________________
आवश्यक हारिभद्रीया
व्याख्या-आलम्ब्यत इत्यालम्बनं - प्रपततां साधारणस्थानं तेनालम्बनेन 'केनचित् ' अव्यवच्छित्त्यादिना ये प्राणिनः 'मन्य' इति एवमहं मन्ये 'संयमम्' उक्तलक्षणं 'प्रमादयन्ति' परित्यजन्ति, 'न हु तं होइ पमाणं' नैव तदालम्बनमात्रं भवति प्रमाणम् - आदेयं, किन्तु ? 'भूतार्थगवेषणं कुर्यात् तत्त्वार्थान्वेषणं कुर्यात् किमिदं पुष्टमालम्बनम् ? आहोस्विन्नेति, यद्यपुष्टमविशुद्धचरणा एव ते, अथ पुष्टं विशुद्धचरणा इति गाथार्थः ॥ ११७१ ॥ अपरस्त्वाह - आलम्बनाको विशेष उपजायते । येन विशुद्ध चरणा भवन्तीति, अत्र दृष्टान्तमाह-
सालंघणो पडतो अप्पाणं दुग्गमेऽवि धारेह । इय सालंबणसेवा धारेह जई असढभावं ॥ ११७२ ॥ व्याख्या -इहालम्बनं द्विविधं भवति - द्रव्यालम्बनं भावालम्बनं च द्रव्यालम्बनं गर्तादौ प्रपतता यदालम्ब्यते द्रव्यं, तदपि द्विविधम्-पुष्टमपुष्टं च तत्रापुष्टं दुर्बलं कुशवच्चकादि, पुष्टं तु बलवत्कठिनवल्यादि, भावालम्बनमपि पुष्टापुष्टभेदेन द्विधैव तत्रापुष्टं ज्ञानाद्यपकारकं, तद्विपरीतं तु पुष्टमिति, तच्चेदं - 'कांहं अछितिं अदुवा अहीहं, तवोवहाणेसु य उज्जमिस्सं । गणं वणी वहु सारविस्सं, सालंबसेवी समुवेइ मुक्खं ॥ १ ॥” तदेवं व्यवस्थिते सति सहालम्बनेन वर्तत इति सालम्बनः, असौ पतन्नपि आत्मानं 'दुर्गमेऽपि' गर्तादौ धारयति, पुष्टालम्बनप्रभावादिति, 'इय' एवं सेवनं सेवा प्रतिसेवनेत्यर्थः, सालम्बना चासौ सेवा च सालम्बनसेवा सा संसारगर्ते प्रपतन्तं धारयति यतिमशठभावं - मातृस्थानरहितमित्येष गुण इति गाधार्थः ॥ ११७२ ॥ साम्प्रतं सिसाधयिषितार्थव्यतिरेकं दर्शयन्नाह
30
३ करिष्याम्यव्युच्छित्तिमथवाऽध्येष्ये तपउपधानयोरुयंस्यामि । गणं वा नीत्यैव सारयिष्यामि सालम्यसेवी समुपैति मोक्षम् ॥ १ ॥ आपणही पुण निवडइ खलिओ अहे दुरुत्तारे । इय निक्कारणसेवी पडह भवोहे अगाहंमि ॥ ११७३ ॥
व्याख्या-आलम्बनहीनः पुनर्निपतति स्खलितः, व १ - ' अहे दुरुत्तारे' त्ति गर्तायां दुरुत्तारायाम्, 'इय' एवं 'निष्कारणसेवी' साधुः पुष्टालम्बनरहित इत्यर्थः, 'पतति भवौघे अगाधे' पतति भवगर्तायामगाधायाम्, अगाधत्वं पुनरस्या दुःखेनोत्तारणसम्भवादिति गाधार्थः ॥ ११७३ ॥ गतं सप्रसङ्गं दर्शनद्वारम्, इदानीं 'नियावासे' त्ति अस्यावसरः, अस्य च सम्बन्धो व्याख्यात एव गाथाक्षरगमनिकाय, स एव लेशतः सार्यते-इह यथा चरणविकला असहायज्ञानदर्शन पक्षमा लम्बन्ति एवं नित्यवासाद्यपि, आई -
