________________
232
आवश्यकहारिभद्रीया
अण्णो भाणं पडिलेहेति, मा अंतराइयदोसा ठर्वितगदोसा य भविस्संति, सो जति पढमाए पोरुसीए णिमंतेति अस्थि णमोकार महिताइतो तो गेज्झति, अधव णत्थि ण गेज्झति, तं वहितबयं होति, जति घणं लगेज्जा ताधे गेज्झति संचिक्खाविज्जति, जो वा उघाडाए पोरिसिए पारेति पारणइत्तो अण्णो वा तस्स दिज्जति, पच्छा तेण सावगेण समर्ग गम्मति, संघाडगो वच्चति, एगो ण वट्टति पेसितुं, साधू पुरओ सावगो मग्गतो, घरं णेऊण आसणेण उवणिमंतिज्जति, जति णिविगा तो लट्ठयं, अध ण णिवेसंति तधावि विणयो पउत्तो, ताधे भत्तं पार्ण सयं चैव देति, अथवा भाणं धरेति जाति, अठतीओ अच्छति जात्र दिण्णं, साधूवि सावसेसं दबं गेण्हति, पच्छाकम्मपरिहारणट्ठा, दातूण वंदितुं विसज्जेति, विसज्जेत्ता अणुगच्छति, पच्छा सयं भुंजति, जं च किर साधूण ण दिण्णं तं सावगेण ण भोत्तवं, जति पुण साधू स्थिता देसकालवेलाए दिसालोगो कातद्यो, विसुद्धभावेण चिंतियां - जति साधुणो होता तो णित्थारितो
ا
१ अन्यो भाजनं प्रतिलिखति माऽऽन्तरायिका दोषा भूवन् स्थापनादोपाव, स यदि प्रथमायां पौरुष्यां निमन्त्रयते अम्ति नमस्कारसहितस्तदा गृह्यतेनास्ति न गृह्यते तद्बोढव्यं भवेत्, यदि घनं लगेत् तदा गृह्यते संरक्ष्यते, यो वोदूघाटपौरुण्यां पारयति पारणवानन्यो वा तस्मै दीयते, पश्चात्तेन श्रावकेण समं गम्यते संघाटको वजति एको न वर्त्तते प्रेषितुं, साधुः पुरतः श्रावकः पृष्ठतः, गृहं नीन्वाssसनेन निमन्त्रयति, यदि निविष्ठा लष्टं नाथ निविशन्ति तथापि विनयः प्रयुक्तो (भवति), तदा भक्तं पानं वा स्वयमेव ददाति अथवा भाजनं धारयति भार्या ददाति अथवा स्थित पुत्र तिष्ठति यावद्दत्तं साधुरपि सावशेषं द्रव्यं गृह्णाति पश्चात्कर्म परिहरणार्थाय दत्वा वन्दिवा विसर्जयति विसृज्यानुगच्छति, पश्चात् स्वयं भुङ्क्ते यच्च किल साधुभ्यो न दत्तं न तच्छ्रावण भोक्तव्यं, यदि पुनः साधुर्नास्ति तदा देशकालवेलायां दिगालोकः कर्त्तव्यः, विशुद्धभावेन चिन्तयितश्यं यदि साधवोऽभविष्यन् तदा निस्तारितोऽ
तोति विभासा । इदमपि च शिक्षापदत्रतमतिचाररहितमनुपालनीयमिति, अत आह— अतिथिसंविभागस्य-प्रागूनिरूपितशब्दार्थस्य श्रमणोपासकेनामी पश्चातिचारा ज्ञातव्याः न समाचरितव्याः, तद्यथा - 'सचित्तनिक्षेपणं' सचित्तेषु - व्रीह्यादिषु निक्षेपणमन्नादेरदानबुद्ध्या मातृस्थानतः, एवं 'सचित्तपिधानं' सचित्तेन फलादिना पिधानं - स्थगनमिति समासः, भावना प्राग्वत् 'कालातिक्रम' इति कालस्यातिक्रमः कालातिक्रम इति उचितो यो भिक्षाकालः साधूनां तमतिक्रम्यानागतं
