Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami, 
Publisher: Bherulal Kanhiyalal Kothari Religious Trust

View full book text
Previous | Next

Page 121
________________ 112 आवश्यकहारिभद्रीया . वर्जितालस्यो ग्रामनगरकुलादिष्वनियतवसतिनिर्ममत्वः प्रतिमासं चर्यामाचरेदिति ९, "निसीहिय'त्ति निषीदन्त्यस्यामिति निषद्या-स्थानं तत् स्त्रीपशुपण्डकविवर्जितां वसति सेवेत पश्चाद्भाविनस्त्विष्टानिष्टोपसर्गान् सम्यगधिसहेत १०, 'सेज'त्ति शय्या संस्तारकः-चम्पकादिपट्टो मृदुकठिनादिभेदेनोच्चावचः प्रतिश्रयो वा पांशूत्करप्रचुरः शिशिरो बहुधर्मको वा तत्र नोद्विजेत ११, 'अक्कोस'त्ति आक्रोशः-अनिष्टवचनं तच्छ्रुत्वा सत्येतरालोचनया न कुप्यत १२, 'वह'त्ति वधः-ताडनं पाणिपाणिलताकशादिभिः, तदपि शरीरमवश्यंतया विध्वंसत एवेति मत्वा सम्यक सहेत, स्वकृतकर्मफलमुपनतमित्येवमभिसंचिन्तयेत् १३, 'जायणति याचनं-मार्गणं, भिक्षोर्हि वस्त्रपात्रानपानप्रतिश्रयादि परतो लब्धव्यं सर्वमेव, शाली. नतया च न याज्यां प्रत्याद्रियते, साधुना तु प्रागल्भ्यभाजा सञ्जाते कार्ये स्वधर्मकायपरिपालनाय याचनमवश्यं कार्यमिति, एवमनुतिष्ठता याज्यापरीषहजयः कृतो भवति १४, 'अलाभ'त्ति याचितालाभेऽपि प्रसन्नचेतसैवाविकृतवदनेन भवितव्यं १५, 'रोग'त्ति रोगः-ज्वरातिसारकासश्वासादिस्तस्य प्रादुर्भावे सत्यपि न गच्छनिर्गताश्चिकित्सायां प्रवर्तन्ते. गच्छवासिनस्वरुपबहुत्वालोचनया सम्यक् सहन्ते, प्रवचनोक्तविधिना प्रतिक्रियामाचरन्तीति, एवमनुतिष्ठता रोगपरी पहजयः कृतो भवति १६, 'तणफास'ति अशुषिरतृणस्य दर्भादेः परिभोगोऽनुज्ञातो गच्छनिर्गतानां गच्छनिवासिनां च, तत्र येषां शयनमनुज्ञातं निष्पन्नानां ते तान् दर्भान भूमावास्तीर्य संस्तारोत्तरपट्टकौ च दर्भाणामुपरि विधाय शेरते, चौरापहृतोपकरणा वा प्रतनुसंस्तारपट्टकावत्यन्तजीर्णत्वात्, तथाऽपि तं परुषकुशदर्भादितृणस्पर्श सम्यक सहेत १७, 'मल'त्ति स्वेदवारिसम्पत्किठिनीभूतं रजो मलोऽभिधीयते, स वपुषि स्थिरतामितो ग्रीष्मोष्मसन्तापजनितधर्मजलादा तां गतो दुर्गन्धिमहान्तमुद्वेगमापादयति, तदपनयनाय न कदाचिदभिलषेत्-अभिलाषं कुर्यात् १८, 'सक्कारपरीसहे'त्ति सत्कारो-भक्तपानवस्त्रपात्रादीनां परतो लाभः पुरस्कारः-सद्भूतगुणोत्कीर्तनं वन्दनाभ्युत्थानासनप्रदानादिव्यवहारश्च, तत्रासत्कारितोऽपुरस्कृतो वा न द्वेष यायात् १९, 'पण्ण'त्ति प्रज्ञायतेऽनयेति प्रज्ञा-बुद्ध्यतिशयः, तत्प्राप्तौ न गर्वमुद्धहेत् २०, 'अण्णाण ति कर्मविपाकजादज्ञानानोद्विजेत २१, 'असंमत्त'ति असम्यक्त्वपरीषहः, सर्वपापस्थानेभ्यो विरतः प्रकृष्टतपोऽनुष्ठायी निःसङ्गश्चाहं