Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami, 
Publisher: Bherulal Kanhiyalal Kothari Religious Trust

View full book text
Previous | Next

Page 37
________________ 28. आवश्यकहारिभद्रीया इव, अनेन तत्प्रतिपादितसकलदृष्टान्तसङ्ग्रहमाह-यथा ज्ञानपक्षे मार्गज्ञादिभिदृष्टान्तरसहायस्य ज्ञानस्यैहिकामुष्मिकफलासाधकत्वमुक्तम् , एवमत्रापि दर्शनाभिलापेन द्रष्टव्यं, दिङ्मात्रं तु प्रदर्यते-यथा 'तीक्ष्णरुचिरपि नरः' तीवनद्धोऽपि पुरुषः,क?-गन्तुं देशान्तरं देशान्तरगमन इत्यर्थः,'नयविहीनो' ज्ञानगमनक्रियालक्षणनयशून्य इत्यर्थः, प्राप्नोति न तं देशगन्तुमिष्टं तद्विषयश्रद्धायुक्तोऽपि,नययुक्त एव प्रामोति, 'इय' एवं ज्ञानचरणरहितः सम्यग्दृष्टिरपि तत्त्वश्रद्धानयुक्तोऽपि मोक्षदेश तन प्राप्नोति. नैव सम्यक्त्वप्रभावादेव, किन्त ज्ञानादिसंयुक्त एव प्रामोति, तस्मानितयं प्रधानम. अतस्त्रितययक्तस्यैव कृतिकर्म कार्य, त्रितयं चाऽऽत्मनाऽऽसेवनीयं, सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग (तत्त्वा.अ.१सू.१) इति वचनादयं गाथात्रितयार्थः॥१-२-३॥एवमपि तत्त्वे समाख्याते ये खल्वधर्मभूयिष्ठा यानि चासदालम्बनानि प्रतिपादयन्ति तदभिधित्सुराहधम्मनियत्तमईया परलोगपरम्मुहा विसयगिद्धा । चरणकरणे असत्ता सेणियरायं ववइसंति ॥ ११५७ ॥ व्याख्या-धर्म:-चारित्रधर्मः परिगृह्यते तस्मान्निवृत्तामतिर्येषां ते धर्मनिवृत्तमतयः, परम्-प्रधानो लोकः परलोको-मोक्षस्तत्पराङ्मुखाः 'विषयगृद्धा' शब्दादिविषयानुरक्ताः, ते एवम्भूताश्चरणकरणे 'अशक्ताः' असमर्थाः सन्तः श्रेणिकराज ध्यपदिशन्त्यालम्बनमिति गाथार्थः ॥ ११५७ ॥ कथं - ___ण सेणिओ आसि तया बहुस्सुओ, न यावि पन्नत्तिधरो न पायगो। सो आगमिस्साइ जिणो भविस्सइ, समिक्ख पन्नाइ वरं खु दसणं ॥ ११५८ ॥ व्याख्या-न 'श्रेणिकः' नरपतिरासीत् 'तदा' तस्मिन् काले 'बहुश्रुतः' बह्वागमः महाकल्पादिश्रुतधर इत्यर्थः, 'न चापि प्रज्ञप्ठिधरः' न चापि भगवतीवेत्ता 'न वाचकः' न पूर्वधरः, तथाऽप्यसावसहायदर्शनप्रभावादेव 'आगमिस्साए'त्ति आयत्यामागामिनि काले 'जिनो भविष्यति' तीर्थकरो भविष्यति, यतश्चैवमतः 'समीक्ष्य' दृष्टा 'प्रज्ञया' बुद्ध्या दर्शनविपाकं तीर्थकराख्यफलप्रसाधकं 'वरं खु दंसण'न्ति खुशब्दस्यावधारणार्थत्वात् वरं दर्शनमेवाङ्गीकृतमिति वाक्यशेषः, अयं वृत्तार्थः ॥११५८॥ किंच-शक्य एवोपाये प्रेक्षावतःप्रवृत्तियुज्यते, न पुनरशक्ये शिरःशूलशमनाय तक्षकफणालङ्कारग्रहणकल्पे चारित्रे, चारित्रं च तत्त्वतः मोक्षोपायत्वे सत्यप्यशक्यासेवनं, सूक्ष्मापराधेऽपि अनुपयुक्तगमनागमनादिभिर्विराध्यमानस्वादायासरूपत्वाच्च, नियमेन च छद्मस्थस्य तछंश उपजायते सर्वस्यैवातः भटेण चरित्ताओ सुदुयरं दसणं गहेयव्वं । सिज्झंति चरणरहिया सणरहिया न सिझति ॥ १९५९ ॥ व्याख्या-'भ्रष्टेन' च्युतेन, कुतः १-चारित्रात् , सुतरां दर्शनं ग्रहीतव्यं, पुनर्बोधिलाभानुबन्धिशक्यमोक्षोपायत्वात् , तथा च-सिद्ध्यन्ति चरणरहिताः प्राणिना-दीक्षाप्रवृत्त्यनन्तरमृतान्तकृत्केवलिनः, दर्शनरहितास्तु न सिद्ध्यन्ति, अतो दर्शनमेव प्रधानं सिद्धिकारणं. तद्भावभाविवादित्ययं गाथार्थः॥११५९ ॥ इत्थं चोदकाभिप्राय उक्तः, साम्प्रतमसहायदर्शनपक्षे दोषा उच्यन्ते, यदुक्तं-'न श्रेणिक आसीत्तदा बहुश्रुत' इत्यादि, तन्न, तत एवासौ नरकमगमत् , असहायदर्शनयुक्तत्वात् , अन्येऽप्येवंविधा दशारसिंहादयो नरकमेव गता इति, आह च सारसीहस्स य सेणियस्सा, पेढालपुत्तस्स य सच्चइस्स । अणुत्तरा दंसणसंपया तया, विणा चरित्तेणहरं गई गया ॥११६०॥ व्याख्या-दशारसिंहस्य अरिष्टनेमिपितृव्यपुत्रस्य 'श्रेणिकस्य च' प्रसेनजित्पुत्रस्य पेढालपुत्रस्य च सत्यकिनः 'अनुतरा' प्रधाना क्षायिकेति यदुक्तं भवति, का ?-दर्शनसम्पत् 'तदा' तस्मिन् काले, तथाऽपि विना चारित्रेण 'अधरां गतिं गता' नरकगति प्राप्ता इति वृत्तार्थः ॥ ११६० ।। किं चसवाओवि गईओ अविरहिया नाणदंसणधरेहिं । ता मा कासि पमायं नाणेण चरित्तरहिएणं ॥११६१॥ व्याख्या-'सर्वा अपि' नारकतिर्यग्नरामरगतयः 'अविरहिताः' अविमुक्ताः, कैः १-ज्ञानदर्शनधरैस्सत्त्वैः, यतः-सर्वा. स्वेव सम्यक्त्वश्रुतसामायिकद्वयमस्त्येव, न च नर गतिव्यतिरेकेणान्यासु मुक्तिः, चारित्राभावात्, तस्माच्चारित्रमेव प्रधानं मुक्तिकारणं, तद्भावभावित्वादिति, यस्मादेवं तं मा कासि पमाय'ति तत्-तस्मान्मा कार्षीः प्रमाद, ज्ञानेन चारित्ररहितेन, तस्येष्टफलासाधकत्वात् , ज्ञानग्रहणं च दर्शनोपलक्षणार्थमिति गाथार्थः ॥ ११६१ ॥ इतश्च चारित्रमेव प्रधान, नियमेन चारित्रयुक्त एव सम्यक्त्वसद्भावाद्, आह चसम्मत्तं अचरित्तस्स हुन्न भयणाइ नियमसो नत्थिाजो पुण चरित्तजुत्तो तस्स उ नियमेण सम्मत्तं ॥११६२॥ __ व्याख्या-'सम्यक्त्वं' प्राग्वर्णितस्वरूपम् 'अचारित्रस्य' चारित्ररहितस्य प्राणिनो भवेत् 'भजनया' विकल्पनया-कदाचिद्भवति कदाचिन्न भवति, 'नियमशो नास्ति' नियमेन न विद्यते, प्रभूतानां चारित्ररहितानां मिथ्यादृष्टित्वात् , यः पुनश्चारित्रयुक्तः सत्त्वस्तस्यैव, तुशब्दस्यावधारणार्थत्वात् , 'नियमेन' अवश्यतया सम्यक्त्वम् , अतः सम्यक्त्वस्यापि नियमतश्चारित्रयुक्त एव भावात्प्राधान्यमिति गाथार्थः॥ ११६२॥ किं च Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260