Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami,
Publisher: Bherulal Kanhiyalal Kothari Religious Trust
View full book text ________________
233
आवश्यक हारिभद्वीया
1
क्रिया, तत्र निसर्गः - स्वभावः अधिगमस्तु यथावस्थितपदार्थपरिच्छेद इति, आह-मिथ्यात्यमोहनीय कर्मक्षयोपशमादेरिदं भवति कथमुच्यते निसर्गेण वेत्यादि १, उच्यते, स एव क्षयोपशमादिनिं सर्गाधिगमजन्मेति न दोषः, उक्तं च-“ऊसरदेसं दढिल च विज्झाइ वणदवो पप्प । इय मिच्छस्स अणुदये उवसमसम्मं लभति जीवो ॥ १ ॥ जीवादीणमधिगमो मिच्छतस्स तु वयोवसमभावे । अधिगमसम्मं जीवो पावेइ विसुद्धपरिणामो ॥ २ ॥ त्ति, अलं प्रसङ्गेन, इह भवोदधौ दुष्प्रापां सम्यक्त्वादिभावरलावा विज्ञायोपलब्धजिनप्रवचनसारेण श्रावण नितरामप्रमादपरेणातिचारपरिहारवता भवितव्यमि - यस्यार्थस्यस्यैव विशेषख्यापनायानुक्तशेषस्य चाभिधानायेदमाह ग्रन्थकारः 'पञ्चातिचारविसुद्ध 'मित्यादि सूत्रं, इदं च सम्यक्त्वं प्रागूनिरूपितशङ्कादिपञ्चातिचारविशुद्धमनुपालनीयमिति शेषः, तथा अणुत्रतगुणव्रतानि - प्रागूनिरूपित स्वरूपाणि दृढमतिचाररहितान्येवानुपालनीयानि, तथाऽभिग्रहाः - कृतलोचघृतप्रदानादयः शुद्धा-भङ्गाद्यतिचाररहिता एवानुपालनीयाः, अन्ये च प्रतिमादयो विशेषकरणयोगाः सम्यक्परिपालनीयाः, तत्र प्रतिमा:- पूर्वोक्ताः 'दंसणवयसामाइय' इत्यादिना ग्रन्थेन, आदिशब्दादनित्यादिभावना परिग्रहः, तथा अपश्चिमा मारणान्तिकी संलेखना जो षणाराधना चातिचाररहिता पालनीयेत्यध्याहारः, तत्रैव पश्चिमैवापश्चिमा मरणं - प्राणत्यागलक्षणं, इह यद्यपि प्रतिक्षणमावीचीमरणमस्ति तथाऽपि
१ ऊपरदेशं दग्धं च विध्यायति वनदवः प्राप्य । एवं मिध्यात्वस्यानुदये औपशमिकसम्यक्त्वं लभते जीवः ॥ १ ॥ जीवादीनामधिगमो मिध्यात्वस्य क्षयोपशमभावे | अधिगमयम्यक्त्वं जीवः प्राप्नोति विशुद्धपरिणामः ॥ २ ॥
न तद् गृह्यते, किं तर्हि ?, सर्वायुष्कक्षयलक्षणमिति मरणमेवान्तो मरणान्तः तत्र भवा मारणान्तिकी बह्वचू (पूर्वपदात् ) इति ठञ् ( पा० ४-४-६४ ) संलिख्यतेऽनया शरीरकषायादीति संलेखना - तपोविशेषलक्षणा तस्याः जोपणं सेवनं तस्याराधना - अखण्ड कालस्य करणमित्यर्थः, चशब्दः समुच्चयार्थः । एत्थ सामायारी - आसेवितगिहिधम्मेण किल सावगेण पच्छा णिक्खमितवं, एवं सावगधम्मो उज्जमितो होति, ण सक्कति ताधे भत्तपञ्चकखाणकाले संधारसमणेण होतयंति विभासा । आह् उक्तम्- 'अपश्चिमा मारणान्तिकी संलेखनाझोषणाऽऽराधना'ऽतिचाररहिता सम्यक् पालनीयेति वाक्यशेषः, अथ के पुनरस्या अतिचारा इति तानुपदर्शयन्नाह - 'इमीए समणोवासएणं०' अस्या - अनन्तरोदि तसं लेखना सेवनाराधनायाः श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्याः न समाचरितव्याः, तद्यथा - इहलोकाशंसाप्रयोगः, इहलोको - मनुष्यलोकस्तस्मिन्नाशंसा-अभिलापस्तस्याः प्रयोग इति समासः