Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami, 
Publisher: Bherulal Kanhiyalal Kothari Religious Trust

View full book text
Previous | Next

Page 204
________________ 195 आवश्यकहारिभद्रीया इत्थं(द) गाथायुगलं यथा सामायिकाध्ययने व्याख्यातं तथैव द्रष्टव्यमिति, साम्प्रतं 'तस्योत्तरीकरणेने ति सूत्रावयवं विवृण्वन्नाहखंडियविराहियाणं मूलगुणाणं सउत्तरगुणाणं । उत्तरकरणं कीरइ जह सगडरहंगगेहाणं ॥ १५०७ ॥ पावं छिंदइ जम्हा पायच्छित्तं तु भन्नई तेणं । पाएण वावि चित्तं विसोहए तेण पच्छित्तं ॥ १५०८ ॥ दवे भावे य दुहा सोही सलं च इक्कमिकं तु । सव्वं पावं कम्मं भामिजइ जेण संसारे ॥ १५०९॥ व्याख्या-'खण्डितविराधितानां' खण्डिताः-सर्वथा भग्ना विराधिताः-देशतो भग्ना मूलगुणानां-प्राणातिपातादिविनिवृत्तिरूपाणां सह उत्तरगुणैः-पिण्डविशुध्ध्यादिभिर्वर्त्तत इति सोत्तरगुणास्तेषामुत्तरकरणं क्रियते, आलोचनादिना पुन: संस्करणमित्यर्थः, दृष्टान्तमाह-यथा शकटरथाङ्गगेहानां-गन्त्रीचक्रगृहाणामित्यर्थः, तथा च शकटानां खण्डितविराधितानां अक्षावलकादिनोत्तरकरणं क्रियत इति गाथार्थः ।। १५०७॥ अधुना 'प्रायश्चित्तकरणेने ति सूत्रावयव व्याचिख्यासुराह-पावं' गाहा, व्याख्या-पाप-कर्मोच्यते तत् पापं छिनत्ति यस्मात् कारणात् प्राकृतशैल्या'पायच्छित्तंति भण्यते, तेन कारणेन, संस्कृते तु पापं छिनत्तीति पापच्छिदुच्यते, प्रायसो वा चित्तं-जीवं शोधयति-कर्ममलिनं विमलीकरोति तेन कारणेन प्रायश्चित्तमुच्यते, प्रायो वा-बाहुल्येन चित्तं स्वेन स्वरूपेण अस्मिन् सतीति प्रायश्चित्तं, प्रायोग्रहणं संवरादेरपि तथाविधचित्तसद्भावादिति गाथार्थः ॥१५०८॥ अधुना 'विशोधिकरणे'त्यादिसूत्रावयवव्याचिख्यासयाऽऽह-'दधे भावे य दुहा सोही' गाहा-द्रव्यतो भावतश्च द्विविधा विशुद्धिः, शल्यं च, 'एकमेकं तु'त्ति एकैकं शुद्धिरपि द्रव्यभावभेदेन द्विधा, शल्यमपीत्यर्थः । तत्र द्रव्यशुद्धिः रूपादिना वस्त्रादेर्भावशुद्धिः प्रायश्चित्तादिनाऽऽत्मन एव, द्रव्यशल्यं कण्टकशिलीमुखफलादि, भावशल्यं तु मायादि, सर्व ज्ञानावरणीयादि कर्म पापं वर्तते, किमिति ?-भ्राम्यते येन कारणेन तेन कर्मणा जीवः संसारे-तिर्यग्नारकामरभवानुभवलक्षणे, तथा च दग्धरजुकल्पेन भवोपग्राहिणाऽल्पेनापि सता केवलिनोऽपि न मुक्तिमासादयन्तीति दारुणं संसारभ्रमणनिमित्तं कर्मेति गाथार्थः ॥ १५०९ ॥ साम्प्रतम् 'अन्यत्रोच्छ्रसितेने'त्यवयवं विवृणोतिउस्सासं न निरंभइ आभिग्गहिओवि किमुअचिट्ठा उ?। सजमरणं निरोहे सुहुमुस्सासंतु जयणाए॥१५१०॥ कासखुअजंभिए माहु सत्थमणिलोऽनिलस्स तिव्वुहो। असमाहीय निरोहे मा मसगाई अतो हत्थो॥