Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami,
Publisher: Bherulal Kanhiyalal Kothari Religious Trust
View full book text ________________
__
199
आवश्यकहारिभद्रीया श्रुतधर्मस्य प्रोच्यते-'तमतिमिरपडलविद्धंसणस्स सुरगणे'त्यादि, तमः-अज्ञानं तदेव तिमिरं अथवा तमः-वद्धस्पृष्टनिधत्तं ज्ञानावरणीयं निकाचितं तिमिरं तस्य पटलं-वृन्दं तमस्तिमिरपटलं तद् विध्वंसयति नाशयतीति तमस्तिमिरपटलविध्वंसनः तस्य, तथा चाज्ञाननिरासेनैवास्य प्रवृत्तिः, तथा सुरगणनरेन्द्रमहितस्य, तथा चागममहिमानं कुर्वन्त्येव सुरादयः, तथा सीमां-मर्यादां धारयतीति सीमाधरः, सीम्नि वा धारयतीति तस्येति,द्वितीयार्थे षष्ठी-तं वन्दे, तस्य वा यत् माहात्म्यं तद् बन्दे, अथवा तस्य वन्द इति वन्दनं करोमि, तथाहि-आगमवन्त एव मर्यादां धारयन्ति, किंभूतस्य ?-प्रकर्षण स्फोटितं मोहजालं-मिथ्यात्वादि येन स तथोच्यते तस्य, तथा चास्मिन् सति विवेकिनो मोहजालं विलयमुपयात्येव, इत्थं श्रुतधर्ममभिवन्धाधुना तस्यैव गुणोपदर्शनद्वारेण प्रमादागोचरतां प्रतिपादयन्नाह-जाईजरामरणे'त्यादि, जातिः-उत्पत्तिः जरा-वयोहानिः मरणं-प्राणत्यागः शोकः-मानसो दुःख विशेषः, जातिश्च जराच मरणं च शोकधेति द्वन्द्वः, जातिजरामरणशोकान् प्रणाशयति-अपनयति जातिजरामरणशोकप्रणाशनस्तस्य, तथा च श्रुतधर्मोकानुछानाजात्यादयः प्रणश्यन्त्येव, अनेन चास्यानर्थप्रतिघातित्वमाह, कल्यम्-आरोग्यं कल्यमणतीति कल्याण, कल्यं शब्दयतीत्यर्थः, पुष्कलं-सम्पूर्ण न च तदल्पं किं तु विशालं-विस्तीर्ण सुखं-प्रतीतं कल्याणं पुष्कलं विशालं सुखमावहतिप्रापयतीति कल्याणपुष्कलविशालसुखावहस्तस्य, तथा च श्रुतधर्मोक्तानुष्ठानादुक्तलक्षणमपवर्गसुखमवाप्यत एव, अनेन 'पास्य विशिष्टार्थप्रसाधकत्वमाह, कम्प्राणी देवदानवनरेन्द्रगणार्चितस्य श्रुतधर्मस्य सार-सामर्थ्यमुपलभ्य-दृष्ट्वा विज्ञाय कुर्यात् प्रमाद सचेतननः? चारित्रधर्मे प्रमादः कर्तुं न युक्त इति हृदयम् , आह-सुरगणनरेन्द्रमहितस्येत्युक्तं पुनर्देवदानवनरेन्द्रगणार्षितस्येति किमर्थमिति ?, अत्रोच्यते, तन्निगमनत्वाददोषः, तस्यैवंगुणस्य धर्मस्य सारमुपलभ्य कासकर्णः प्रमादी भवेच्चारित्रधर्म इति, यतश्चैवमतः 'सिद्धे भोपयओनमो जिणमये इत्यादि, सिद्धे-प्रतिष्ठिते प्रख्याते भो इत्येतदतिशयिनामामन्त्रणं पश्यन्तु भवन्तः प्रयतोऽहं-यथाशक्त्योद्यतःप्रकर्षेण यतः, इत्थं परसाक्षिकं भू(कृत्वा पुनर्नमस्करोति-नमो जिनमते' अर्थाद विभक्तिपरिणामो नमो जिनमताय, तथा चास्मिन् सति जिनमते नन्दिः-समृद्धिः सदा-सर्वकालं, क ?-संयमे-चारित्रे, यथोक्तं- पढम णाणं तओ दये'त्यादि, किंभूते संयमे ?-देवनागसुवर्णकिन्नरगणैः सद्भूतभावेनार्चिते, तथा च संयमवन्तः अर्यन्त एव देवादिभिः, किंभूते जिनमते ?-लोक्यतेऽनेनेति लोकः-ज्ञानमेव स यत्र प्रतिष्ठितः, तथा जगदिदं ज्ञेयतया, केचित् मनुष्यलोकमेव जगत् मन्यन्ते इत्यत आह-त्रैलोक्यमनुष्यासुरं, आधाराधेयरूपमित्यर्थः, अयमित्थंभूता श्रुतधर्मो वर्द्धतां-वृद्धिमुपयातु शाश्वत:-द्रव्यार्थादेशान्नित्यः, तथा चोक्तं-'द्रव्यार्थादेशात् इत्येषा द्वादशाङ्गी न कदाचिद नासीदि'त्यादि, अन्ये पठन्ति-धर्मों वर्द्धतां शाश्वतं इति, अस्मिन् पक्षे क्रियाविशेषणमेतत् , शाश्वतं वद्धतां अप्रच्युत्येति भावना, विजयतां कर्मपरप्रवादिविजयेनेति हृदयं, तथा धर्मोत्तरं-चारित्रधर्मोत्तरं वर्द्धतु, पुनर्वृद्ध्यभिधानं मोक्षार्थिना प्रत्यहं ज्ञानवृद्धिः कार्येति प्रदर्शनार्थ, तथा च तीर्थकरनामकर्महेतून् प्रतिपादयतोतं-"अप्पुषणाणगणे"त्ति, 'मुयस्स भगवओ करेमि काउरसग्गं वंदणवत्तियाए' इत्यादि प्रागवत्, यावद्वोसिरामि । एयं सुत्तं पढित्ता पणुवीसुस्सासमेव काउस्सग्गं करेमि, आह च-'सुयणाणस्स चउत्थोत्ति, तओ नमोकारेण पारिता विसुद्धचरणदसणसुयाइयारा मंगलनिमित्तं चरणदंसणसुयदेसगाणं सिद्धाणं थुई कट्ठति, भणियं च-सिद्धाण थुई यत्ति, सा चेयं स्तुतिः
सिद्धाणं वुद्धाणं पारगयाणं परंपरगयाणं । लोयग्गमुवगयाणं नमो सया सव्वसिद्धाणं ॥१॥जो देवाणवि देवो जं देवा पंजली नमसंति । तं देवदेवमहिअं सिरसा वंदे महावीरं ॥२॥ इक्कोऽवि नमुकारो जिणवरवसहस्स बद्धमाणस्स । संसारसागराओ तारेइ नरं व नारिं वा ॥ ३ ॥ उजिंतसेलसिहरे दिक्खा नाणं निसीहिआ जस्स । तं धम्मचकवहिं अरिहनेमि नमसामि ॥ ४॥ चत्तारि अट्ठ दस दो य वंदिआ जिणवरा चउव्वीसं । परमनिटिअट्ठा सिद्धा सिद्धिं मम दिसंतु॥५॥ (सूत्रं) .
अस्य व्याख्या-सितं मातमेषामिति सिद्धा निर्दग्धकर्मेन्धना इत्यर्थस्तेभ्यः सिद्धेभ्यः, ते च सामान्यतो विद्यासिद्धा अपि भवन्त्यत आह-बुद्धेभ्यः, तत्रावगताशेषाविपरीततत्त्वा बुद्धा उच्यन्ते, तत्र कैश्चित् स्वतन्त्रतयैव तेऽपि स्वतीर्थोज्ज्वलनाय इहागच्छन्ति इत्यभ्युपगम्यन्ते अत आह-पारगतेभ्यः' पारं-पर्यन्तं संसारस्य प्रयोजनवातस्य च गताः पारगताः तेभ्यः, तेऽपि चानादिसिद्धैकजगत्पतीच्छावशात् कैश्चित् तथाऽभ्युपगम्यन्ते अत आह-'परम्परगतेभ्यः परम्परया एकेनाभिव्यतार्थादागमात् (कश्चित्) प्रवृत्तोऽन्येनाभिव्यक्तादर्थादन्योऽन्येनाप्यन्य इत्येवंभूतया गताः परंपरगतास्तेभ्यः, आह-प्रथमएव केनाभिव्यक्तार्थादागमात् प्रवृत्त इति ?, उच्यते, अनादित्वात् सिद्धानां प्रथमत्वानुपपत्तिरिति, अथवा कथञ्चित् कर्मक्षयोपशमात् दर्शनं दर्शनात् ज्ञानं ज्ञानाचारित्रमित्येवंभूतया परम्परया गतास्तेभ्यः, तेऽपि च कैश्चित् सर्वलोकापन्ना
आह-'लोकाग्रमुपगतेभ्यः' लोकाग्रम्-ईषत्माग्भाराख्यं तमुपगताः तेभ्यः, आह-कथं पुनरिह सकलकर्मविप्रमुक्तानां लोकायं यावद्गतिर्भवति !, भावे वा सर्वदैव कस्मान्न भवतीति !, अत्रोच्यते, पूर्वावेधवशाद् दण्डादिच
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260