SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ 233 आवश्यक हारिभद्वीया 1 क्रिया, तत्र निसर्गः - स्वभावः अधिगमस्तु यथावस्थितपदार्थपरिच्छेद इति, आह-मिथ्यात्यमोहनीय कर्मक्षयोपशमादेरिदं भवति कथमुच्यते निसर्गेण वेत्यादि १, उच्यते, स एव क्षयोपशमादिनिं सर्गाधिगमजन्मेति न दोषः, उक्तं च-“ऊसरदेसं दढिल च विज्झाइ वणदवो पप्प । इय मिच्छस्स अणुदये उवसमसम्मं लभति जीवो ॥ १ ॥ जीवादीणमधिगमो मिच्छतस्स तु वयोवसमभावे । अधिगमसम्मं जीवो पावेइ विसुद्धपरिणामो ॥ २ ॥ त्ति, अलं प्रसङ्गेन, इह भवोदधौ दुष्प्रापां सम्यक्त्वादिभावरलावा विज्ञायोपलब्धजिनप्रवचनसारेण श्रावण नितरामप्रमादपरेणातिचारपरिहारवता भवितव्यमि - यस्यार्थस्यस्यैव विशेषख्यापनायानुक्तशेषस्य चाभिधानायेदमाह ग्रन्थकारः 'पञ्चातिचारविसुद्ध 'मित्यादि सूत्रं, इदं च सम्यक्त्वं प्रागूनिरूपितशङ्कादिपञ्चातिचारविशुद्धमनुपालनीयमिति शेषः, तथा अणुत्रतगुणव्रतानि - प्रागूनिरूपित स्वरूपाणि दृढमतिचाररहितान्येवानुपालनीयानि, तथाऽभिग्रहाः - कृतलोचघृतप्रदानादयः शुद्धा-भङ्गाद्यतिचाररहिता एवानुपालनीयाः, अन्ये च प्रतिमादयो विशेषकरणयोगाः सम्यक्परिपालनीयाः, तत्र प्रतिमा:- पूर्वोक्ताः 'दंसणवयसामाइय' इत्यादिना ग्रन्थेन, आदिशब्दादनित्यादिभावना परिग्रहः, तथा अपश्चिमा मारणान्तिकी संलेखना जो षणाराधना चातिचाररहिता पालनीयेत्यध्याहारः, तत्रैव पश्चिमैवापश्चिमा मरणं - प्राणत्यागलक्षणं, इह यद्यपि प्रतिक्षणमावीचीमरणमस्ति तथाऽपि १ ऊपरदेशं दग्धं च विध्यायति वनदवः प्राप्य । एवं मिध्यात्वस्यानुदये औपशमिकसम्यक्त्वं लभते जीवः ॥ १ ॥ जीवादीनामधिगमो मिध्यात्वस्य क्षयोपशमभावे | अधिगमयम्यक्त्वं जीवः प्राप्नोति विशुद्धपरिणामः ॥ २ ॥ न तद् गृह्यते, किं तर्हि ?, सर्वायुष्कक्षयलक्षणमिति मरणमेवान्तो मरणान्तः तत्र भवा मारणान्तिकी बह्वचू (पूर्वपदात् ) इति ठञ् ( पा० ४-४-६४ ) संलिख्यतेऽनया शरीरकषायादीति संलेखना - तपोविशेषलक्षणा तस्याः जोपणं सेवनं तस्याराधना - अखण्ड कालस्य करणमित्यर्थः, चशब्दः समुच्चयार्थः । एत्थ सामायारी - आसेवितगिहिधम्मेण किल सावगेण पच्छा णिक्खमितवं, एवं सावगधम्मो उज्जमितो होति, ण सक्कति ताधे भत्तपञ्चकखाणकाले संधारसमणेण होतयंति विभासा । आह् उक्तम्- 'अपश्चिमा मारणान्तिकी संलेखनाझोषणाऽऽराधना'ऽतिचाररहिता सम्यक् पालनीयेति वाक्यशेषः, अथ के पुनरस्या अतिचारा इति तानुपदर्शयन्नाह - 'इमीए समणोवासएणं०' अस्या - अनन्तरोदि तसं लेखना सेवनाराधनायाः श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्याः न समाचरितव्याः, तद्यथा - इहलोकाशंसाप्रयोगः, इहलोको - मनुष्यलोकस्तस्मिन्नाशंसा-अभिलापस्तस्याः प्रयोग इति समासः श्रेष्ठी स्याममात्यो वेति, एवं 'परलोकाशंसाप्रयोगः' परलोके - देवलोके, एवं | जीविताशंसाप्रयोगः, जीवितं प्राणधारणं तत्राभिलाषप्रयोगः- यदि बहुकालं जीवेयमिति, इयं च वस्त्रमाल्यपुस्तकवाचनादिपूजादर्शनात् बहुपरिवारदर्शनाच्च, लोक श्लाघाश्रवणाच्चैवं मन्यते - जीवितमेव श्रेयः प्रत्याख्याताशनस्यापि यत एवंविधा मदुद्देशेनेयं विभूतिर्विद्यत इति, 'मरणाशंसाप्रयोगः' न कश्चित्तं प्रतिपन्नानशनं गवेषयति न सपर्ययाऽऽद्रियते नैव कश्चित् श्लाघते ततस्तस्यैवंविधश्चित्तपरिणामो जायते - यदि शीघ्रं स्त्रियेऽहमपुण्यकर्मेति, 'भोगाशंसाप्रयोगः' जन्मान्तरे चक्रवर्त्ती स्याम् वासुदेवो महामण्डलिकः शुभरूपवानित्यादि । उक्तः श्रावकधर्मः, व्याख्यातं सप्रभेदं देशो १ अत्र सामाचारी-आसेवितगृहिधर्मेण किल श्रावकेन पश्चानिष्क्रान्तव्यं, एवं श्रावकधर्मो भवत्युद्यतः, न शक्नोति तदा भक्तप्रत्याख्याजकाले संस्तारअमणेन भवितव्यं, विभाषा । - सरगुणप्रत्याख्यान, अधुना सर्वोत्तरगुणप्रत्याख्यानमुच्यते, तत्रेयं गाथा - ' पच्चक्खाणं गाहा । अथवा देशोत्तरगुणप्रत्याख्यानं श्रावकाणामेव भवतीति तदधिकार एवोक्तं, सर्वोत्तरगुणप्रत्याख्यानं तु लेशत उभयसाधारणमपीत्यतस्तदभिधित्सयाऽऽह पञ्चक्खाणं उत्तरगुणेसु खमणाइयं अणेगविहं । तेण य इहयं परायं तंपि य इणमो दसविहं तु ॥ १५६३ ॥ अणागमकं कोडियसहिअं निअंटिअं चेव । सागारमणागारं परिमाणकडं निरवसेसं ॥ १५६४ ॥ संकेयं वेब अद्वाए, पञ्चक्खाणं तु दसविहं । सयमेवणुपालणियं, दाणुवएसे जह समाही ॥ १५६५ ।। व्याख्या - प्रत्याख्यानं प्रागूनिरूपितशब्दार्थ, 'उत्तरगुणेषु' उत्तर गुणविषयं प्रकरणात् साधूनां तावदिदमिति-क्षपणादि, क्षपणग्रहणाच्चतुर्थादिपरिग्रहः, आदिग्रहणाद्विचित्राभिग्रहपरिग्रहः, 'अनेकविध 'मित्यनेकप्रकारं, प्रकारश्च वक्ष्यमाणस्तेनानेकविधेन, चशब्दादुक्तलक्षणेन च, 'अत्रे'ति सामान्येनोत्तरगुणप्रत्याख्याननिरूपणाधिकारे, अथवा चशब्दस्यैवकारार्थत्वात् तेनैव' अत्रे' ति सर्वोत्तरगुणप्रत्याख्यानप्रक्रमे प्रकृतम् - उपयोगोऽधिकार इति पर्यायस्तदपि चेदं दशविधं तु-मूलापेक्षया दशविधं दशप्रकारकमेवेति गाथार्थः॥ १५६३॥ अधुना दशविधमेवोपन्यस्यन्नाह - 'अणागतं ० 'गाथा, अनागत करणादनागतं पर्युपणादावाचार्यादिवैयावृत्त्यकरणान्तरायसद्भावादारत एव तत्तपःकरणमित्यर्थः एवमतिक्रान्तकरणादतिक्रान्तं भावना प्राग्वत् । 'कोटिसहित 'मिति कोटीभ्यां सहितं कोटिसहितं - मिलितोभयप्रत्याख्यानकोटि, चतुर्थादिकरणमेवेत्यर्थः, 'नियन्त्रितं चैव' नितरां यन्त्रितं नियन्त्रितं प्रतिज्ञातदिनादौ ग्लानाद्यन्तरायभावेऽपि नियमात् कर्त्तव्यमितिहृदयं, 'साकार' आक्रियन्त इत्याकाराः - प्रत्याख्यानापवाद हेतवोऽनाभोगादयः सहाकारैः साकारं, तथाऽविद्यमानाकार Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002522
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy