Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami, 
Publisher: Bherulal Kanhiyalal Kothari Religious Trust

View full book text
Previous | Next

Page 38
________________ 29 आवश्यकहारिभद्रीया जिणवयणयाहिरा भावणाहिं उव्वपूर्ण अयाणंता । नेरइयतिरियएगिदिएहि जह सिज्झई जीवो ॥ ११६३ ॥ व्याख्या-'जिनवचनवाडा' यथावस्थितागमपरिज्ञानरहिताः प्रत्येकं ज्ञानदर्शननयावलम्बिनः 'भावणाहिं ति उक्तेन न्यायेन ज्ञानदर्शनभावनाभ्यां सकाशात् , मोक्षमिच्छन्तीति वाक्यशेषः, 'उद्वर्तनामजानाना' नारकतिर्यगेकेन्द्रियेभ्यो यथा सिद्ध्यति जीवस्तथोद्वर्तनामजानाना इति योगः, इयमत्र भावना-ज्ञानदर्शनभावेऽपि न नारकादिभ्योऽनन्तरं मनुष्यभावमप्राप्य सिद्ध्यति कश्चित् , चरणाभावात् , तेनानयोः केवलयोरहेतुत्वं मोक्ष प्रति, तेभ्य एवैकेन्द्रियेभ्यश्च ज्ञानादिरहितेभ्योऽप्युद्धृत्ता मनुष्यत्वमपि प्राप्य चारित्रपरिणामयुक्त एव सिद्ध्यति, नायुक्तोऽकर्मभूमिकादिः, अत इयमुद्वर्तना कारणवैकल्यं सूचयतीति गाथार्थः ॥ ११६३ ॥ पुनरपि चारित्रपक्षमेव समर्थयन्नाह सुझुवि सम्मदिही न सिज्झई चरणकरणपरिहीणो । जं चेव सिद्धिमूलं मूढोतं व नासेइ ॥ ११६४ ॥ व्याख्या-'सुष्ठपि' अतिशयेनापि सम्यग्दृष्टिर्न सिद्ध्यति, किम्भूतः ?-चरणकरणपरिहीणः, तद्वादमेव च समर्थयन् , किमिति ?-'यदेव सिद्धिमूलं' यदेव मोक्षकारणं सम्यक्त्वं मूढस्तदेव नाशयति, केवलतद्वादसमर्थनेन, 'एकपि असद्दहंतो मिच्छंति वचनात् , अथवा सुष्ठपि सम्यग्दृष्टिः क्षायिकसम्यग्दृष्टिरपीत्यर्थः, न सिद्ध्यति चरणकरणपरिहीणा, श्रेणिकादिवत् , किमिति ?-यदेव सिद्धिमूलं-चरणकरणं मूढस्तदेव नाशयत्यनासेवनयेति गाथार्थः ॥ ११६४ ॥ किं च-अर्य केवलदर्शनपक्षो न भवत्येवागमविदः सुसाधोः, कस्य तर्हि भवति ?, अत आह दसणपक्खो सावय चरित्तभहे य मंद्धम्मे य । दसणचरित्तपक्खो समणे परलोगकंखिम्मि ॥११६५॥ व्याख्या-दर्शनपक्षः श्रावके' अप्रत्याख्यानकषायोदयवति भवति 'चारित्रभ्रष्टे च' कस्मिश्चिंदव्यवस्थितपुराणे 'मन्दधर्मे च' पार्श्वस्थादौ, दर्शनचारित्रपक्षः श्रमणे भवति, किम्भूते ?-परलोकाकासिणि, सुसाधावित्यर्थः, प्राकृतशैल्या चेह सप्तमी षष्ठयर्थ एव द्रष्टव्या, दर्शनग्रहणाच्च ज्ञानमपि गृहीतमेव द्रष्टव्यम् , अतो दर्शनादिपक्षस्त्रिरूपो वेदितव्य इति गाथार्थः ॥ ११६५ ॥ अपरस्त्वाह-यद्येवं बह्वीभिरुपपत्तिभिश्चारित्रं प्रधानमुपवर्ण्यते भवता ततस्तदेवास्तु, अलं ज्ञानदर्शनाभ्यामिति, न, तस्यैव तद्वयतिरेकेणासम्भवाद्, आह पारंपरप्पसिद्धी दंसणनाणेहिं होइ चरणस्स । पारंपरप्पसिद्धी जह होइ तहऽन्नपाणाणं ॥११६६ ॥ व्याख्या-पारम्पर्येण प्रसिद्धिः पारम्पर्यप्रसिद्धिः-स्वरूपसत्ता, एतदुक्तं भवति-दर्शनाज्ज्ञानं, ज्ञानाचारित्रम् , एवं पारम्पर्येण चरणस्वरूपसत्ता, सा दर्शनज्ञानाम्यां सकाशाद्भवति चरणस्य, अतस्तद्भावभावित्वाच्चरणस्य त्रितयमप्यस्तु, लौकिकं न्यायमाह-पारम्पर्यप्रसिद्धिर्यथा भवति तथाऽन्नपानयोलोकेऽपि प्रतीतैवेति क्रिया, तथा चान्नार्थी स्थालीन्धनाद्यपि गृह्णाति पानार्थी च द्राक्षाद्यपि, अतस्त्रितयमपि प्रधानमिति गाथार्थः ॥ ११६६ ॥ आह-यद्येवमतस्तुल्यबलत्वे सति ज्ञानादीनां किमित्यस्थानपक्षपातमाश्रित्य चारित्रं प्रशस्यते भवतेति,अत्रोच्यतेजग्हा दसणनाणा संपुण्णफलं न दिति पत्तेयं । चारित्तजुया दिति उ विसिस्सए तेण चारित्तं ॥११६७॥ व्याख्या-यस्माद्दर्शनज्ञाने 'सम्पूर्णफलं' मोक्षलक्षणं 'न ददतः' न प्रयच्छता प्रत्येकं, चारित्रयुक्त दत्ते एव, विशेष्यते तेन चारित्रं, तस्मिन्सति फलभावादिति गाथार्थः॥ ११६७ ॥ आह-विशिष्यतां चारित्रं, किन्तुउजभमाणस्स गुणा जह हुँति ससत्तिओ तवसुएसुं । एमेव जहासत्ती संजममाणे कहं न गुणा ? ॥११६८॥ व्याख्या-'उज्जममाणस्स'त्ति उद्यच्छतः-उद्यम कुर्वतः साधोः, क्व-तपःश्रुतयोरिति योगः, 'गुणाः' तपोज्ञानावाप्तिनिर्जरादयो यथा भवन्ति 'स्वशक्तितः' स्वशक्त्योद्यच्छतः, एवमेव 'यथाशक्ति' शक्त्यनुरूपमित्यर्थः, संजममाणे कहं न गुण'त्ति संयच्छमाने-संयम पृथिव्यादिसंरक्षणादिलक्षणं कुर्वति सति साधौ कथं न गुणाः १, गुणा एवेत्यर्थः, अथवा कथं न गुणा येनाविकलसंयमानुष्ठानरहितो विराधका प्रतिपद्यत इति !, अत्रोच्यतेअणिगृहंतो विरियं न विराहेइ घरणं तषसुएसं । जइ संजमेऽवि विरियं न निगूहिजा न हाविजा ॥ ११६९ ॥ ___ व्याख्या-'अंनिगृहन् वीर्य' प्रकटयन् सामर्थ्य यथाशक्त्या, क्वी-तपाश्रुतयोरिति योगः, किन विराधयति चरणं' न खण्डयति चारित्रं , यदि 'संयमेऽपि' पृथिव्यादिसंरक्षणादिलक्षणे 'वीर्य' सामर्थ्यमुपयोगादिरूपतया 'न निगूहयेत्' नेन 'न हाविज्ज'त्ति ततो न हापयेत संयम न खण्डेत, स्यादेव संयमगुण इति गाथार्थः ॥११६९॥ संजमजोएसु सया जे पुण संतविरियावि सीयंति । कह ते विसुद्धचरणा बाहिरकरणालसा हुंति ? ॥११७०॥ व्याख्या-'संयमयोगेषु' पृथिव्यादिसंरक्षणादिव्यापारेषु'सदासर्वकालंये पुनःप्राणिनः 'संतविरियावि सीयंति'त्ति विधमानसामथ्यो अपि नोत्सहन्ते, कथं ते विशुद्धचरणा भवन्तीति योगः, नैवेत्यथे, बाह्यकरणालसाःसन्त:-प्रत्युपंक्षणादिबाह्यचेप्टारहिता इति गाथार्थः॥११७०॥आह-ये पुनरालम्बनमाश्रित्य बाह्यकरणालसा भवन्ति तेषु का वातेति ?, उच्यते आलंबणेण केणइ जे मन्ने संयम पमायति । न हु तं होइ पमाणं भूयत्थगवेसणं कुजा ॥ ११७१ ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260