१५११॥ वायनिसरगुड्डोए जयणासहस्स नेव य निरोहो । उड्डोए वा हत्थो भमलीमुच्छासु अ निवेसो ॥१५१२ ॥ वीरियसजोगयाए संचारा सुहुमबायरा देहे । बाहिं रोमंचाई अंतो खेलाणिलाईया ॥ १५१३ ॥ आ(अव)लोअचलं चक्खू मणुव्व तं दुक्करं थिरं काउं । स्वेहि तयं खिप्पइ सभावओ वा सयं चलइ ॥१५१४ ॥ न कुणइ निमेसजुत्तं तत्थुवओगेण झाण झाइजा। एगनिसिं तु पवन्नो झायइ साहू अणिमिसच्छोऽवि ॥१५१५॥ अगणीओ छिदिज्ज व बोहियखोभाइ दीहडको वा । आगारहिं अभग्गो उस्सग्गो एवमाइहिं ॥१५१ ऊर्ध्व प्रबलः श्वास उच्छासः तं 'न निरंभई'त्ति न निरुणद्धि, 'आभिग्गहिओवि' अभिगृह्यत इति अभिग्रहः अभिग्रहेण निवृत्त आभिग्रहिकः-कायोत्सर्गस्तदव्यतिरेकात् तत्कर्ताऽप्याभिग्रहिको भण्यते, असावप्यभिभवकायोत्सर्गकार्यपीत्यर्थः, 'किमुत चेट्ठा उत्ति किं पुनश्चेष्टाकायोत्सर्गकारी, स तु सुतरां न निरुणद्धि इत्यर्थः, किमित्यत आह-सज्जमरणं निरोहे'त्ति सद्योमरणं निरोधे उच्छृासस्य, ततश्च 'सुहुमुस्सासं तु जयणाए'त्ति सूक्ष्मोच्छासमेव यतनया मुञ्चति, नोल्त्रणं, मा भूत् सत्त्वयात इति गाथार्थः ॥ १५१० ॥ अधुना 'कासिते'त्यादिसूत्रार्थप्रचिकटिषयेदमाह-कासखुयजंभिए' गाहा व्याख्या-इह कायोत्सर्गे कासक्षुतजृम्भितादीनि यतनया क्रियन्ते, किमिति ?-'मा हु सत्थमणिलोऽणिलस्स तिषुण्हो'त्ति मा शस्त्रं भविष्यति कासितादिसमुद्भवोऽनिलो-वायुरनिलस्य-बाह्यस्य वायोः, किंभूतः?-तीव्रोष्णः, बाह्यानिलापेक्षया अत्युष्ण इत्यर्थः । न च न क्रियन्ते न च निरुध्यन्त एव न 'असमाही य निरोहे'त्ति (सर्वथारोधे) असमाधिश्च चशब्दात् मरणमपि सम्भाव्यते कासितादिनिरोधे सति, 'मा मसगाईत्ति मा मसकादयश्च कासितादिसमुद्भवपवनश्लेमाभिहतामरिष्यन्ति जृम्भिते च वदनप्रवेशं करिष्यन्ति ततो हस्तोऽग्रतो दीयत इति यतनेयमिति गाथार्थः ॥१५११॥ आह-निःश्वसितेनेति सूत्रावयवो न व्याख्यायते इति किमत्र कारणम् ?, उच्यते, उच्छृसितेन तुल्ययोगक्षेमत्वादिति, इदानीम् 'उद्गारितेने'त्यादिसूत्रावयवव्याचिख्यासयाऽऽह-वातनिसर्ग:-उक्तस्वरूप उद्गारोऽपि, तत्रायं विधिः-यतना शब्दस्य क्रियते न निसृष्टं मुच्यत इति, 'नेव य निरोहोत्ति नैव च निरोधः क्रियते, असमाधिभावादेव, उद्गारे वा हस्तोऽन्तरे दीयत इति 'भमलीमच्छासु य निवेसो' मा सहसापतितस्यात्मविराधना भविष्यतीति गाथार्थः॥ १५१२॥ साम्प्रतं 'सूक्ष्मैरङ्गसञ्चारै रित्यादिसूत्रावयवव्याचिख्यासयाऽऽह-वीर्यसयोगतया कारणेन संचाराः सूक्ष्मबादरा देहे अवश्यंभाविनो, वीर्य वीर्यान्तरायक्षयोपशमक्षयजं खल्वात्मपरिणामो भण्यते योगास्तु-मनोवाक्कायास्तत्र वीर्यसयोग Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260