________________
29 आवश्यकहारिभद्रीया जिणवयणयाहिरा भावणाहिं उव्वपूर्ण अयाणंता । नेरइयतिरियएगिदिएहि जह सिज्झई जीवो ॥ ११६३ ॥
व्याख्या-'जिनवचनवाडा' यथावस्थितागमपरिज्ञानरहिताः प्रत्येकं ज्ञानदर्शननयावलम्बिनः 'भावणाहिं ति उक्तेन न्यायेन ज्ञानदर्शनभावनाभ्यां सकाशात् , मोक्षमिच्छन्तीति वाक्यशेषः, 'उद्वर्तनामजानाना' नारकतिर्यगेकेन्द्रियेभ्यो यथा सिद्ध्यति जीवस्तथोद्वर्तनामजानाना इति योगः, इयमत्र भावना-ज्ञानदर्शनभावेऽपि न नारकादिभ्योऽनन्तरं मनुष्यभावमप्राप्य सिद्ध्यति कश्चित् , चरणाभावात् , तेनानयोः केवलयोरहेतुत्वं मोक्ष प्रति, तेभ्य एवैकेन्द्रियेभ्यश्च ज्ञानादिरहितेभ्योऽप्युद्धृत्ता मनुष्यत्वमपि प्राप्य चारित्रपरिणामयुक्त एव सिद्ध्यति, नायुक्तोऽकर्मभूमिकादिः, अत इयमुद्वर्तना कारणवैकल्यं सूचयतीति गाथार्थः ॥ ११६३ ॥ पुनरपि चारित्रपक्षमेव समर्थयन्नाह
सुझुवि सम्मदिही न सिज्झई चरणकरणपरिहीणो । जं चेव सिद्धिमूलं मूढोतं व नासेइ ॥ ११६४ ॥ व्याख्या-'सुष्ठपि' अतिशयेनापि सम्यग्दृष्टिर्न सिद्ध्यति, किम्भूतः ?-चरणकरणपरिहीणः, तद्वादमेव च समर्थयन् , किमिति ?-'यदेव सिद्धिमूलं' यदेव मोक्षकारणं सम्यक्त्वं मूढस्तदेव नाशयति, केवलतद्वादसमर्थनेन, 'एकपि असद्दहंतो मिच्छंति वचनात् , अथवा सुष्ठपि सम्यग्दृष्टिः क्षायिकसम्यग्दृष्टिरपीत्यर्थः, न सिद्ध्यति चरणकरणपरिहीणा, श्रेणिकादिवत् , किमिति ?-यदेव सिद्धिमूलं-चरणकरणं मूढस्तदेव नाशयत्यनासेवनयेति गाथार्थः ॥ ११६४ ॥ किं च-अर्य केवलदर्शनपक्षो न भवत्येवागमविदः सुसाधोः, कस्य तर्हि भवति ?, अत आह
दसणपक्खो सावय चरित्तभहे य मंद्धम्मे य । दसणचरित्तपक्खो समणे परलोगकंखिम्मि ॥११६५॥ व्याख्या-दर्शनपक्षः श्रावके' अप्रत्याख्यानकषायोदयवति भवति 'चारित्रभ्रष्टे च' कस्मिश्चिंदव्यवस्थितपुराणे 'मन्दधर्मे च' पार्श्वस्थादौ, दर्शनचारित्रपक्षः श्रमणे भवति, किम्भूते ?-परलोकाकासिणि, सुसाधावित्यर्थः, प्राकृतशैल्या चेह सप्तमी षष्ठयर्थ एव द्रष्टव्या, दर्शनग्रहणाच्च ज्ञानमपि गृहीतमेव द्रष्टव्यम् , अतो दर्शनादिपक्षस्त्रिरूपो वेदितव्य इति गाथार्थः ॥ ११६५ ॥ अपरस्त्वाह-यद्येवं बह्वीभिरुपपत्तिभिश्चारित्रं प्रधानमुपवर्ण्यते भवता ततस्तदेवास्तु, अलं ज्ञानदर्शनाभ्यामिति, न, तस्यैव तद्वयतिरेकेणासम्भवाद्, आह
