जधा सप्पस्स पुर्व से बारसजोयणाणि विसओ आसि, पच्छा विजावादिएण ओसारेंतेण जोयणे दिविविसओ से ठवितो, एवं सावओवि दिसिबतागारे बहुयं अवरझियाउ, पच्छा देसावगासिएणं तंपि ओसारेति । अथवा विसदिलंतो-अगतेण एक्काए अंगुलीए ठवितं, एवं विभासा । इदमपि शिक्षाप्रतमतिचाररहितमनुपालनीयमित्यत आह- देसा० देशावकाशिकस्य-प्रागनिरूपितशब्दार्थस्य श्रमणोपासकेनामी पश्चातिचारा ज्ञातव्या न समाचरितव्याः, तद्यथा-'आनयनप्रयोगः' इह विशिष्टे देशाधि(दि)के भूदेशाभिग्रहे परतः स्वयं गमनायोगाद्यदन्यः सचित्तादिद्रव्यानयने प्रयुज्यते सन्देशकप्रदानादिना त्वयेदमानयमित्यानयनप्रयोगः, बलात् विनियोज्यः प्रेष्यः तस्य प्रयोगः यथाऽभिगृहीत प्रविचारदेशव्यतिक्रमभयात् त्वयाऽवश्यमेव गत्वा मम गवाद्यानेयमिदं वा तत्र कर्तव्यमित्येवंभूतःप्रेष्यप्रयोगः तथा शब्दानुपातः स्वगृहवृत्तिप्राकारकादिव्यवच्छिन्नभूदेशाभिग्रहेऽपि बहिःप्रयोजनो.
मत्रच सर्पदृष्टान्तमाचार्याः प्रज्ञापयन्ति, यथा पूर्व तस्य सर्पस्य द्वादश योजनानि विषय आसीत् , पवाद्विद्यावादिनाऽपसारयता योजने तस्य दृष्टिविषयः स्थापितः, एवं श्रावकोऽपि दिग्वताकारे बह्वपराबुवान पश्चात् देशावकाशिकेन तदप्यपसारयति । अथवा विपदृष्टान्तः-अगदेनैकस्यामङ्गली स्थापितं, एवं विभाषा स्पत्तौ तत्र स्वयं गमनायोगात् वृत्तिप्राकारप्रत्यासन्नवर्तिनोबुद्धिपूर्वक क्षुतकासितादिशब्दकरणेन समवासितकान् बोधयतः शब्दस्यानुपातनम्-उच्चारणं तादृग् येन परकीयश्रवणविवरमनुपतत्यसाविति, तथा रूपानुपात:-अभिगृहीतदेशाद् बहिः प्रयोजनभावे शब्दमनुच्चारयत एव परेषां समीपानयनाथै स्वशरीररूपदर्शनं रूपानुपातः, तथा वहिः पुद्गलप्रक्षेपः अभिगृहीतदेशाद् बहिः प्रयोजनभावे परेषां प्रबोधनाय लेष्ट्वादिक्षेपः पुद्गलप्रक्षेप इति भावना, देशावकाशिकमेतदर्थमभिगृह्यतेमा भूदू बहिर्गमनागमनादिव्यापारजनितः प्राण्युपमई इति, सच स्वयं कृतोऽन्येन वा कारित इति न कश्चित् फले विशेषः प्रत्युत गुणः स्वयंगमने ईर्यापथविशुद्धः परस्य पुनरनिपुणत्वादशुद्धिरिति कृतं प्रसङ्गेन ॥ व्याख्यातं सातिचारं द्वितीयं शिक्षापदनतं, अधुनां तृतीयमुच्यते, तत्रेदं सूत्रम्
पोसहोववासे चउविहे पन्नते, तंजहा-आहारपोसहे सरीरसकारपोसहे धंभचेरपोसहे अव्वावारपोसहे, पोसहोववासस्स समणो० इमे पश्च०, तंजहा-अप्पडिलेहियदुप्पडिले हियसिजासंधारए अपमजियदुप्पमजियसिज्जासंधारए अप्पडिलेहियदुप्पडिलेहियउच्चारपासवणभूमीओ अप्पमजियदुप्पमजियउच्चारपासवणभूमीओ पोसहोषवासस्स सम्म अणणुपाल(ण)या ॥ ११॥ ( सूत्रं )
