Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami, 
Publisher: Bherulal Kanhiyalal Kothari Religious Trust

View full book text
Previous | Next

Page 225
________________ 216 आवश्यकहारिभद्रीया णाम विशेषा इत्यर्थः, यैः सम्यक्त्वमतिचरति, ज्ञातव्याः ज्ञपरिज्ञया न समाचरितव्याः, नासेव्या इति भावार्थः । तद्यथे'स्युदाहरणप्रदर्शनार्थः, शङ्का काङ्क्षा विचिकित्सा परपाषण्डप्रशंसा परपाषण्डसंस्तवश्चेति तत्र शङ्कनं शङ्का, भगवदर्हत्प्रणीतेषु पदार्थेषु धर्मास्तिकायादिष्वत्यन्तगहनेषु मतिदौर्बल्यात् सम्यगनवधार्यमाणेषु संशय इत्यर्थः, किमेवं स्यात् नैवमिति संशयकरणं शङ्का, सा पुनर्दिभेदा-देशशङ्का सर्वशङ्का च, देशशङ्का देश विषया, यथा किमयमारमाउस येयप्रदेशात्मकः स्यादथ निष्प्रदेशो निरवयवः स्यादिति, सर्वशङ्का पुनः सकलास्तिकायजात एव किमेवं नैवं स्यादिति । मिथ्यादर्शनं च त्रिविधम्-अभिगृहीतानभिगृहीतसंशयभेदात्, तत्र संशयो मिथ्यात्वमेव, यदाह-“पयमक्खरं च एक जो न रोएइ सुत्तनिदि सेसं रोयंतोवि ह मिच्छविही मुणेयवो ॥१॥" तथा-"सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः। मिथ्यादृष्टिः सूत्रं हि नःप्रमाणं जिनाज्ञा च(जिनाभिहित)॥१॥एकस्मिन्नप्यर्थ सन्दिग्धे प्रत्ययोऽर्हति हि नष्टः । मिथ्यात्वदर्शनं सत्सचादिहेतुर्भवगतीनाम् ॥२॥" तस्मात् मुमुक्षुणा व्यपगतशकेन सता जिनवचनं सत्यमेव सामन्यतः प्रतिपत्तव्यं, संशयास्पदमपि सत्यं, सर्वज्ञाभिहितत्वात् , तदन्यपदार्थवत्, मतिदौर्बल्यादिदोषात्तु कास्न सकलपदार्थस्वभावावधारणमशक्यं छमस्थेन, यदाह-"न हि नामानाभोग छद्मस्थस्येह कस्यचिन्नास्ति । ज्ञानावरणीयं हि ज्ञानावरणप्रकृति कर्म ॥१॥" इह चोदाहरणं-जो संकं करेइ सो विणस्सति, जहा सो पेजायओ, पेजाए मासा जे परिभज्जमाणा ते छढा, अंधगारए पदमक्षरं चैकं यो न रोचयति सूत्रनिर्दिष्टम् । शेष रोचयन्नपि मिथ्याष्टिातव्यः॥१॥२ यः शङ्कां करोति स विनश्यति यथा स पेयापायी, पेयायां माषा ये परिभृज्यमानास्ते क्षिप्ताः, अन्धकारे लेहसालाओ आगया दो पुत्ता पियंति, एगो चिंतेति-एयाओ मच्छियाओ संकाए तस्स वग्गुलो वाउ जाओ, मओय, बिइओ चिंतेइ-न मम माया मच्छिया देइ जीओ, एते दोसा । कारणं काङ्गा-सुगतादिप्रणीतदर्शनेषु ग्राहोऽभिलाष इत्यर्थः, तथा चोक्तं-'कंखा अन्नन्नदंसणग्गाहो'सा पुनर्द्धिभेदा-देशकामा सर्वकाङ्क्षा च, देशकाखैकदेशविषया, एकमेव सौगतं दर्शनं कावति, चित्तजयोऽत्र प्रतिपादितोऽयमेव च प्रधानो मुक्तिहेतुरित्यतो घटमानकमिदं न दूरापेतमिति, सर्वकासा तु सर्वदर्शनान्यवकासति, अहिंसादिप्रतिपादनपराणि सर्वाण्येव कपिलकणभक्षाक्षपादादिमतानीह लोके च नात्यन्तक्लेशप्रतिपादनपराण्यतः शोभनान्येवेति, अर्थवैहिकामुष्मिकफलानि काङ्क्षति, प्रतिषिद्धा चेयमर्हद्भिरतः प्रतिषिद्धानुष्ठानादेनां कुर्वतः सम्यक्त्वातिचारो भवति, तस्मादेकान्तिकमव्याबाधमपवर्ग