Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami,
Publisher: Bherulal Kanhiyalal Kothari Religious Trust
View full book text ________________
वतेयति.
26 आवश्यकहारिभद्रीया व्याख्या--आतोद्यानि-मृदङ्गादीनि नृत्तं-करचरणनयनादिपरिस्पन्दविशेषलक्षणम् आतोद्यैः करणभूतैर्नृत्तम् आतो. धनृत्तं तस्मिन् कुशला-निपुणा आतोद्यनृत्तकुशला, असावपि नर्तकी, अपिशब्दात् रङ्गजनपरिश्ताऽपि 'तं जन' रङ्गजनं 'न तोषयति' न हर्ष नयतीत्यर्थः, किम्भूता सती ?-'योगमयुञ्जन्ती' कायादिव्यापारमकुर्वती, ततश्चापरितुष्टाद् रङ्गजनान्न किञ्चिद् द्रव्यजातं लभत इति गम्यते, अपि तु निन्दा खिंसां च सा लभते रङ्गजनादिति, तत्समक्षमेव या हीलना सा निन्दा, परोशे तु मा खिंसेति गाथार्थः ॥ ११४४ ॥ इत्थं दृष्टान्तमभिधाय दार्शन्तिकयोजनां प्रदर्शयन्नाहइय लिंगनाणसहिओ काइयजोगं न जुजई जो उन लहइ स मुक्खसुक्खं लहह य निंदं सपक्खाओ ॥११४५॥ ___व्याख्या--'इय' एवं लिङ्गज्ञानाभ्यां सहितो-युक्तो लिङ्गज्ञानसहितः 'काययोगं कायव्यापारं 'न युङ्क' न प्रव यस्तु 'न लभते' न मानोति 'स' इत्थम्भूतः किं ?-'मोक्षसौख्यं' सिद्धिसुखमित्यर्थः, लभते तु निन्दा स्वपक्षात्, चशब्दाखिसां च, इह च नर्तकीतुल्यः साधुः, आतोद्यतुल्यं द्रव्यलिङ्गं, नृत्तज्ञानतुल्यं ज्ञानं, योगव्यापारतुल्यं चरणं, रङ्गपरितोषतुल्यः सङ्घपरिनोपः, दानलाभतुल्यः सिद्धिसुखलाभः, शेष सुगम, यत एवमतो ज्ञानचरणसहितस्यैव कृतिकर्म कार्यमिति गाथाभावार्थः ॥ ११४५॥ चरणरहितं ज्ञानमकिञ्चित्करमित्यस्याथेस्य साधका बहवो दृष्टान्ताः सन्तीति प्रदशेनाय पुनरपि दृष्टान्तमाह--
जाणतोऽवि य तरि काइयजोगं न जुंजइ नईए । सो वुज्झइ सोएणं एवं नाणी चरणहीणो ॥११४६ ॥ व्याख्या-जानन्नपि च तरीतुं यः 'काययोग' कायव्यापार न युङ्क्ते नद्यां स पुमान् 'उह्यते' हियते 'श्रोतसा' पय:प्रवाहेण, एवं ज्ञानी चरणहीनः संसारनद्यां प्रमादश्रोतसोह्यत इत्युपनयः, तस्माचरणविकलस्य ज्ञानस्याकिञ्चित्करत्वादुभययुक्तस्यैव कृतिकर्म कार्यमिति गाथाभिप्रायार्थः ॥ ११४६ ॥ एवमसहायज्ञानपक्षे निराकृते ज्ञानचरणोभयपक्षे च समर्थिते सत्यपरस्त्वाह
गुणाहिए चंदणयं छउमत्थो गुणागुणे अयाणंतो। बंदिजा गुणहीणं गुणाहियं चावि वंदावे ॥ ११४७॥ व्याख्या-इहोत्सर्गतः गुणाधिके साधौ वन्दनं कर्तव्यमिति वाक्यशेषः, अयं चार्थः श्रमणं वन्देतेत्यादिग्रस्थात्सिद्धः, गुणहीने तु प्रतिषेधः पश्चानां कृतिकर्मेत्यादिग्रन्थाद् , इदं च गुणाधिकत्वं गुणहीनत्वं च तत्त्वतो दुर्विज्ञेयम्, अतश्छमस्थ स्तत्त्वतो गुणागुणान् आत्मान्तरवर्तिनः 'अजानन्' अनवगच्छन् किं कुर्यात् !, वन्देत वा गुणहीनं कश्चित् , गुणा. धिकं चापि वन्दापयेत् , उभयथाऽपि च दोषः, एकत्रागुणानुज्ञाप्रत्ययः अन्यत्र तु विनयत्यागप्रत्ययः, तस्मात्तूष्णीभाव एव श्रेयान् , अलं वन्दनेनेति गाथाभिप्रायः॥ ११४७ ॥ इत्थं चोदकेनोक्ते सति व्यवहारनयमतमधिकृत्य गुणाधिकत्व परिज्ञानकारणानि प्रतिपादयन्नाचार्य आह___ आलएणं विहारेणं ठाणाचंकमणेण य । सक्को सुविहिओ नाउं भासावेणइएण य ॥ ११४८ ॥
व्याख्या-आलयः-वसतिः सुप्रमार्जितादिलक्षणाऽथवा स्त्रीपशुपण्डकविवर्जितेति, तेनाऽऽलयेन, नागुणवत एवं. विधः खल्वालयो भवति, विहारः-मासकल्पादिस्तेन विहारेण, स्थानम्-ऊर्ध्वस्थानं, चङ्गमणं-गमनं, स्थानं च चक्रमणं चेत्येकवद्भावस्तेन च, अविरुद्धदेशकायोत्सर्गकरणेन च युगमात्रावनिप्रलोकनपुरस्सराद्भुतगमनेन चेत्यर्थः, शक्यः सुविहितो ज्ञातुं, 'भाषावैनयिकेन च' विनय एव वैनयिक समालोच्य भाषणेन आचार्यादिविनयकरणेन चेति भावना, नैतान्येवम्भूतानि प्रायशोऽसुविहितानां भवन्तीति गाथार्थः ॥ ११४८ ॥ इत्थमभिहिते सत्याह चोदकः
आलएणं विहारेणं ठाणेचंकमणेण य । न सको सुविहिओ नाउं भासावेणइएण य ॥ ११४९ ॥ व्याख्या-आलयेन विहारेण स्थानचङ्गमणेन (स्थानेन चङ्गमणेन) चेत्यर्थः, न शक्यः सुविहितो ज्ञातुं भाषावैनयिकेन च, पदायिनृपमारकमाथुरकोइल्लादिभिर्व्यभिचारात् , तथा च प्रतीतमिदम्-असंयता अपि हीनसत्त्वा लब्ध्यादिनिमित्त संयतवच्चेष्टन्ते, संयता अपि च कारणतोऽसंयतवदिति गाथार्थः ॥ ११४९ ॥ किं च--
भरहो पसन्नचंदो सभितरवाहिरं उदाहरणं । दोसुप्पत्तिगुणकरं न तेसि यज्मं भवे करणं ॥ १९५० ॥ _ व्याख्या-भरतः प्रसन्नचन्द्रः साभ्यन्तरबाह्यमुदाहरणम् , आभ्यन्तरं भरतः, यतस्तस्य बाह्यकरणरहितस्यापि विभूषितस्यैवाऽऽदर्शकगृहप्रविष्टस्य विशिष्टभावनापरस्य केवलज्ञानमुत्पन्न, बाह्यं प्रसन्नचन्द्रः, यतस्तस्योत्कृष्टबाह्यकरणवतोप्यन्तःकरणविकलस्याधः सप्तमनरकप्रायोग्यकर्मबन्धो बभूव, तदेवं दोषोत्पत्तिगुणकरं न तयोर्भरतप्रसन्नचन्द्रयोः 'बझं भवे करणं'ति छान्दसत्वादभूत्करणं दोषोत्पत्तिकारकं भरतस्य नाभूदशोभनं बाह्यं करणं गुणकारकं प्रसन्नचन्द्रस्य नाभूच्छोभनमपीति, तस्मादान्तरमेव करणं प्रधानं, न च तदालयादिनाऽवगन्तुं शक्यते, गुणाधिके च वन्दनमुक्तमिति तूप्णीभाव एव ज्यायान् इति स्थितम्, इत्ययं गाथाभिप्रायः ॥ ११५० ॥ इत्थं तीर्थाङ्गभूतव्यवहारनयनिरपेक्ष चोदकमवगम्यान्येषां पारलौकिकापायदर्शनायाहाचार्य:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260