________________
231 आवश्यकहारिभद्रीया धम्म झाणं झायति, जधा एते साधुगुणा अहं असमत्थो मंदभग्गो धारेतुं विभासा । इदमपि च शिक्षापदव्रतमतिचाररहितमनपालनीयमित्यत आह-'पोसधोववासस्स समणों'०पोषधोपवासस्य निरूपितशब्दार्थस्य श्रमणोपासकेनामी पनातिचाग ज्ञातव्या न समाचरितव्याः, तद्यथा-अप्रत्युपेक्षितदुष्प्रत्युपेक्षितशय्यासंस्तारी, इह संस्तीर्यते यः प्रतिपन्नपोषधोपवासेन दर्भकुशकम्बलीवस्त्रादिः स संस्तारः शय्या प्रतीता प्रत्युपेक्षणं-गोचरापन्नस्य शय्यादेश्चक्षुषा निरीक्षणं न प्रत्युपेक्षणं अप्रत्युपेक्षणं दुष्टम्-उद्भ्रान्तचेतसा प्रत्युपेक्षणं दुष्प्रत्युपेक्षणं ततश्चाप्रत्युपेक्षितदुष्प्रत्युपेक्षितौ शय्यासंस्तारौ चेति समासः, शय्येव वा संस्तारः शय्यासंस्तारः, इत्येवमन्यत्राक्षरगमनिका कार्येति, उपलक्षणं च शय्यासंस्ताराधुपयोगिनःपीठ(फल)कादेरपि । एत्थे पण मामायारी-कडपोसधोणो अप्पडिलेहिया सज्ज दुरूहति, संथारगं वा दुरुहइ, पोसहसाले वा सेवइ, दब्भवत्थं वा सुद्धवत्थं वा भूमीए संथरति, काइयभूमितो वा आगतो पुणरवि पडिलेहति, अण्णधातियारो, एवं पीढगादिसुवि विभासा । तथा अप्रमार्जितदुष्प्रमार्जितशय्यासंस्तारी, इह प्रमार्जनं-शय्यादेरासेवनकाले वस्त्रोपान्तादिनेति, दुष्टम्-अविधिना प्रमार्जनं शेष भावितमेव, एवं उच्चारप्रश्रवणभूमावपि, उच्चारप्रश्रवणं निष्ठयूतखेलमलाद्युपलक्षणं, शेष भावितमेव । तथा पोषधस्य सम्यक्-प्रवचनोक्तेन विधिना निष्प्रकम्पेन चेतसा अननुपालनम्-अनासेवनम् । एत्थे भावना-कतपोसधो
धर्मध्यानं ध्यायति, यथा साधुगुणानेतानहं मन्दभाग्योऽसमर्थो धारयितुं विभाषा । २ अन्त्र पुनः सामाचारी-कृतपोषधो नाप्रतिलिख्य शय्यामारोहति संस्तारक वारोहति पोषधशाला वा सेवते दर्भवम्नं वा शुद्धवयं वा भूमौ संस्तृणाति, कायिकीभूमित आगतो वा पुनरपि प्रतिलिखति, अन्यथाऽतिचारः, एवं पीठकादिष्वपि विभाषा । ३ भत्र भावना कृतपोषधोअथिरचित्ती आहारे ताव सर्व देसं वा पत्थेति, बिदियदिवसे पारणगस्स वा अप्पणो अहाए आढत्तिं कारेइ, करेइ वा इम २ वत्ति कहे धणियं वट्टइ, सरीरसक्कारे सरीरं वद्देति, दाढियाउ केसे वा रोमराई वा सिंगा दाहे वा मरीरं सिंचति, एवं सबाणि सरीरविभूसाकरणाणि(ण)परिहरति बंभचेरे, इहलोए परलोए वा भोगे पत्थेति संबाधेति वा, अथवा सद्दफरिसरसरूवगंधे वा अहिलसति, कइया बंभचेरपोसहो पूरिहिइ, चइत्ता मो बंभचेरेणंति, अबावारे सावजाणि वावारेति कतमकतं वा चिंतेइ, एवं पंचतियारसुद्धो अणुपालेतबोत्ति । उक्तं सातिचारं तृतीयशिक्षापदव्रतं. अधुना चतुर्थमुच्यते, तत्रेदं सूत्रम्
अतिहिसंविभागो नाम नायागयाणं कप्पणिजाणं अन्नपाणाईणं दवाणं देसकालसद्धासकारकमजुअं पराए भत्तीए आयाणुग्गहबुद्धीए संजयाणं दाणं, अतिहिसंविभागस्स समणो० इमे पञ्च० तंजहासञ्चित्तनिकग्वेवणया सचित्तपिहणया कालहकमे परववएसे मच्छरिया य १२॥ (सूत्र) इह भोजनार्थ भोजनकालोपस्थाव्यतिथिरुच्यते, तत्रात्मार्थ निष्पादिताहारस्य गृहिवतिनः मुख्यः साधुरेवातिथिस्तस्य