विहायान्यत्र काला न कार्येति, एत्थोदाहरणं, राया कुमारामच्चो य आसेणावहिया अडविं पविट्ठा, छुहापरद्धा वणफलाणि खायंति, पडिनियत्ताण राया चिंतेइ, लड्डुयपूयलगमादीणि सवाणि खामि, आगया दोविजणा, रण्णा सूयाराभणिया-जंलोए पयरइ तं सबं सबे रंधेहत्ति, उवढवियं च रन्नो, सो राया पेच्छणयदिहतं करेइ, कप्पडिया बलिएहिं धाडिजइ, एवं मिट्ठस्स अवगासो होहितित्ति कणकुंडगमंडगादीणिवि लेखशालाया आगतौ द्वी पुत्री पिवतः, एकश्चिन्तयति-एता मक्षिकाः, शङ्ख्या तस्य वल्गुलो वायुर्जातो मृतश्च, द्वितीयश्चिन्तयति-न मनं माता मक्षिका दद्यात् जीवितः, एते दोषाः । २ अनोदाहरणं राजा कुमारामात्यश्चाश्वेनापहृतावटवीं प्रविष्टौ, क्षुधापरिगती वनफलानि खादतः, प्रतिनिवृत्तयो राजा चिन्तयति-लड़कापूपादीनि सर्वाणि खादामि, आगतौ द्वावपि जनौ, राज्ञा सूदा भणिताः-यलोके प्रचरति तत् सर्व सर्वे राध्यतेति, उपस्थापितं च राजे, स राजा प्रेक्षणकदृष्टान्तं करोति, कार्पटिका बलिभिर्धाव्यन्ते, एवं मिष्टस्यावकाशो भविष्यतीति कणकुण्डकमण्डकादीन्यपि खइयाणि, तेहिं सूलेण मओ, अमच्चेण वमणविरेयणाणि कयाणि, सो आभागी भोगाण जाओ, इयरो विणहो । चिकित्सा मतिविभ्रमः, युक्त्यागमोपपन्नेऽप्यर्थे फलं प्रति सम्मोहः, किमस्य महतस्तपःक्लेशायासस्य सिकताकणकवलनादेरायत्यां मम फलसम्पद् भविष्यति किं वा नेति, उभययेह क्रियाः फलवत्यो निष्फलाश्च दृश्यन्ते कृषीवलानां, न चेयं शङ्कातो न भिद्यते इत्याशङ्कनीयं, शङ्का हि सकलासकलपदार्थभाक्त्वेन द्रव्यगुणविषया इयं तु क्रियाविषयैव, तत्त्वतस्तु सर्व एते प्रायो मिथ्यात्वमोहनीयोदयतो भवन्तो जीवपरिणामविशेषाः सम्यक्त्वातिचारा उच्यन्ते, न सूक्ष्मेक्षिकाऽत्र कार्येति, इयमपि न कार्या, यतः सर्वज्ञोक्तकुशलानुष्ठानाद् भवत्येव फलप्राप्तिरिति, अत्र चौरोदाहरणं-सावगो नंदीसरवरगमणं दिवगंधाणं(त) देवसंघरिसेण मित्तस्स पुच्छणं विजाए दाणं साहणं मसाणे चउप्पायं सिक्कगं, हेहा इंगाला खायरो य सूलो, अट्ठसयं वारा परिजवित्ता पाओ सिकगस्स छिज्जइ एवं वितिओ तइए चउत्थे य छिपणे आगाणं वचति, तेण विजा गहिया, किण्हचउद्दसिरत्तिं साहेइ मसाणे, चोरो य नगरारक्खिएहिं परिरन्भमाणो तत्थेव अतियओ, ताहे वेढेउं सुसाणे ठिया खादितानि, तैः शूलेन मृतः, अमारयेन वमनविरेचनानि कृतानि, स भोगानामाभागी जातः, इतरो विनष्टः । २ चौरोदाहरणं श्रावको नन्दीश्वरवरगमनं देवसंघर्षेण दिव्यगन्धः मित्रस्य पृच्छा विद्याया दानं साधनं श्मशाने चतुष्पादं सिक्कमधस्तातू अङ्गाराः खादिरश्च स्तम्भः अष्टशतं वारान् परिजप्य पादःसिककस्य छेद्यते एवं द्वितीयः तृतीये चतुर्थ च छिन् आकाशेन गम्यते, तेन विद्या गृहीता, कृष्ण चतुर्दशीरात्रौ साधयति इमशाने, चौरव नगरारक्ष के रुभ्यमानस्तत्रैवातिगतस्तदा वेष्टयित्वा श्मशानं (ते) स्थिताः Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260