भुङ्केतिक्रान्ते वा, तदा च किं तेन लब्धेनापि कालातिक्रान्तत्वात् तस्य, उक्तं च- "काले दिण्णस्स पधेयणस्स अघोण तीरते काउं । तस्सेव अकालपणामियस्स गेण्हंतया णत्थि ॥ १ ॥” 'परव्यपदेश' इत्यात्मव्यतिरिक्तो योऽन्यः से परस्तस्य व्यपदेश इति समासः, साधोः पोषधोपवासपारणकाले भिक्षायै समुपस्थितस्य प्रकटमन्नादि पश्यतः श्रावकोऽभिधत्तेपरकीयमिदमिति, नास्माकीनमतो न ददामि किञ्चिद्याचितो वाऽभिधत्ते - विद्यमान एवामुकस्येदमस्ति तत्र गत्वा मार्गयत यूयमिति, मात्सर्य” इति याचितः कुप्यति सदपि न ददाति, 'परोन्नतिवैमनस्यं च मात्सर्य' मिति, एतेन तावद् द्रमकेण याचितेन दत्तं किमहं ततोऽप्यून इति मात्सर्याद् ददाति, कषायकलुषितेनैव चित्तेन ददतो मात्सर्यमिति, व्याख्यातं सातिचारं चतुर्थ शिक्षापदत्रतं, अधुना इत्येष श्रमणोपासकधर्म्मः । आह - कानि पुनरणुत्रतादीनामित्वराणि यावत्कथिकानीति ?, अत्रोच्यते
इत्थं पुण समणोवासगधम्मे पंचाणुब्वयाई तिन्नि गुणव्वयाई आवकहियाई, चत्तारि सिक्खावयाई इसरियाई, एस्स पुणो समणोवासगधम्मस्स मूलवत्युं सम्मत्तं, तंजहा-तं निसग्गेण वा अभिगमेण वा पंच
१ भविष्यदिति विभाषा । २ काले दत्तस्य प्रहेणकस्यार्थो न शक्यते कर्त्तुम् । तस्यैवा कालदत्तस्य ग्राहका न सन्ति ॥ १ ॥ अईयारविसुद्धं अणुब्वयगुणत्र्वयाहं च अभिग्गहा अन्नेऽवि पडिमादओ विसेसकरणजोगा, अपच्छिमा मारणंतिया संलेहणाझूसणाराहणया, इमीए समणोवास एणं इमे पञ्च०, तंजहा - इहलोगासंसप्पओगे परलोगासंसप्पओगे जीवियासंसप्पओगे मरणासंसप्पओगे कामभोगासंसप्पओगे ॥ १३ ॥ ( सूत्र )
अत्र पुनः श्रमणोपासकधर्मे पुनः शब्दोऽवधारणार्थः, अत्रैव न शाक्यादिश्रमणोपासकधर्मे, सम्यक्त्वाभावेनाणुव्रताद्यभावादिति, वक्ष्यति च - 'एत्थ पुण समणोवासगृधम्मे मूलवत्युं संमत्त' मित्यादि, पश्चाणुव्रतानि प्रतिपादितस्वरूपाणि त्रीणि गुणव्रतानि उक्तलक्षणान्येव 'यावत् कथिकानी'ति सकृद्गृहीतानि यावज्जीवमपि भावनीयानि, चत्वारीति सङ्ख्या 'शिक्षापदत्रतानी' ति शिक्षा - अभ्यासस्तस्य पदानि - स्थानानि तान्येव व्रतानि शिक्षापदत्रतानि, 'इत्वराणी'ति तत्र प्रतिदिवसानुष्ठेये सामायिकदेशावकाशिके पुनः पुनरुच्चार्ये इति भावना, पौषधोपवा सातिथिसंविभागौ तु प्रतिनियतदिवसानुष्ठेयौ न प्रतिदिवसाचरणीयाविति । आह- अस्य श्रमणोपासकधर्मस्य किं पुनर्मूलवस्थिति ?, अत्रोच्यते, सम्यक्त्वं, तथा चाह ग्रन्थकारः -- एतस्स पुणो समणोवासग' अस्य पुनः श्रमणोपासकधर्मस्य, पुनः शब्दोऽवधारणार्थः अस्यैव, शाक्यादि - श्रमणोपासकधर्मे सम्यक्त्वाभावात् न मूलवस्तु सम्यक्त्वं, वसन्त्यस्मिन्नणुव्रतादयो गुणास्तद्भावभावित्वेनेति वस्तु मूलभूतं द्वारभूतं च तद् वस्तु च मूलवस्तु, तथा चोक्तम्- "द्वारं मूलं प्रतिष्ठानमाधारो भाजनं निधिः । द्विषट्कस्यास्य धर्मस्य, सम्यक्त्वं परिकीर्त्तितम् ॥१॥" सम्यक्त्वं - प्रशमादिलक्षणं, उक्तं च - "प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणं सम्यक्त्व” (तत्त्वा • भाष्ये अ० १ सू०२) मिति, कथं पुनरिदं भवत्यत आह-'तन्निसग्गेण०' तत्-वस्तुभूतं सम्यत्तत्वं निसर्गेण वाऽधिगमेन वा भवतीति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org