Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami,
Publisher: Bherulal Kanhiyalal Kothari Religious Trust
View full book text ________________
आवश्यकहारिभद्रीया
188 अढविहंपि य कम्मं अरिभूयं तेण तज्जयट्ठाए । अभुठिया उ तवसंजमंमि कुवंति निग्गंथा ॥ १४५६ ॥ तस्स कसाया चत्तारि नायगा कम्मसत्तुसिन्नस्स । काउस्सग्गमभग्गं करंति तो तज्जयहाए ॥ १४५७ ॥ संवच्छरमुक्कोसं अंतमुहुत्तं च (त) अभिभवुस्सग्गे । चिट्ठाउस्सग्गस्स उ कालपमाणं उवरि वुच्छं ॥ १४५८ ॥
'इयरहवि ता ण' इतरथापि-सामान्यकार्येऽपि तावत् कचिदनवस्थानादौ न युज्यतेऽभियोगः कस्यचित् कर्त, 'किं पुणाइ उस्सग्गे' किं पुनः कायोत्सर्गे कर्मक्षयाय क्रियमाणे?, स हि सुतरां गर्वरहितेन कार्यः, अभियोगश्च गर्यो वर्तते, नन्वित्यसूयायां गर्वेण-अभियोगेन परपुरं-शत्रुनगरमभिरुध्यते, यथा तद्गर्वकरणमसाधु एवमेतदपि कायोत्सर्गाभियोजनमशोभनमेवेति गाथार्थः ॥ एवं चोदकेनोक्ते सत्याहाचार्यः-'मोहपयडीभयं' मोहप्रकृतौ भयं २ अथवा मोहप्रकृतिश्चासौ भयं चेति समासः, मोहनीयकर्मभेद इत्यर्थः, तथाहि-हास्यरत्यरतिभयशोकजुगुप्साषट्कं
तया प्रतीतं, तत अभिभवत अभिभूय यः कश्चित करोति कायोत्सर्ग तुशब्दो विशेषणार्थः नान्यं कञ्चन बाह्यमभिभूयेति, 'भयकारणे तु तिविहे' बाह्य भयकारणे त्रिविधे द्रव्यमनुष्यतिर्यग्भेदभिन्ने सति तस्य नाभिभवः, अथेत्थंभूतोऽप्यभियोग इत्यत्रोच्यते-'नेव पडिसेहो' इत्थंभूतस्याभियोगस्य नैव प्रतिषेध इति गाथार्थः ॥१४५४॥ किन्तु'आगारेऊण परं 'आगारेऊण'त्ति आकार्य रे रे व यास्यसि इदानीं एवं परम्-अन्य कञ्चन 'रणेब' संग्रामे इव यदि स कुर्यात् कायोत्सर्ग युज्येत अभिभवः, तदभावे-पराभिभवाभावेऽभिभवः कस्य ?, न कस्यचिदिति गाथार्थः ॥१४५५ ॥ तत्रैतत् स्यात्-भयमपि कर्मीशो वर्त्तते, कर्मणोऽपि चाभिभवः खल्वेकान्तेन नैव कार्य इत्येतच्चायुक्तम्, यतः'अठविहंपि य कम्म' अष्टविध-अष्टप्रकारमपि, चशब्दो विशेषणार्थः तस्य च व्यवहितः सम्बन्धः, अट्ठविहंपि य कम्म अरिभूतं च, ततश्चायमर्थः-यस्मात् ज्ञानावरणीयादि अरिभूतं-शत्रुभूतं वर्तते भवनिबन्धनत्वाच्चशब्दादचेतनं च तेन कारणेन तज्जयार्थ-कर्मजयनिमित्तं 'अब्भुठिया उत्ति आभिमुख्येन उत्थिता एव एकान्तगर्वविकला अपि तपो द्वादशप्रकारं संयमं च सप्तदशप्रकारं कुर्वन्ति निर्ग्रन्थाः-साधव इत्यतः कर्मक्षयार्थमेव तदभिभवनाय कायोत्सर्गः | कार्य एवेति गाथार्थः ॥ १४५६ ॥ तथा चाह-तस्स कसाया इति 'तस्य' प्रक्रान्तशत्रुसैन्यस्य कषायाः प्राग्निरूपितशब्दार्थाश्चत्वारः क्रोधादयो नायकाः-प्रधानाः, 'काउस्सग्गमभग्गं करेंति तो तजयहाए'त्ति काउस्सग्गअभिभवकायोत्सर्ग अभग्नं-अपीडितं कुर्वन्ति साधवस्ततस्तज्जयार्थ-कर्मजयनिमित्तं तपःसंयमवदिति गाथार्थः ॥ १४५७ ॥ गतं मूलद्वारगाथायां विधानमार्गणाद्वारम्, अधुना कालपरिमाणद्वारावसरः, तत्रेयं गाथासंवत्सरमुत्कृष्ट कालप्रमाणं, तथा च बाहुबलिना संवत्सरं कायोत्सर्गः कृत इति, 'अन्तोमुहुत्तं च' अभिभवकायोत्सर्गे अन्त्यं-जघन्यं कालपरिमाणं, चेष्टाकायोत्सर्गस्य तु कालपरिमाणमनेकभेदभिन्नं 'उवरि वोच्छंति उपरिष्टाद् वक्ष्याम इति गाथार्थः ॥ १४५८ ॥ उक्तं तावदोषतः कालपरिमाणद्वारं, अधुना भेदपरिमाणद्वारमधिकृत्याहउसिउस्सिओ अतह उस्सिओअउस्सियनिसन्नओ चेव। निसनुस्सिओ निसन्नो निस्सन्नगनिसन्नओचेव १४५९।। निवणुस्सिओ निवन्नो निवन्ननिवन्नगो 'अ नायव्यो । एएसिं तु पयाणं पत्तेय परूवणं बुच्छं ॥१४६०॥ उस्सिअनिसन्नग निवन्नगे य इकिकगंमि उ पयंमि। दव्वेण य भावेण य चउक्कभयणा 'उस्सिउस्सिओ उच्छितोच्छितः उत्सृतश्च उत्सृतनिषण्णश्चैव निषण्णोत्सतः निषण्णो निषण्णनिषण्णश्चैवेति गाथार्थः॥ 'निसणुस्सिओ निवन्नो' निषण्णोत्सृतः निष(व)ण्णः निषण्ण निषण्णश्च ज्ञातव्यः, एतेषांतु पदानां प्रत्येक प्ररूपणां वक्ष्य इति गाथासमासार्थः, अवयवार्थ तु उपरिष्टाद्वक्ष्यामः 'उस्सिय' उत्सृतो निषण्णः निषण्णनिषण्णेषु एकैकस्मिन्नेव पदे 'दवेण य भावेण य चउक्कभयणाउकायबा' द्रव्यत उत्सुत ऊर्द्धस्थानस्थःभावत उत्सृत धर्मध्यानशक्तध्यायी, अन्यस्त द्रव्यत उत्सत ऊर्द्धस्थानस्थः न भावतः उत्सृतः ध्यानचतुष्टयरहितः कृष्णादिलेश्यागतपरिणाम इत्यर्थः, अन्यस्तु न द्रव्यत उत्सृतः नोर्द्धस्थानस्थः भावत उत्सृतः, शुक्लध्यायी अन्यस्तु न द्रव्यतो नापि भावत इत्ययं प्रतीतार्थ एवमन्यपदचतुर्भङ्गिका अपि वक्तव्याः ॥१४५९-१४६१॥ इत्थं सामान्येन भेदपरिमाणे दर्शितेसत्याह चोदकः, ननु कार्योत्सर्गकरणे कः पुनर्गुण इत्याहाचार्यःदेहमइजड्डसुद्धी सुहदुक्खतितिक्खया अणुप्पेहा । झायइ य सुहं झाणं एयग्गो काउसग्गंमि ॥ १४६२ ॥ अंतोमुहुत्तकालं चित्तस्सेगग्गया हवइ झाणं । तं पुण अह रुदं धर्म सुकं च नायव्वं ॥ १४६३ ॥
तत्थ य दो आइल्ला झाणा संसारवडणा भणिया।
दुन्नि य विमुक्खहेऊ तेसिऽहिगारो न इयरेसिं ॥१४६४ ॥ संवरियासवदारा अव्वाबाहे अकंटए देसे । काऊण थिरं ठाणं ठिओ निसन्नो निवन्नो वा ॥ १५६५ ॥ चेयणमचेयणं वा वत्थु अवलंबिउ घणं मणसा । झायइ सुअमत्थं वा दवियं तप्पजए वावि ॥ १४६६ ॥ तस्थ उ भणिज्ज कोई झाणं जो माणसो परीणामो। तं न हव जिणदिह झाणं तिविहेवि जोगंमि ॥१४६७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260