जे जत्थ जया भग्गा ओगासं ते परं अविंदंता । गंतुं तत्थऽचयंता ईमं पहाणंति घोसंति ॥ ११७४ ॥ व्याख्या- 'ये' साधवः शीतलविहारिणः 'यत्र' अनित्यवासादी 'यदा' यस्मिन् काले 'भग्ना' निर्विण्णाः 'अवकाश' स्थानं ते 'परम्' अन्यत् 'अविंदंत'त्ति अलभमाना गन्तुं 'तत्र' शोभने स्थाने अशक्नुवन्तः किं कुर्वन्ति ? - इमं पहाणंति घोसन्ति' त्ति यदस्माभिरङ्गीकृतं साम्प्रतं कालमाश्रित्येदमेव प्रधानमित्येवं घोषयन्ति, दिहंतो इत्थ सत्येणं
Prer als सत्थो विरलोदगरुक्ख च्छायमद्धाणं पवण्णो, तत्थ केइ पुरिसा परिस्संता पविरलासु छायासु जेहिं तेहिं वा पाणिएहिं पडिबद्धा अच्छंति, अण्णे य सदाविंति - एह इमं चैव पहाणंति, तंमि सत्थे केइ तेसिं पडिसुणंति, केइ ण
१ दृष्टान्तोऽत्र सार्थेन यथा कोऽपि साथैः प्रविरको दकवृक्षच्छायमध्वानं प्रपन्नः, तत्र केचित्पुरुषाः परिश्रान्ताः प्रविरळासु छायासु यैस्तैर्वा पानीयैः प्रतिमातिष्टन्ति, अभ्यश्च शब्दयन्ति-भायातेदमेव प्रधानमिति, तस्मिंत्र साधें केचित्तेपां प्रतिशृण्वन्ति, केचिस सुणंति, जे सुणिंति ते छुहातण्हाइयाणं दुक्खाणं आभागी जाया, जे न सुणंति ते खिप्पमेव अपडिबद्धा अद्धाण सीसं गंतुं उदयस्स सीयलस्स छायाणं च अभागी जाया । जहा ते पुरिसा विसीयंति तहा पासत्थाई, जहा ते णिच्छिण्णा ता साहू । अयं गाथार्थः ॥ ११७४ ॥ साम्प्रतं यदुक्तमिदं प्रधानमिति घोषयन्ति तद्दर्शयति
नयावासविहारं चेइयभक्तिं च अज्जियालाभं । विगईसु य पडिबंधं निद्दोसं चोइया बिंति ॥ ११७५ ॥
व्याख्या — नित्यवासेन विहारं, नित्यवासकल्प मित्यर्थः, चैत्येषु भक्तिश्चैत्यभक्तिस्तां च चशब्दात्कुलकार्यादिपरिग्रहः, आर्यिकाभ्यो लाभस्तं, क्षीराद्या विगतयोऽभिधीयन्ते तासु विगतिषु च 'प्रतिबन्धम्' आस निर्दोषं चोदिताः अन्येनोद्यतविहारिणा 'ब्रुवते' भणन्तीति गाथार्थः ॥ ११७५ ॥ तत्र नित्यावासविहारे सदोषं चोदिताः सन्तस्तदा कथं वा निर्दोषं ब्रुवत इत्याह
जाहेवि य परितंता गामागरनगरपट्टणमडता । तो केई नीयवासी संगमथेरं ववइति ॥ ११७६ ॥ व्याख्या - यदाऽपि च 'परितान्ताः' सर्वथा श्रान्ता इत्यर्थः, किं कुर्वन्तः सन्तः :- ग्रामाकरनगरपत्तनान्यदन्तस्सन्तः ग्रामादीनां स्वरूपं प्रसिद्धमेव, अतः 'केचन' नष्टनाशका नित्यवासिनः, न तु सर्व एव किं १ - सङ्गमस्थविरमाचार्य व्यप दिशन्त्यालम्बनत्वेन इति गाथार्थः ॥ ११७६ ॥ कथं ?
१ शृण्वन्ति ये शृण्वन्ति ते क्षुधातृष्णादिकानां दुःखामामा भागिनो जाताः, येन शृण्वन्ति ते क्षिप्रमेवाप्रतिबद्धा अध्वनः शीर्ष गश्वोदकस्य शीत कस्य छायानां चाभागिनो जाताः । यथा ते पुरुषा विषीदन्ति तथा पार्श्वस्यादयः, यथा ते निस्तीर्णस्तथा सुसाधवः ।
Jain Education International
For Private
Personal Use Only
www.jainelibrary.org