Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami, 
Publisher: Bherulal Kanhiyalal Kothari Religious Trust

View full book text
Previous | Next

Page 200
________________ 191 भावश्यकहारिभद्रीया अटै रुदं च दुवे झायइ झाणाइं जो ठिओ संतो। एसो काउस्सग्गो दव्युसिओ भावउ निसन्नो ॥ १४८९॥ धम्मं सुक्कं च दुवे झायइ झाणाई जो निसन्नो अ । एसो काउस्सग्गो निसनुसिओ होइ नायवो ॥ १४९० ॥ धम्म सुकं च दुवे नवि झायइ नवि य अदृरुहाई। एसो काउस्सग्गो निसष्णओ होह नायव्यो ॥१४९१ ॥ अट्ट रुदं च दुवे झायइ झाणाइँ जो निसन्नो य । एसो काउस्सग्गो निसन्नगनिसन्नओ नामं ॥ १४९२ ॥ धम्म सुक्कं च दुवे झायइ झाणाइँ जो निवन्नो उ । एसो काउस्सग्गो निवनुसिओ होइ णायवो ॥ १४९३ ॥ धम्म सुकं च दुवे नवि झायइ नवि य अदृरुद्दाई। एसो काउस्सग्गो निवण्णओ होइ नायव्वो॥१४९४ ॥ अहं रुई च दुवे झायइ झाणाइँ जो निवन्नो उ । एसो काउस्सग्गो निवन्नगनिवन्नओ नाम ॥१४९५ ॥ अतरंतो उ निसन्नो करिब तहवि य सह निवन्नो उ। संबाहुवस्सए वा कारणियसहूवि य निसन्नो ॥१४९६ ॥ धर्म च शुक्लं च प्राक्प्रतिपादितस्वरूपे ते एव द्वे ध्यायति ध्याने यः कश्चित् स्थितः सन् एष कायोत्सर्ग उत्सृतोत्सृतो भवति ज्ञातव्यः. यस्मादिह शरीरमत्सतं भावोऽपि धर्मशतध्यायित्वादत्सृत एवेति गाथार्थः॥ गतः खल्वेको भेदोऽधना द्वितीयः प्रतिपाद्यते-'धम्म सुक्कं' धर्म शुक् च द्वेनापि ध्यायति नापि आर्तरौद्रे एष कायोत्सर्गो द्रव्योत्सृतो भवतीति ज्ञातव्य इति गाथार्थः ।। १४७९-१४८० ॥ आह-कस्यां पुनरवस्थायां न शुभं ध्यानं ध्यायति नाप्यशुभमिति !, अत्रोच्यते-'पयलायंत' प्रचलायमान ईषत् स्वपन्नित्यर्थः, 'सुसुत्त'त्ति सुष्टु सुप्तः स खलु नैव शुभं ध्यायति ध्यानं-धर्मशुक्ललक्षणं अशुभं वा-आत्तरौद्रलक्षणं न व्यापारितं कचिदू वस्तुनि चित्तं येन सोऽव्यापारितचित्तः जाग्रदपि एवमेव-नव शुभं ध्यायति ध्यानं नाशुभमिति गाथार्थः ॥ १४८१ ॥ किंच-'अचिरोववन्नगाणं' 'न चिरोपपन्नका अचिरोपपन्नकाः तेषामचिरोपपन्नकानामचिरजातानामित्यर्थः, मूछिताव्यक्तमत्तसुप्तानां-मूर्छितानामभिघातादिना अव्यक्तानाम्-अव्यक्तचेतसां मत्तानां मदिरादिना सुप्तानां निद्रया, इहाव्यक्तानामिति यदुक्तं तत्राव्यक्तचेतसः अव्यक्ताः, तत् पुनरव्यक्त कीदृगित्याह-ओहाडियमवत्तं च होइ पाएण चित्तं तु' 'ओहाडियन्ति स्थगितं विषादिना तिरस्कृतस्वभावं अव्यक्तं चअव्यक्तमेव चशब्दोऽवधारणे भवति प्रायश्चित्तमपि, प्रायोग्रहणादन्यथाऽपि सम्भवमाहेति गाथ तत-एवंभूतस्यापि चेतसो ध्यानताऽस्तु को विरोध इति, अत्रोच्यते, नैतदेवं, यस्मात-आलम्बने लग्नं २ गाढमालम्बने लग्नं २ एकालम्बने स्थिरतया व्यवस्थितमित्यर्थः, चित्तं-अन्तःकरणं उक्तं-भणितं, निरेजन-निष्प्रकम्पं ध्यानं, यतश्चैवमतः शेष-यदस्मादन्यत् तन्न भवति ध्यानं, किंभूतं ?