श्रेष्ठी स्याममात्यो वेति, एवं 'परलोकाशंसाप्रयोगः' परलोके - देवलोके, एवं | जीविताशंसाप्रयोगः, जीवितं प्राणधारणं तत्राभिलाषप्रयोगः- यदि बहुकालं जीवेयमिति, इयं च वस्त्रमाल्यपुस्तकवाचनादिपूजादर्शनात् बहुपरिवारदर्शनाच्च, लोक श्लाघाश्रवणाच्चैवं मन्यते - जीवितमेव श्रेयः प्रत्याख्याताशनस्यापि यत एवंविधा मदुद्देशेनेयं विभूतिर्विद्यत इति, 'मरणाशंसाप्रयोगः' न कश्चित्तं प्रतिपन्नानशनं गवेषयति न सपर्ययाऽऽद्रियते नैव कश्चित् श्लाघते ततस्तस्यैवंविधश्चित्तपरिणामो जायते - यदि शीघ्रं स्त्रियेऽहमपुण्यकर्मेति, 'भोगाशंसाप्रयोगः' जन्मान्तरे चक्रवर्त्ती स्याम् वासुदेवो महामण्डलिकः शुभरूपवानित्यादि । उक्तः श्रावकधर्मः, व्याख्यातं सप्रभेदं देशो
१ अत्र सामाचारी-आसेवितगृहिधर्मेण किल श्रावकेन पश्चानिष्क्रान्तव्यं, एवं श्रावकधर्मो भवत्युद्यतः, न शक्नोति तदा भक्तप्रत्याख्याजकाले संस्तारअमणेन भवितव्यं, विभाषा । -
सरगुणप्रत्याख्यान, अधुना सर्वोत्तरगुणप्रत्याख्यानमुच्यते, तत्रेयं गाथा - ' पच्चक्खाणं गाहा । अथवा देशोत्तरगुणप्रत्याख्यानं श्रावकाणामेव भवतीति तदधिकार एवोक्तं, सर्वोत्तरगुणप्रत्याख्यानं तु लेशत उभयसाधारणमपीत्यतस्तदभिधित्सयाऽऽह
पञ्चक्खाणं उत्तरगुणेसु खमणाइयं अणेगविहं । तेण य इहयं परायं तंपि य इणमो दसविहं तु ॥ १५६३ ॥ अणागमकं कोडियसहिअं निअंटिअं चेव । सागारमणागारं परिमाणकडं निरवसेसं ॥ १५६४ ॥ संकेयं वेब अद्वाए, पञ्चक्खाणं तु दसविहं । सयमेवणुपालणियं, दाणुवएसे जह समाही ॥ १५६५ ।। व्याख्या - प्रत्याख्यानं प्रागूनिरूपितशब्दार्थ, 'उत्तरगुणेषु' उत्तर गुणविषयं प्रकरणात् साधूनां तावदिदमिति-क्षपणादि, क्षपणग्रहणाच्चतुर्थादिपरिग्रहः, आदिग्रहणाद्विचित्राभिग्रहपरिग्रहः, 'अनेकविध 'मित्यनेकप्रकारं, प्रकारश्च वक्ष्यमाणस्तेनानेकविधेन, चशब्दादुक्तलक्षणेन च, 'अत्रे'ति सामान्येनोत्तरगुणप्रत्याख्याननिरूपणाधिकारे, अथवा चशब्दस्यैवकारार्थत्वात् तेनैव' अत्रे' ति सर्वोत्तरगुणप्रत्याख्यानप्रक्रमे प्रकृतम् - उपयोगोऽधिकार इति पर्यायस्तदपि चेदं दशविधं तु-मूलापेक्षया दशविधं दशप्रकारकमेवेति गाथार्थः॥ १५६३॥ अधुना दशविधमेवोपन्यस्यन्नाह - 'अणागतं ० 'गाथा, अनागत करणादनागतं पर्युपणादावाचार्यादिवैयावृत्त्यकरणान्तरायसद्भावादारत एव तत्तपःकरणमित्यर्थः एवमतिक्रान्तकरणादतिक्रान्तं भावना प्राग्वत् । 'कोटिसहित 'मिति कोटीभ्यां सहितं कोटिसहितं - मिलितोभयप्रत्याख्यानकोटि, चतुर्थादिकरणमेवेत्यर्थः, 'नियन्त्रितं चैव' नितरां यन्त्रितं नियन्त्रितं प्रतिज्ञातदिनादौ ग्लानाद्यन्तरायभावेऽपि नियमात् कर्त्तव्यमितिहृदयं, 'साकार' आक्रियन्त इत्याकाराः - प्रत्याख्यानापवाद हेतवोऽनाभोगादयः सहाकारैः साकारं, तथाऽविद्यमानाकार
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260