तथापि धर्माधर्मात्मदेवनारकादिभावान्नेक्षे अतो मृषा समस्तमेतदिति असम्यक्त्वपरीपहा, तत्रैवमालोचयेत्-धर्माधर्मों पुण्यपापलक्षणौ यदि कर्मरूपौ पुद्गलात्मको ततस्तयोः कार्यदर्शनानुमानसमधिगम्यत्वं, अथ क्षमाक्रोधादिको धर्माधौं ततः स्वानुभवत्वादात्मपरिणामरूपत्वात प्रत्यक्षविरोधा, देवास्त्वत्यन्तसुखासक्तत्व लोके कार्याभावात् दुष्षमानुभावाच्च न दर्शनगोचरमायान्ति, नारकास्तु तीनवेदनार्ताः पूर्वकृतकोर्दयनिगडबन्धनवशीकृतत्वादस्वतन्त्राः कथमायान्तीत्येवमालोचयतोऽसम्यक्त्वपरीषहजयो भवति, 'बावीस परीसह'त्ति एते द्वाविंशतिपरीषहा इति गाथाद्वयार्थः ॥त्रयोविंशतिभिः सूत्रकृताध्ययनैः, क्रिया पूर्ववत्, तानि पुनरमूनि पुंडरीय किरियहाणं आहारपरिणपञ्चक्खाणकिरियों य । भणगौरभईनालंद सोलसाई च तेवीसं ।। १ । गाथा निगदसिद्धैव ॥ चतुर्विंशतिभिर्देवैः, क्रिया पूर्ववत् , तानुपदर्शयन्नाह भवणवणजोहवेमाणिया म दसबद्वपंचएगविहा । इइ चरपीस पेवा केर पुण ति भरईसा ॥१॥ इयमपि निगदसिद्धैव ॥ पञ्चविंशतिभिर्भावनाभिः, क्रिया पूर्ववत् , प्राणातिपातादिनिवृत्तिलक्षणमहाव्रतसंरक्षणाय भाव्यन्त इति भावनाः, ताश्चेमा: इरियासमिए सया जए, वह मुंजेज व पाणभोयणं । मायाणनिक्खेवदुगुंछ संजए, समाहिए संजमए मणोई ॥३॥ महस्ससचे अणुवीह मासए, जे कोहलोहभयमेव वजए । स दोहरायं समुपेहिया सिया, मुणी हु मोसं परिवजए सया ॥२॥ सयमेव उ उग्गहजायणे, घडे मतिमं निसम्म सह मिक्लु सगई। अणुण्णविय मुंजिज पाणभोयणं, जाइत्ता साहमियाण समगहं॥३॥आहारगुत्ते मविभूसियप्पा, इत्थिन मिझाइन संबवेजा ।बुद्धो मुणी खडकहं म कुजा, धम्माणुपेही संधए बमचे ॥४॥जे सररूवरसगंधमागए, फासे य संपप्प मणुण्णपावए । गिहीपदोस न करेज पंडिए, स होह वंते विरए मकिंचणे ॥५॥ गाथाः पञ्च, आसां व्याख्या-ईरणम् ईर्या, गमनमित्यर्थः, तस्यां समितः सम्यगित ईर्यासमितः, ईर्यासमितता प्रथमभावना यतोऽसमितः प्राणिनो हिंसेदतः सदा यत:-सर्वकालमुपयुक्तः सन् 'उवेह भुंजेज व पाणभोयर्ण उवेह'त्ति अवलोक्य भुञ्जीत पानभोजनं, अनवलोक्य भुजानः प्राणिनो हिंसेत, अवलोक्य भोक्तव्यं द्वितीयभावना, एवमन्यत्राप्यक्षरगमनिका कार्या, आदाननिक्षेपी-पात्रादेर्ग्रहणमोक्षौ आगमप्रसिद्धौ जुगुप्सति-करोत्यादाननिक्षेपजुगुप्सका,अजुगुप्सन् प्राणिनो हिंस्यात् तृती यभावना, संयतः-साधुः समाहितः सन् संयमे 'मणोवई'त्ति अदुष्टं मनः प्रवर्तयेत् , दुष्टं प्रवर्तयन् प्राणिनो हिंसेत् चतुर्थी भावना, एवं वाचमपि पश्चमी भावना, गताः प्रथमवतभावनाः। द्वितीयव्रतभावनाः प्रोच्यन्ते-'अहस्ससच्चे'त्ति अहास्यात् Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260