-'मदुयमवत्तं भमन्तं वा' मृदु-भावनायामकठोरं अव्यक्त पूर्वोक्तं भ्रमन्वा-अनवस्थितं वेति गाथार्थः॥१४८३॥ आह-यदि मृद्वादि चित्तं ध्यानं न भवति वस्तुतः अव्यक्तत्वात् तत् कथमस्य पश्चादपि व्यक्ततेति ?, अत्रोच्यते-'उम्हासेसोवि'उष्मावशेषो मनागपि उष्णमात्र इत्यर्थः, शिखी-अग्निर्भूत्वा लब्धेन्धनः-प्राप्तकाष्ठादिः सन् पुनर्चलति, इय' एवं अव्यक्तं चित्तं मदिरादिसम्पर्कादिना भूत्वा व्यक्तं पुनर्भवत्यग्निवदिति गाथार्थः ॥ १४८४ ॥ इत्थं प्रासङ्गिक कियदप्युक्तं, अधुना प्रक्रान्तवस्तुशुद्धिः क्रियते, किंच प्रक्रान्तं?, कायिकादि त्रिविधं ध्यानं, यत उक्तं-भंगियसुयं गुणतो वट्टइ तिविहेऽवि झाणमि' इत्यादि, एवं च व्यवस्थिते 'अन्तोमुहुत्तकालं चित्तस्सेगग्गया भवति झाणं' यदुक्तमस्माद् विनेयस्य विरोधशङ्कया सम्मोहः स्यादतस्तदपनोदाय शङ्कामाह-'पुर्व च जं तदुत्त' मनु त्रिविधे ध्याने सति पूर्व यदुक्तं चित्तस्यैकाग्रता भवति ध्यानं 'अन्तोमुहत्तकालं चित्तस्सेगग्गया भवति झाणं'ति वचनात चशब्दाद्यच्च तदूर्ध्वमुक्तं-भंगियसुयं गुणतो वट्टइ तिविहेवि झाणमि' तदेतत् परस्परविरुद्धं कथयतस्त्रिविधे ध्याने सति आपन्नमनेकविषयं ध्यानमिति, तथा च मनसा किश्चिद्ध्यायति वाचाऽभिधत्ते कायेन क्रियां करोतीति अनेकाग्रता, आचार्य इदमनादृत्य सामान्येनैकाग्रं चित्तं हृदि कृत्वा काकाऽऽह-'चित्तं चिय तं न तं झाणं' यदनेकाग्रं तच्चित्तमेव न ध्यानमिति गाथार्थः॥१४८५॥ आह-उक्तन्यायादनेकाग्रं त्रिविधं ध्यानं तस्य तर्हि ध्यानत्वानुपपत्तिः, न, अभिप्रायापरिज्ञानात, तथाहि-आ०-'मणसहिएण' मनःसहितेनैव कायेन करोति, यदिति सम्बध्यते, उपयुक्तो यत् करोतीत्यर्थः, वाचा भाषते यच्च मनःसहितया, तदेव भावकरणं वर्त्तते, भावकरणं च ध्यानं, मनोरहितं तु द्रव्यकरणं भवति, ततश्चैतदुक्तं भवति-इहानेकाग्रतैव नास्ति सर्वेषामेव मनःप्रभृतीनामेकविषयत्वात् , तथाहि-स यत् मनसा ध्यायति तदेव वाचाऽभिधत्ते तत्रैव च कायक्रियेति गाथार्थः ॥१४८६॥ इत्थं प्रतिपादिते सत्यपरस्त्वाह-'जइते चित्तं झाणं'यदि ते-तव चित्तं ध्यानं 'अन्तोमुत्तकालं चित्तस्सेगग्गया हवइ झाण'ति वचनात्, एवं ध्यानमपि चित्तमापन्नं, ततश्च कायिकवाचिकध्यानासम्भव इत्यभिप्रायः, तेन किल चित्तमेव ध्यानं नान्यदिति हृदयं, अथ नैवमिष्यते-मा भूत्, कायिकवाचिके ध्यानेन भविष्यत इति, इत्थं तर्हि ध्यानमन्यत्ते-तव चित्तादिति गम्यते, यस्मानावश्यं ध्यानं चित्तमिति गाथार्थः॥१४८७॥अत्रचाचार्य आह-अभ्युपगमाददोषः, तथाहि-नियमा चित्तं झाणं' नियमात्-नियमेन उक्तलक्षणं चित्तं ध्यानमेव, 'झाणं चित्तं न यावि भइयवं' ध्यानं तु चित्तं न चाप्येवं भक्तव्य-विकल्पनीय, अत्रैवार्थे दृष्टान्तमाह-'जह खइरो होइ दुमोदुमो य खइरो Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260