स्थिरचित्त आहारे तावन् सर्व देशं वा प्रार्थयते द्वितीय दिवसे वाऽऽत्मनः पारणकस्यार्थे आइति करोति कुरु वेदमिदं वेति कथायामत्यन्तं धर्त्तते, शरीरसत्कारे शरीरं वर्तयति श्मश्रुकेशान् वा रोमराजि वा शृङ्गाराभिप्रायेण संस्थापयति, निदाघे वा शरीरं सिञ्चति, एवं सर्वाणि शरीरविभूपाकारणानि म परिहरति ब्रह्मचर्य ऐहलाकिकान् पारलौकिकान् वा भोगान् प्रार्थयते संबाधयति वा, अथवा शब्दस्पर्शरसरूपगम्धान्वाऽभिलष्यति, कदा ब्रह्मचर्यपोषधः पूरयिष्यति त्याजिताः स्मो ब्रह्मचर्येणेति । अव्यापारे सावधान व्यापारयति कृतमकृतं वा चिन्तयति, एवं पञ्चातिचारशुद्धोऽनुपालनीयः । संविभागोऽतिथिसंविभागः, सविभागग्रहणात् पश्चातकमोदिदोषपरिहारमाह,/ नामशब्दः पूर्ववत , 'न्यायागताना मिति न्यायादिजक्षत्रियविदशद्राणां स्ववृत्त्यनुष्ठानं स्वस्ववृत्तिश्च प्रसिद्धव प्रायोलोकहेयो तेन तादृशान्यायेनागतानां प्राप्तानाम, अनेनान्यायागतानां प्रतिषेधमाह, कल्पनीयानामुन्द्रमादिदोषपरिवर्जितानामनेनाकल्पनीयानां निषेधमाह, अन्नपानादीनां दव्याणाम, आदिग्रहणाद वस्त्रपात्रौषधभेषजादिपरिग्रहः, अनेनापि हिरण्यादिब्यवच्छेदमाह, 'देशकालश्रद्धासत्कारक्रमयुक्तं' तत्र नानाव्रीहिकोद्रवकङ्गुगोधूमादिनिष्पत्तिभार देशः सुभिक्षदुर्भिक्षादिः कालः विशुद्धश्चित्तपरिणामः श्रद्धा अभ्युत्थानासनदानवन्दनानुव्रजनादिः सत्कारः पाकस्य पेयादिपरिपाट्या प्रदानं क्रमः, एभिर्देशादिभिर्युक्तं-समन्वितं, अनेनापि विपक्षव्यवच्छेदमाह, 'परया' प्रधानया भक्त्येति, अनेन फलप्राप्तौ भक्तिकृतमतिशयमाह, आत्मानुग्रहबुद्ध्या न पुनर्यत्यनुग्रहबुद्ध्येति, तथाहि-आत्मपरानुग्रहपरा एव यतयः संयता मूलगुणोत्तरगुणसम्पन्ना साधवस्तेभ्यो दानमिति सत्राक्षरार्थः। एत्थ सामाचारी-सावगेण पोसधं पारेतेण णियमा साधूणमदातुं ण पारेयवं, अन्नदा पुण अनियमो-दात वा पारेति पारितो वा देइत्ति, तम्हा पुर्व साधूणं दातुं पच्छा पारेतबं, कधं , जाधे देसकालो ताधे अप्पणो सरीरस्स विभसं का साधपडिस्सयं गंतुं णिमंतेति, भिक्खं गेण्हधत्ति, साधूण का पडिवत्ती, ताधे अण्णो पडलं अण्णो महणंतयं
अन सामाचारी-श्रावकेण पोषधं पारयता नियमात् साधुभ्योऽरवा न पारयितव्यं अन्यदा पुनरनियमः दवा वा पारयति पारयित्वा वा ददातीति, तस्मात् पूर्व साधुभ्यो दावा पारयितव्यं, कथं, यदा देशकालस्तदाऽऽस्मनः शरीरस्य विभूषां कृत्वा साधुप्रतिश्रयं गत्वा निमन्त्रयते भिक्षा गृहीतेति, साधूना
का प्रतिपसिः -तदाऽन्यः पटलं अन्यो मुखानम्तकं Jain Education International For Private & Personal Use Only
www.jainelibrary.org