इह पौषधशब्दो रूढ्या पर्वसु वर्त्तते, पर्वाणि चाष्टम्यादितिथयः, पूरणात् पर्व, धर्मोपचयहेतुत्वादित्यर्थः, पौषधे उपवसनं पौषधोपवासः नियमविशेषाभिधानं चेदं पोषधोपवास इति, अयं च पोषधोपवासश्चतुर्विधः प्रज्ञप्तः, तद्यथा-'आहारपोषध' आहारःप्रतीतः तद्विषयस्तन्निमित्तं पोषध आहारपोषधः, आहारनिमित्तं धर्मपूरणं पर्वेति भावना, एवं शरीरसत्कारपोषधः ब्रह्मचर्यपोपधः, अत्र चरणीयं चयं 'अवो यदि त्यस्मादधिकारात् 'गदमदचरयमश्चानुपसर्गात्' (पा०३-१-१००) इति यत्, ब्रह्म-कुशलानुष्ठानं, यथोक्तं-"ब्रह्म वेदा ब्रह्म तपो, ब्रह्म ज्ञानं च शाश्वतम् ।" ब्रह्म च तत् चर्य चेति समासः शेपं पूर्ववत् । तथा अव्यापारपोषधः। एत्थ पुण भावत्थो एस-आहारपोसधो दुविधो-देसे सबे य, देसे अमुगा विगती आयंविलं वा एक्कसि वा दो वा, सबे चतुविधोऽवि आहारो अहोरत्तं पञ्चक्खातो, सरीरपोषधो पहाणुबट्टणवण्णगविलेवणपुप्फगंधतंवोलाणं वत्थाभरणाणंच परिच्चागो य, सोवि देसे सवे य, देसे अमुगं सरीरसक्कारं करेमि अमुगं न करेमित्ति, सधे अहोरतं, वंभचेरपोषधो देसे सने य, देसे दिवारत्तिं एकसिं दो वा वारेत्ति, सबे अहोरत्तिं बंभयारी भवति, अबावारे पोसधो दुविहो देसे सधे य, देसे अमुगं वावारं ण करेमि, सवे सयलवावारे हलसगडघरपरकमादीओ ण करेति, एत्थ जो देसपोसधं करेति सामाइयं करेति वा ण वा, जो सबपोसधं करेति सो णियमा कयसामाइतो, जति ण करेति तो णियमा वंचिजति, तं कहिं ?, चेतियघरे साधूमूले वा घरे वा पोसधसालाए वा उम्मुक्कमणिसुवण्णो पढंतो पोत्थगं वा वायतो
भत्र पुनर्भावार्थ एष:-आहारपोषधो द्विविधः-देशतः सर्वतश्च, देशे अमुका विकृतिः आचामाम्लं वा एकशो द्विर्वा, सर्वतश्चतुर्विधोऽप्याहारोऽहोरात्रं प्रत्याख्यातः, शरीरपोपधः सानोदर्तनवर्णकविलेपनपुष्पगन्धताम्बूलाना वस्त्राभरणानां च परित्यागात् , सोऽपि देशतःसर्वतश्च देशतोऽमुकं शरीरसत्कार करोम्यमुकं न करोमि, सर्वतोऽहोरात्रं, ब्रह्मचर्यपोपधो देशतः सर्वतश्च, देशतो दिवा रात्री वा एकशो द्विा, सर्वतोऽहोरायं ब्रह्मचारी भवति, अन्यापारपोपयो द्विविधो देशतः सर्वतश्च, देशतोऽमुकं व्यापार न करोमि सर्वतः सकलब्यापारान् हलशकटगृहपराक्रमादिकान् न करोति, अत्र यो देशपोषधं करोति सामायिकं करोति वा नं वा, यः सर्वपोषधं करोति स निमात् कृतसामायिकः, यदि न करोति तदा नियमाद्वञ्च्यते, तत् क?, चैत्यगृहे साधुमूले वा गृहे वा पोषधशालायां वा, उन्मुक्तमणिसुवर्णः पठन् पुस्तकं वा वाचयन्
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260