पारंपरप्पसिद्धी दंसणनाणेहिं होइ चरणस्स । पारंपरप्पसिद्धी जह होइ तहऽन्नपाणाणं ॥११६६ ॥ व्याख्या-पारम्पर्येण प्रसिद्धिः पारम्पर्यप्रसिद्धिः-स्वरूपसत्ता, एतदुक्तं भवति-दर्शनाज्ज्ञानं, ज्ञानाचारित्रम् , एवं पारम्पर्येण चरणस्वरूपसत्ता, सा दर्शनज्ञानाम्यां सकाशाद्भवति चरणस्य, अतस्तद्भावभावित्वाच्चरणस्य त्रितयमप्यस्तु, लौकिकं न्यायमाह-पारम्पर्यप्रसिद्धिर्यथा भवति तथाऽन्नपानयोलोकेऽपि प्रतीतैवेति क्रिया, तथा चान्नार्थी स्थालीन्धनाद्यपि गृह्णाति पानार्थी च द्राक्षाद्यपि, अतस्त्रितयमपि प्रधानमिति गाथार्थः ॥ ११६६ ॥ आह-यद्येवमतस्तुल्यबलत्वे सति ज्ञानादीनां किमित्यस्थानपक्षपातमाश्रित्य चारित्रं प्रशस्यते भवतेति,अत्रोच्यतेजग्हा दसणनाणा संपुण्णफलं न दिति पत्तेयं । चारित्तजुया दिति उ विसिस्सए तेण चारित्तं ॥११६७॥
व्याख्या-यस्माद्दर्शनज्ञाने 'सम्पूर्णफलं' मोक्षलक्षणं 'न ददतः' न प्रयच्छता प्रत्येकं, चारित्रयुक्त दत्ते एव, विशेष्यते तेन चारित्रं, तस्मिन्सति फलभावादिति गाथार्थः॥ ११६७ ॥ आह-विशिष्यतां चारित्रं, किन्तुउजभमाणस्स गुणा जह हुँति ससत्तिओ तवसुएसुं । एमेव जहासत्ती संजममाणे कहं न गुणा ? ॥११६८॥
व्याख्या-'उज्जममाणस्स'त्ति उद्यच्छतः-उद्यम कुर्वतः साधोः, क्व-तपःश्रुतयोरिति योगः, 'गुणाः' तपोज्ञानावाप्तिनिर्जरादयो यथा भवन्ति 'स्वशक्तितः' स्वशक्त्योद्यच्छतः, एवमेव 'यथाशक्ति' शक्त्यनुरूपमित्यर्थः, संजममाणे कहं न गुण'त्ति संयच्छमाने-संयम पृथिव्यादिसंरक्षणादिलक्षणं कुर्वति सति साधौ कथं न गुणाः १, गुणा एवेत्यर्थः, अथवा कथं न गुणा येनाविकलसंयमानुष्ठानरहितो विराधका प्रतिपद्यत इति !, अत्रोच्यतेअणिगृहंतो विरियं न विराहेइ घरणं तषसुएसं । जइ संजमेऽवि विरियं न निगूहिजा न हाविजा ॥ ११६९ ॥ ___ व्याख्या-'अंनिगृहन् वीर्य' प्रकटयन् सामर्थ्य यथाशक्त्या, क्वी-तपाश्रुतयोरिति योगः, किन विराधयति चरणं' न खण्डयति चारित्रं , यदि 'संयमेऽपि' पृथिव्यादिसंरक्षणादिलक्षणे 'वीर्य' सामर्थ्यमुपयोगादिरूपतया 'न निगूहयेत्'
नेन 'न हाविज्ज'त्ति ततो न हापयेत संयम न खण्डेत, स्यादेव संयमगुण इति गाथार्थः ॥११६९॥ संजमजोएसु सया जे पुण संतविरियावि सीयंति । कह ते विसुद्धचरणा बाहिरकरणालसा हुंति ? ॥११७०॥
व्याख्या-'संयमयोगेषु' पृथिव्यादिसंरक्षणादिव्यापारेषु'सदासर्वकालंये पुनःप्राणिनः 'संतविरियावि सीयंति'त्ति विधमानसामथ्यो अपि नोत्सहन्ते, कथं ते विशुद्धचरणा भवन्तीति योगः, नैवेत्यथे, बाह्यकरणालसाःसन्त:-प्रत्युपंक्षणादिबाह्यचेप्टारहिता इति गाथार्थः॥११७०॥आह-ये पुनरालम्बनमाश्रित्य बाह्यकरणालसा भवन्ति तेषु का वातेति ?, उच्यते
आलंबणेण केणइ जे मन्ने संयम पमायति । न हु तं होइ पमाणं भूयत्थगवेसणं कुजा ॥ ११७१ ॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org