Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami, 
Publisher: Bherulal Kanhiyalal Kothari Religious Trust

View full book text
Previous | Next

Page 205
________________ 196 आवश्यकहारिभद्रीया तयैवातिचाराः सूक्ष्मबादरा भवन्ति न केवलात् वीर्यादिति देह एव च भवति नादेहस्य, तत्र यही रोमश्चादय आदिशब्दादुत्कम्पग्रहः 'अन्तो खेलानिलादीया' अन्तः-मध्ये श्लेष्मानिलादयो विचरन्तीत्यर्थः, इति गाथार्थः॥१५१३॥ अधुना 'सूक्ष्मदृष्टिसञ्चारैरिति सूत्रावयवं व्याख्यानयति-अवलोकनमालोकस्तस्मिन्नवलोके चलं अवलोकचलं दर्शनलालसमित्यर्थः, किं १-चक्षुः-नयनं, यतश्चैवमतो मनोवद्-अन्तःकरणमिव तच्चक्षुर्दुष्करं स्थिरं कर्तुं, न शक्यत इत्यर्थः, यतो रूपैस्तदाक्षिप्यते स्वभावतो वा-स्वभावेन वा नैसर्गिकेण स्वयं चलति, आत्मनैव चलतीति गाथार्थः॥१५१४॥ यस्मादेवं तस्मात् न करोति निमेष(रोध)यतं कायोत्सर्गकारी, किमिति ?,-'तत्थुवओगे ण झाण झाएज'त्ति तत्र-निर्निमेषयत्ने य उपयोगस्तेन सता मा न ध्यानं ध्यायेत् अभिप्रेतमिति, 'एगनिसं तु पवन्नो झायइ साहू अणि मिसच्छोऽवि' एकरात्रिकी तु प्रतिमा प्रतिपन्नो महासत्त्वोध्यायति समर्थः अनिमेषाक्षोऽपि-अनिमिषे अक्षिणी यस्य सः अनिमिषाक्षः निश्चलनयन इति गाथार्थः ॥१५१५॥अधुना एवमादिभिराकाररित्यादिसूत्रावयवव्याचिख्यासयाह-'अगणि'त्ति यदा ज्योतिः स्पृशति तदा प्रावर. णाय कल्पग्रहणं कुर्वतो न कायोत्सर्गभङ्गः, आह-नमस्कारमेवाभिधाय किमिति तद्ग्रहणं न करोति ? येन तद्भङ्गो न भवति, उच्यते, नात्र नमस्कारपारणमेवाविशिष्टं कायोत्सर्गमानं क्रियते, किं तु यो यत्परिमाणो यत्र कायोत्सर्ग उक्तस्तत ऊर्ध्व परिसमाप्तेऽपि तस्मिन्नमस्कारमपठतो भङ्ग इत्यादि, अपरिसमाप्तेऽपि च पठतो भङ्ग एव, स चात्र न भवतीति, एवं सर्वत्र भावनीयं, छिंदिज वत्ति मार्जारीमूषकादिभिर्वा पुरतो यायात् , अत्राप्यग्रतः सरतो न कायोसर्गभङ्गः, 'बोहियखोभाई'त्ति बोधिकाः-स्तेनकास्तेभ्यः क्षोभः-संभ्रमः, आदिशब्दाद्राजादिक्षोभः परिगृह्यते, तत्रास्थानेऽप्युच्चारयतो(ऽनुच्चारयतो)वा न कायोत्सर्गभङ्गो 'दीहडको वेति सर्पदष्टे चात्मनि परे वा सहसा-अकाण्ड एवोच्चारयतः, तथैव आक्रियन्त इत्याकारास्तैराकारैरभन्नः स्यात् कायोत्सर्ग एवमादिभिरिति गाथार्थः ॥ १५१६ ॥ अधुनौघतः कायोत्सर्गविधिप्रतिपादनायाहते पुण ससूरिए चिय पासवणुचारकालभूमीओ । पेहित्ता अथमिए ठंतुस्सगं सए ठाणे ॥ १५१७ ॥ जइ पुण निव्वाघाए आवासं तो करिंति सब्वेवि । सड्ढाइकहणवाघाययाइ पच्छा गुरू ठति ॥ १५१८॥ सेसा उ जहासत्तिं आपुछित्ताण ठंति सहाणे । सुत्तत्थसरणहेउं आयरिऍ ठियंमि देवसियं ॥ १५१९ ॥ जो हुन्ज उ असमत्थो बालो वुड्डो गिलाण परितंतो। सो विकहाइविरहिओ झाइज्जा जा गुरू ठति ।। १५२० ॥ जा देवसिअं दुगुणं चिंतइ गुरू अहिंडओऽचिटुं । बहुवावारा इअरे एगगुणं ताव चिंतति ॥ १५२१ ॥ वरयाण व चिद्रं नाऊण गरू बहं बहविही। कालेण तदचिएणं पारेई थोवचिद्योऽवि ॥ (०१)॥ नमुक्कारचउवीसगकिइकम्मालोअणं पडिकमणं । किइकम्मदुरालोइअ दुप्पडिकंते य उस्सग्गो ॥ १५२२ ॥ एस चरित्तुस्सग्गो दंसणसुद्धी तइयओ होइ । सुअनाणस्स चउत्थो सिद्धाण थुई अ किइकम्मं ॥ १५२३ ॥ व्याख्या-ते पुनः-कायोत्सर्गकर्तारः ससूर्य एव दिवसे प्रश्रवणोच्चारकालभूमयः (मीः) प्रत्युपेक्षन्ते, द्वादश प्रश्रवणभूमयः आलयपरिभोगान्तः षट् पट् बहिः, एवमुच्चारभूमयो द्वादश, प्रमाणं चासां तिर्यग् जघन्येन हस्तमात्रमधश्चत्वार्या त् अचंतन, उत्कृष्टतस्तु स्थण्डिलं द्वादश योजनमानं,न च तेनेहाधिकारः, तिम्रस्तु कालभूमय:यावच्चैनमन्यं च श्रमणयोगं कुर्वन्ति कालवेलायां तावत् प्रायसोऽस्तमुपयात्येव सविता ततश्च 'अत्धमिए ठंति उस्सग्गं सए ठाणे'त्ति उक्तमन्यथा यस्य यदैव व्यापारपरिसमाप्तिर्भवति स तदैव सामयिकं कृत्वा तिष्ठतीति गाथार्थः ॥१५१७॥ अयं च विधिः केनचित् कारणान्तरेण गुरोर्व्याघाते सति। 'जइ पुण निवाघाओ' व्याख्या-यदि पुनर्नियाघात एव सर्वेपामावश्यक-प्रतिक्रमणं ततः कुर्वन्ति सर्वेऽपि सहैव गुरुणा 'सडादिकहणवाघाते पच्छा गुरू ठतित्ति निगदसिद्धमिति गाथार्थः ॥ १५१८ ॥ यदा च पश्चाद् गुरवस्तिष्ठन्ति तदा-'सेसा उ जहासत्ती' गाहा व्याख्या-शेषास्तु साधवो यथाशक्ति-शत्त्यनुरूपं यो हि यावन्तं कालं स्थातुं समर्थः 'आपुछित्ता गुरू ठंति सहाणे सामायिक काऊण, किंनिमित्तं ?-'सुत्तस्थसरणहे' सूत्रार्थस्मरणनिमित्तं-'आयरिए ठियमि देवसिय आयरिए पुरओ ठिए तस्स सामाइयावसाणे देवसियं अइ. यारं चिंतेंति, अण्णे भणंति-जाहे आयरिओ सामाइयं कड्डइ ताहे तेवि तयट्ठिया चेव सामाइयसुत्तमणुपेहंति गुरुणा सह पच्छा देवसियंति गाथार्थः ॥ १५१९ ॥ शेषाश्च यथा शक्तिरित्युक्तं, यस्य कायोत्सर्गेण स्थातुं शक्तिरेव नास्ति स किं कुर्यादिति तद्गतं विधिमभिधित्सुराह-'जो हुज उ असमत्थी' गाहा व्याख्या-यः कश्चित् साधु वेदसमर्थः कायो किंभूत इत्याह-बालो वृद्धो ग्लानः 'परितंतो'त्ति परिश्रान्तो गुरुवैयावृत्यकरणादिना असावपि विकथादिविरहितः सन् ध्यायेत् सूत्रार्थ 'जा गुरू ठंति'त्ति यावद् गुरवस्तिष्ठन्ति कायोत्सर्गमिति गाथार्थः॥ १५२०॥ मापूच्छय गुरून् तिष्ठन्ति स्वस्थाने सामायिकं कृत्वा, किंनिमित्तं , सूत्रार्थस्मरणाहता आचार्य स्थिते देवसिक-आचार्य पुरतः स्थिते तस्य सामायिकावसाने देवसिकमतिचारं चिन्तयन्ति, अन्ये भणन्ति-यदाऽऽचार्याः सामायिकं कथयन्ति तदा तेऽपि तदवस्थिता एवं सामायिकसूत्रमनुप्रेक्षन्ते गुरुणा सह पबावसिक Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260